6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 783:
 
<big>'''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''रात्सस्य''' (८.२.२४) इत्यस्मात्‌ '''सस्य''' इत्यस्य अनुवृत्तिः | '''संयोगान्तस्य''' '''लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धि च सस्य लोपः''' |</big>
 
<u><big>लङि सकारान्तधातूनां तिपि सिपि च कार्यम्‌</big></u>
 
<big>'''तिप्यनस्तेः''' (८.२.७३) इत्यनेन लङ्‌-लकारस्य तिपि परे सकारान्तपदस्य सकारस्य दकारादेशो भवति |</big>
 
<big>अहिनस्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन त्‌-लोपः → अहिनस्‌ इति पदम्‌ → '''तिप्यनस्तेः''' (८.२.७३) इत्यनेन पदान्ते सकारस्य दकारादेशः, तदा विकल्पेन चर्त्वम् → अहिनद्‌ / अहिनत्‌</big>
 
<big>'''तिप्यनस्तेः''' (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्‌-धातौ न भवति | इदं सूत्रं '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्‌, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदस्य सः दः तिपि अनस्तेः''' |</big>
 
<big>'''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेन लङ्‌-लकारस्य सिपि परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति |</big>
653

edits