6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 812:
 
<big>प्राचीनैः उच्यते यत्‌ '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात्‌ अनेन एव '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत्‌ अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्‌-स्थाने दकारादेशः '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत्‌ '''ससजुषोः रुः''' (८.२.६६), '''झलां जशोऽन्ते''' (८.२.३९) इत्यनयोर्मध्ये '''ससजुषोः रुः''' (८.२.६६) इत्यस्य अपवादभूतत्वात्‌ '''झलां जशोऽन्ते''' (८.२.३९) इत्यस्य पुनः नितराम्‌ अवकाशो नास्ति | इत्थञ्च '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |</big>
 
 
 
<big>(नवीनानां दृष्टिः एवम्‌— सकारान्तपदम्‌ अस्ति चेत्‌, कीदृशं कार्यं स्यात्‌ इति प्रश्नः | अस्मिन्‌ प्रसङ्गे सर्वसामान्यं सूत्रं '''झलां जशोऽन्ते''' (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु '''ससजुषो रुः''' (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्‌-प्रत्यये परे '''तिप्यनस्तेः''' (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्‌-प्रत्यये परे '''सिपि धातो रुर्वा''' (८.२.७४), '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य विकल्पेन रु-आदेशो भवति; तस्य अभावे सर्वसामान्यस्थितिः— '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन स्‌-स्थाने दकारः |)</big>
 
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<u><big>रूपाणि</big></u>
653

edits