6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 871:
 
<big>अत्र 'तृनेह् + ति' इति प्रसङ्गे प्रश्नः उदेति, '''ढो ढे लोपः''' (८.३.१३) इत्यस्य दृष्ट्या '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य कार्यम्‌ असिद्धं किल; तर्हि कथं वा '''ढो ढे लोपः''' (८.३.१३) इत्यस्य प्राप्तिः स्यात्‌ ? उत्तरम्‌ एवं यत्‌ सम्पूर्णव्याकरणलोके '''ढो ढे लोपः''' (८.३.१३) इत्यस्य प्रसक्तिः केवलं '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अनुसरणे, नान्यत्र | अतः अत्र न भवति चेत्‌, '''ढो ढे लोपः''' (८.३.१३) इति सूत्रं निरवकाशम्‌ | तस्य निवारणार्थम्‌ अत्र '''ढो ढे लोपः''' (८.३.१३), '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य अपवादः |</big>
 
 
 
<big>पुनः प्रश्नः, किमर्थं तर्हि '''ढो ढे लोपः''' (८.३.१३) अष्टाध्याय्यां '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य अनन्तरं न स्थापितम्‌ ? यत्र अस्ति अधुना '''ढो ढे लोपः''' (८.३.१३) इत्यस्य न काऽपि अनुवृत्तिः अपेक्षिता— '''ढो ढे लोपः''' (८.३.१३) स्वयं सम्पूर्णम्‌ | किन्तु तस्मात्‌ परं यत्‌ सूत्रं, '''रो रि''' (८.३.१४), तस्य 'लोपः' इति अनुवृत्तिः अपेक्षिता '''ढो ढे लोपः''' (८.३.१३) इत्यस्मात्‌ | अपि च इमे द्वे सूत्रे मिलित्वा एकं विषयसम्बद्धप्रकरणम्‌ | '''ढो ढे लोपः''', '''रो रि लोपः'''— यत्र एक एव वर्णः स्वस्मात्‌ प्राक्‌ चेत्‌ लुप्तो भवति |</big>
 
 
 
<big>आहत्य अष्टाध्याय्यां किं सूत्रं कुत्र स्थापितम्‌ इति विषये हेतुत्रयं वर्तते— (१) लाघवार्थम्‌ अनुवृत्तिः, (२) विषयसम्बद्धप्रकरणम्‌, (३) पूर्वपरत्त्वात्‌ बाध्यबाधकभावः | अत्र '''ढो ढे लोपः''' (८.३.१३) कुत्र स्थापितम्‌ इति विषये, प्रथमं द्वीतीयं च कारणं प्राप्तं, तदर्थं त्रितीयं त्यक्तम्‌ |</big>
 
 
 
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''', '''च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>
653

edits