6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 832:
 
<big>विधिलिङि—</big>
 
 
<big>'''8.''' <u>हकारान्ताः धातवः</u> (एकः धातुः तृह → तृह्‌)</big>
 
 
<big>तृह → तृह्‌ (परस्मैपदी, हिंसायाम्‌)</big>
 
 
<big>तृह्‌ + श्नम्‌ → '''मिदचोऽन्त्यात्परः''' (१.१.४७) → तृनह्‌</big>
 
 
<big>a. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌</big>
 
 
<big>पित्सु = '''तृणह इम्‌''' (७.३.९२) इत्यनेन तृहः श्नमि कृते तृनह्‌ इत्यङ्गस्य इम्‌-आगमो भवति हलादि-पित्‌-सार्वधातुक-प्रत्यये परे | तृनह्‌ + ति → तृनह्‌ + इम्‌ + ति → इमः मित्त्वात्‌ अन्त्यादचः परः → तृनेह्‌ + ति → सन्धिकार्यम्‌ → तृणेढि | तृनह्‌ + आनि → अङ्गकार्यं नास्ति → सन्धिकार्यम्‌ → तृणहानि |</big>
 
<big>अपित्सु = '''श्नसोरल्लोपः''' इत्यनेन श्नम्‌ इत्यस्य अकारस्य लोपः | तृनह्‌ + तः → तृन्ह्‌ + तः → सन्धिकार्यम्‌ → तृण्ढः</big>
 
 
<big>'''तृणह इम्‌''' (७.३.९२) = तृनह्‌ इत्यङ्गस्य इम्‌-आगमो भवति हलादि-पित्‌-सार्वधातुक-प्रत्यये परे | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन तदादिविधिः; अस्मात्‌ '<nowiki/>'''हलि सार्वधातुके'''' इत्युक्तौ हलादि-सार्वधातुके | तृणहः षष्ठ्यन्तम्‌, इम्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''श्नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति''', '''सार्वधातुके''' इत्यनयोः आनुवृत्तिः | '''वृद्धिर्लुके''' '''हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''तृणहः अङ्गस्य इम्‌ हलि पिति सार्वधातुके''' |</big>
653

edits