6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 556:
 
<big>'''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) = लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | लुङ्‌ च लङ्‌ च लृङ्‌ च तेषामितरेतरद्वन्द्वः लुङ्‌लङ्लृङः, तेषु लुङ्‌लङ्‌लृङ्क्षु | लुङ्‌लङ्‌लृङ्क्षु सप्तम्यन्तम्‌, अट्‌ प्रथमान्तम्‌, उदात्तः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अट्‌ उदात्तः''' '''लुङ्‌लङ्‌लृङ्क्षु''' |</big>
 
 
 
<big>'''छे च''' (६.१.७२) = ह्रस्वस्वरस्य तुक्‌-आगमो भवति छकारे परे | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ '''ह्रस्वस्य''', '''तुक्‌''' इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |</big>
 
 
 
<big>लङि '''दश्च''' (८.२.७५) इत्यनेन सिपि परे धातोः पदान्ते दकारस्य विकल्पेन रु-आदेशः |</big>
 
 
 
<big>अच्छिनद्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन हल्‌-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अच्छिनद्‌ → '''वाऽवसाने''' इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अच्छिनत्‌ / अच्छिनद्‌ | अच्छिनद्‌ → '''दश्च''' (८.२.७५) इत्यनेन विकल्पेन रु-आदेशः → अच्छिनरु → उ इत्यस्य इत्‌-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसाने रेफस्य विसर्गादेशः → अच्छिनः | त्रीणि रूपाणि अच्छिनद्‌ / अच्छिनत्‌ / अच्छिनः</big>
 
 
 
<big>'''दश्च''' (८.२.७५) = धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु-आदेशो भवति सिपि परे | रु-अभावे दत्वम्‌ एव | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य (दकारस्य) एव स्थाने न तु पूर्णपदस्य | दः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दः च पदस्य धातोः रुः वा सिपि''' |</big>
653

edits