6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 722:
 
<big>पिष्लृ → पिष्‌ (परस्मैपदी, संचूर्णने)</big>
 
 
<big>'''7.''' <u>सकारान्ताः धातवः</u> (एकः धातुः हिसि → हिंस्‌)</big>
 
 
 
<big>हिसि → हिंस्‌ (परस्मैपदी, हिंसायाम्‌)</big>
 
 
 
<big>हिसि → '''इदितो नुम्‌ धातोः''' (७.१.५८) → हिन्स्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) → हिंस्‌ + श्नम्‌ → '''मिदचोऽन्त्यात्परः''' (१.१.४७) → हिनंस्‌ → '''श्नान्नलोपः''' (६.४.२३) → हिनस्‌</big>
 
 
 
<big>(उपरितनायाः प्रक्रियायाः चर्चार्थम्‌ अस्मिन्‌ करपत्रे 'लबि अवस्रंसने’ इत्यस्य यङ्लुगन्तधातुसिद्धेः लङ्‌-लकारप्रसङ्गे आलोचनं दृश्यताम्‌ |)</big>
 
 
 
<big>'''इदितो नुम्‌ धातोः''' (७.१.५८) = इदितः धातोः नुम्‌ आगमो भवति | इदित्‌ इत्युक्ते इत्‌ इत्‌ यस्य सः | तत्र प्रथमः इत्‌ नाम ह्रस्वः इकारः | द्वितीयः इत्‌ नाम इत्‌-संज्ञा | ह्रस्व-इकारस्य इत्‌-संज्ञा यस्य, सः धातुः इदित्‌ | इत्‌ इत्‌ यस्य स इदित्‌ बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम्‌ प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''इदितः धातोः नुम्‌''' |</big>
 
 
 
<big>'''श्नान्नलोपः''' (६.४.२३) = श्नम्‌-प्रत्ययोत्तरस्य नकारस्य लोपो भवति | नस्य लोपो नलोपः, षष्ठीतत्पुरुषः | श्नात्‌ पञ्चम्यन्तं, नलोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''श्नात्‌ अङ्गस्य नलोपः''' |</big>
653

edits