6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 745:
 
<big>'''श्नान्नलोपः''' (६.४.२३) = श्नम्‌-प्रत्ययोत्तरस्य नकारस्य लोपो भवति | नस्य लोपो नलोपः, षष्ठीतत्पुरुषः | श्नात्‌ पञ्चम्यन्तं, नलोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''श्नात्‌ अङ्गस्य नलोपः''' |</big>
 
 
<big>वस्तुतस्तु 'हिनस्‌' इति अङ्गस्य व्युत्पत्तिमार्गः अन्यरीत्या चिन्तनीयः यतोहि, यथा जानीमः, कस्यापि धातोः लौकिकरूपसिद्धिः वा अङ्गं वा एकाकिनि आकाशे न करणीयः | तदर्थमेव नोपधधातूनां धातुपाठे दन्त्यनकारः एव दर्शनीयः न तु सन्धिं कृत्वा ङकारो वा ञकारो वा इत्यादिकम्‌ | प्रक्रियावशात्‌ एव एतत्सर्वं भवेत्‌ यतोहि सर्वत्र न भवति; यथासङ्गमेव परिस्थितिं दृष्ट्वा करणीयम्‌ | एवमेव लबि-धातोः यङ्लुगन्तधातुः साधनीयः लङ्‌-लकारे | तथा च अत्र वास्तवी प्रक्रिया सन्दर्भमनुसृत्य एवं भवेत्—</big>
 
 
<big>हिसि → लट्‌-लकारस्य प्रथमपुरुषैकवचनविवक्षायां → हिसि + ति → '''इदितो नुम्‌ धातोः''' (७.१.५८) → हिन्स्‌ + ति → '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌ → '''रुधादिभ्यः श्नम्‌''' (३.१.७८) इत्यनेन शपं प्रबाध्य श्नम्‌ → हिन्स्‌ + श्नम्‌ + ति → '''मिदचोऽन्त्यात्परः''' (१.१.४७) → हिनन्स्‌ + ति → '''श्नान्नलोपः''' (६.४.२३) → हिनस्‌ + ति</big>
 
 
<big>एवञ्च यद्यपि '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यस्य प्रसक्तिरस्ति 'हिन्स्‌ + ति’ इति स्थितौ, परन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''कर्तरि शप्‌''' (३.१.६८) इति सूत्रं प्रति त्रिपादिसूत्रं '''नश्चापदान्तस्य झलि''' (८.३.२४) असिद्धम्‌ | अतः अस्यां प्रक्रियायाम्‌ अनुस्वारादेशस्य कुत्रापि अवसरो न भवति | अन्ततो गत्वा '''श्नान्नलोपः''' (६.४.२३) इत्यनेन नकारलोपः |</big>
 
 
<big>a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌</big>
 
 
<big>पित्सु = अङ्गकार्यं नास्ति | हिनस्‌ + ति → हिनस्ति | हिनस्‌ + आनि → हिनसानि |</big>
 
<big>अपित्सु = '''श्नसोरल्लोपः''' इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | हिनस्‌ + तः → हिन्स्‌ + तः → सन्धिकार्यम्‌ → हिंस्तः</big>
653

edits