6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 910:
 
<big>अधः सर्वे रुधादिगणीयाः धातवः अर्थसहिताः दत्ताः | लटि, लोटि, लङि, विधिलिङि च वाक्यानि रचनीयानि |</big>
 
<big>विचिर्‌ → विच्‌ (उभयपदी, पृथग्भावे = पृथक्‌ करोति, विलक्षयते)</big>
 
<big>तञ्चू → तञ्च्‌ (परस्मैपदी, सङ्कोचने = स्ङ्कुचितः भवति)</big>
 
<big>रिचिर्‌ → रिच्‌ (उभयपदी, विरेचने = त्यजति, मोचयति, रिक्तं करोति)</big>
 
<big>पृची → पृच्‌ (परस्मैपदी, सम्पर्के = संयोजयति)</big>
 
<big>युजिर्‌ → युज्‌ (उभयपदी, योगे = संयोजनं करोति)</big>
 
<big>अञ्जू → अञ्ज्‌ (परस्मैपदी, व्यक्तिम्रक्षण-कान्तिगतिषु = विवेचनं करोति, लेपयति)</big>
 
<big>भञ्जो → भञ्ज्‌ (परस्मैपदी, आमर्दने = नष्टं करोति)</big>
 
<big>भुज → भुज्‌ (उभयपदी, पालनाभ्यवहारयोः = पालनं करोति, संरक्षणं करोति; खादति)</big>
 
<big>अभ्यवहारः इत्युक्तौ भोजनम्‌ | '''भुजोऽनवने''' (१.३.६६) इत्यनेन खादनार्थे आत्मनेपदं— भुङ्क्ते | पालने परस्मैपदं— नृपः राज्यं भुनक्ति |</big>
 
<big>ओविजी → विज्‌ (परस्मैपदी, भयचलनयोः = भयेन कम्पते, आपद्ग्रस्तो भवति)</big>
 
<big>वृजी → वृज्‌ (परस्मैपदी, वर्जने = वर्जयति, निवारयति, चिनोति)</big>
 
<big>कृती → कृत् (परस्मैपदी, वेष्टने=आवृणोति, परिवेष्टयति)</big>
 
<big>छिदिर्‌→ छिद्‌ (उभयपदी, द्वैधीकरणे, अद्वैधस्य पृथक्त्वे=छिन्नं करोति; भिन्नं करोति)</big>
 
<big>भिदिर्‌ → भिद्‌ (उभयपदी, विदारणे=भग्नं करोति; नशति)</big>
 
<big>विद → विद्‌ (आत्मनेपदी, विचारणे=विचारयति, मननं करोति)</big>
 
<big>उन्दी → उन्द्‌ (परस्मैपदी, क्लेदने=आर्द्रं करोति)</big>
 
<big>खिद → खिद्‌ (आत्मनेपदी, दैन्ये=खिन्नः भवति)</big>
 
<big>उच्छृदिर्‌ → छृद्‌ (उभयपदी, दीप्ति-देवनयोः=प्रकाशते, शोभते)</big>
 
<big>उतृदिर्‌ → तृद्‌ (उभयपदी, हिंसा-नादरयोः=मारयति, दुःखं प्रापयति)</big>
 
<big>क्षुदिर्‌→ क्षुद्‌ (उभयपदी, सम्पेषणे=पेषयति, चूर्णयति)</big>
 
<big>रुधिर्‌ → रुध्‌ (उभयपदी, आवरणे=बाधते, वारयति)</big>
 
<big>ञिइन्धी → इन्ध्‌ (आत्मनेपदी, दीप्तौ=प्रदीप्तः भवति, प्रकाशितः भवति, ज्वलति | अकर्मकधातुः)</big>
 
<big>शिष्लृ → शिष्‌ (परस्मैपदी, विशेषणे=विलक्षयति, पृथक्‌ करोति)</big>
 
<big>पिष्लृ → पिष्‌ (परस्मैपदी, संचूर्णने=पेषयति, चूर्णयति</big>
 
<big>हिसि → हिंस्‌ (परस्मैपदी, हिंसायाम्‌=प्रहरति, दुःखं प्रापयति)</big>
 
<big>तृह → तृह्‌ (परस्मैपदी, हिंसायाम्‌=मारयति)</big>
 
<big>इति रुधादिगणे समग्रं तिङ्‌-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम्‌ |</big>
 
<big>Swarup – December 2013 (Updated December 2016)</big>
653

edits