7---ArdhadhAtukaprakaraNam/03---preraNArthe-Nic---visheShAH-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary

(2 intermediate revisions by the same user not shown)
Line 253:

'''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः— '''र्वोः धात्वोः''' | वकारान्तधातवः सन्ति, किन्तु वकारान्तस्य पदस्य धातोरसम्भवात् अनेन सूत्रेण वकारान्तधातोः किमपि कार्यं नास्ति, यस्य फले काशिकायां दत्तमस्ति वकारग्रहणमुत्तरार्थम् | लाघवार्थम्‌ अस्मिन् सूत्रे वकारः योजितः येन तस्य अनुवृत्तिः अग्रिमसूत्रद्वये स्यात्‌ | र्‌‍ च व्‌ र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, इकः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदस्य र्वोः धात्वोः उपधायाः इकः दीर्घः''' |

सुप्‌-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—

'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) =

'''स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्‌'''

सु     औ     जस्‌

अम्‌   औट्‌   शस्‌

टा    भ्याम्‌   भिस्‌

ङे    भ्याम्‌   भ्यस्‌

ङसि  भ्याम्‌  भ्यस्‌

ङस्‌  ओस्‌   आम्‌

ङि   ओस्‌    सुप्‌

स्‌      औ    अस्‌

अम्‌    औ    अस्‌

आ     भ्याम्‌   भिस्‌

ए       भ्याम्‌   भ्यस्‌

अस्‌   भ्याम्‌   भ्यस्‌

अस्‌   ओस्‌   आम्‌

इ      ओस्‌     सु

Line 265 ⟶ 306:

'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते''' |

'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) = अर्थवत्‌ शब्दस्वरूपं यत्‌ धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्‌, मतुप्‌-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत्‌ प्रथमान्तम्‌, अधातुः प्रथमान्तम्‌, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं पूर्णम्‌— '''अर्थवद्‌ अधातुः अप्रत्ययः प्रातिपदिकम्‌''' |

'''कृत्तद्धितसमासाश्च''' (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यस्मात्‌ '''अर्थवत्‌''', '''प्रातिपदिकम्‌''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्थवन्तः''' '''कृत्तद्धितसमासाः च प्रातिपदिकानि''' |

'''सुडनपुंसकस्य''' (१.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''शि सर्वनामस्थानम्‌''' (१.१.४२) इत्यस्मात्‌ '''सर्वनामस्थानम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सुट्''' '''सर्वनामस्थानम्‌ अनपुंसकस्य''' |

Line 271 ⟶ 324:

'''यचि भम्‌''' (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |

'''आकडारादेका संज्ञा''' (१.४.१) = अस्मात सूत्रात्‌ आरभ्य '''कडारा कर्मधारये''' (२.२.३८) पर्यन्तम्‌ एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यनेन अथवा अपवादभूतत्वात्‌ |

Line 528 ⟶ 584:

'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रं किं सूचयति ? (१) आदेशः स्थानिवत्‌ भवति; (२) परन्तु अल्विधिः अस्ति चेत्‌, आदेशः स्थानिवत्‌ न भवति—नाम स्थानिवद्भावनिषेधः | अत्र कथ-धातोः प्रसङ्गे उक्तं यत्‌ '''अत उपधायाः''' (७.२.११६) इत्यनेन यः वृद्धिः जायमानः, स च वृद्धिः अल्विधिः नास्ति | अतः स्थानिवद्भावनिषेधः नास्ति | स्थानिवद्भावनिषेधस्य अभावे '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रेण स्थानिवद्भावः स्यात्‌ | अपि च कथ-धातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः वृधिकार्यस्यवृद्धिकार्यस्य निवारणार्थम्‌ | अल्विधिः नास्ति चेत्‌ '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण स्थानिवद्भावः भवेत्‌, किन्तु केनचित्‌ कारणेन न भवति इति जानीमः यतोहि '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन एव भवति | तर्हि अल्विध्यभावे '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) द्वारा स्थानिवद्भावः न सिद्धः अस्य च अन्यत्‌ कारणं स्यात्‌—‌तच्च किम् ?

Line 537 ⟶ 593:

कथ-धातोः प्रसङ्गे बालमनोरमायां दत्तमस्ति यत्‌, "अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः | तत्र कथदातोर्णिचिकथधातोर्णिचि अतोलोपे 'कथि' इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति | तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह—अल्लोपस्य स्थानिवद्भावादिति | अचः परस्मिन्नित्यनेनेति भावः | अत्रेदमवधेयं—स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः |” ‘यत्तु' इत्यनेन 'यत्‌ कार्यं तु' इति बोध्यम्‌ | ‘व्याघातः' इत्यनेन विनाशः | निमित्तस्य व्याघातात्‌ विधिः न जायते‌ चेत्‌, तद्विहितकार्यस्य अभावात्‌, शास्त्रप्रवृत्त्यभावात्‌, अशास्त्रीयत्वात्‌, तादृशस्थले '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन अतिदेशः—स्थानिवद्भावः—न भवति |

page_and_link_managers, Administrators
5,159

edits