6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 887:
 
<big>'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>
 
 
<big>'''ढो ढे लोपः''' (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''ढः ढे लोपः''' |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<u><big>अभ्यासः</big></u>
 
 
<big>अधः सर्वे रुधादिगणीयाः धातवः अर्थसहिताः दत्ताः | लटि, लोटि, लङि, विधिलिङि च वाक्यानि रचनीयानि |</big>
653

edits