6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 851:
 
 
<big>'''तृणह इम्‌''' (७.३.९२) = तृनह्‌ इत्यङ्गस्य इम्‌-आगमो भवति हलादि-पित्‌-सार्वधातुक-प्रत्यये परे | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन तदादिविधिः; अस्मात्‌ '<nowiki/>'''हलि सार्वधातुके'''' इत्युक्तौ हलादि-सार्वधातुके | तृणहः षष्ठ्यन्तम्‌, इम्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''श्नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति''', '''सार्वधातुके''' इत्यनयोः आनुवृत्तिः | '''वृद्धिर्लुके''' '''हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''तृणहः अङ्गस्य इम्‌ हलि पिति सार्वधातुके''' |</big>
 
<big>b. सन्धिकार्यम्‌</big>
 
<big>तृनेह् + ति → '''हो ढः''' (८.२.३१) → तृनेढ्‌ + ति → '''झषस्तथोर्धोऽधः''' (८.२.४०) → तृनेढ्‌ + धि → '''रषाभ्यां नो णः समानपदे''' (८.४.१) → तृणेढ्‌ + धि → '''ष्टुना ष्टुः''' (८.४.४१)→ तृणेढ्‌ + ढि → '''ढो ढे लोपः''' (८.३.१३) → तृणे + ढि → तृणेढि</big>
 
<big>तृनह्‌ + तः → '''श्नसोरल्लोपः''' (६.४.१११) → तृन्ह्‌ + तः → '''हो ढः''' (८.२.३१) → तृन्ढ्‌ + तः → '''नश्चापदान्तस्य झलि''' (८.३.२४) → तृंढ्‌ + तः →</big>
 
 
<big>तृनेह् + सि → '''हो ढः''' (८.२.३१) → तृनेढ्‌ + सि → '''खरि च''' (८.४.५५) प्रबाध्य '''षढोः कः सि''' (८.२.४१) → तृनेक्‌ + सि → '''आदेशप्रत्यययोः''' (८.३.५९) → तृनेक्षि → '''रषाभ्यां नो णः समानपदे''' (८.४.१) → तृणेक्षि</big>
 
 
<big>अत्र 'तृनेह् + ति' इति प्रसङ्गे प्रश्नः उदेति, '''ढो ढे लोपः''' (८.३.१३) इत्यस्य दृष्ट्या '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य कार्यम्‌ असिद्धं किल; तर्हि कथं वा '''ढो ढे लोपः''' (८.३.१३) इत्यस्य प्राप्तिः स्यात्‌ ? उत्तरम्‌ एवं यत्‌ सम्पूर्णव्याकरणलोके '''ढो ढे लोपः''' (८.३.१३) इत्यस्य प्रसक्तिः केवलं '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अनुसरणे, नान्यत्र | अतः अत्र न भवति चेत्‌, '''ढो ढे लोपः''' (८.३.१३) इति सूत्रं निरवकाशम्‌ | तस्य निवारणार्थम्‌ अत्र '''ढो ढे लोपः''' (८.३.१३), '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य अपवादः |</big>
653

edits