6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 539:
 
<big>अपित्सु = '''श्नसोरल्लोपः''' इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | छिनद्‌ + तः → छिन्द्‌ + तः → सन्धिकार्यम्‌ → छिन्त्तः</big>
 
 
<big>b. सन्धिकार्यम्‌</big>
 
<big>छिन्द्‌ + तः → '''नश्चापदान्तस्य झलि''' (८.३.२४) → छिंद्‌ + तः → '''खरि च''' (८.४.५५) → छिंत्‌ + तः → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → छिन्त्‌ + तः → वर्णमेलने → छिन्त्तः</big>
 
 
<big>एवं तकारान्तानां, दकारान्तानां, धकारान्तानां च धातूनां 'हल्‌-उत्तरस्य झर्‌ सवर्णझरि परे' बहुत्र भवति इत्यस्मात्‌ '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन यथासङ्गं झरः विकल्पेन लोपः |</big>
 
 
<big>लङि '''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) इत्यनेन अडागमः, तदा छकारे परे तुगागमः |</big>
 
 
<big>अ + छिनद्‌ → '''छे च''' (६.१.७२) इत्यनेन तुगागमः → अत्‌छिनद्‌ → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन श्चुत्वादेशः → अच्छिनद्‌</big>
 
 
<big>'''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) = लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | लुङ्‌ च लङ्‌ च लृङ्‌ च तेषामितरेतरद्वन्द्वः लुङ्‌लङ्लृङः, तेषु लुङ्‌लङ्‌लृङ्क्षु | लुङ्‌लङ्‌लृङ्क्षु सप्तम्यन्तम्‌, अट्‌ प्रथमान्तम्‌, उदात्तः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अट्‌ उदात्तः''' '''लुङ्‌लङ्‌लृङ्क्षु''' |</big>
653

edits