page_and_link_managers, Administrators
5,097
edits
Gargi Dixit (talk | contribs) (added tables) |
No edit summary |

(17 intermediate revisions by 6 users not shown) | |||
Line 1:
{| class="wikitable mw-collapsible mw-collapsed"

|'''2020 वर्गः'''

|५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/213_preraNArthe-Nic---visheSha-halanta-dhAtavaH---rephasya-pUrvam-ikaH-dIrghaH-samagra-cintanam_%2B_%E0%A4%B0%E0%A4%A7%E0%A5%8D%E2%80%8C%2C%20%E0%A4%9C%E0%A4%AD%E0%A5%8D%E2%80%8C%2C%20%E0%A4%B0%E0%A4%AD%E0%A5%8D%E2%80%8C%2C%20%E0%A4%B2%E0%A4%AD%E0%A5%8D%E2%80%8C%2C%20%E0%A4%95%E0%A5%8D%E0%A4%A8%E0%A5%82%E0%A4%AF%E0%A5%80%2C%20%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A5%80_2020-07-07.mp3 preraNArthe-Nic---visheSha-halanta-dhAtavaH---rephasya-pUrvam-ikaH-dIrghaH-samagra-cintanam_+_रध्, जभ्, रभ्, लभ्, क्नूयी, क्ष्मायी_2020-07-07]

|६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/214_preraNArthe-Nic---visheSha-halanta-dhAtavaH---%E0%A4%95%E0%A5%8D%E0%A4%A8%E0%A5%82%E0%A4%AF%E0%A5%80%2C%20%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A5%80_%2B_katha-dhAtu-sthAnivadbhAvaH-dve-sUtre_2020-07-14.mp3 preraNArthe-Nic---visheSha-halanta-dhAtavaH---क्नूयी, क्ष्मायी_+_katha-dhAtu-sthAnivadbhAvaH-dve-sUtre_2020-07-14]

|'''2017 वर्गः'''

|२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/116_preraNArthe-Nic---halanteShu--duSh-sidh-sphur-kRut__radh-jabh-rabh_2017-05-21.mp3 preraNArthe-Nic---halanteShu--duSh-sidh-sphur-kRut_+_radh-jabh-rabh_2017-05-21]

|३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/117_preranarthe-nic---halanteshu--krut__rephavakarabhyam-purvam-ikahDiirghah---triini-sutrani_2017-05-28.mp3 preraNArthe-Nic---halanteShu--kRut_+_rephavakArAbhyAM-pUrvam-ikaH diirghaH---triiNi-sUtrANi_2017-05-28]

|४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/118_cintanaM---rephavakArAbhyAM-pUrvam-ikaH-diirghaH---triiNi-sUtrANi_2017-06-04.mp3 cintanaM---rephavakArAbhyAM-pUrvam-ikaH-diirghaH---triiNi-sUtrANi_2017-06-04]

|५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/119_visheSha-halanta-dhAtUnAM-samagracintanam---dhAtvAdeshAH__AgamAH_ca_2017-06-11.mp3 visheSha-halanta-dhAtUnAM-samagracintanam---dhAtvAdeshAH_+_AgamAH_ca_2017-06-11]

गते करपत्रे प्रेरणार्थे णिचि विशेष-अजन्तधातवः अवलोकिताः | अधुना विशेष-हलन्तधातवः परिशीलनीयाः | एकैकस्मिन् पाठे यत्र सामान्यरूपाणि दत्तानि, तदा विशेषरूपाणि दत्तानि भवन्ति, तत्र केवलं "कानिचन विशेषोदाहरणानि" इति न, अपि तु संस्कृतभाषायां यावन्ति विशेषरूपाणि, तानि सर्वाणि | क्रमेण अष्टाध्याय्यां दीयन्ते; सूत्रक्रमाधारेण अत्र उपस्थाप्यन्ते | इतः अग्रे इतोऽपि विशेषरूपाणि न सन्ति एव | मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिध्यति— यदा तया एका प्रक्रिया पाठ्यते, तदा द्विसहस्रं धातून् अवलम्ब्य पाठयति सा | एकोऽपि धातुः नावशिष्यते | अतः कश्चन धातुः विशेषेषु नोक्तं चेत्, स च धातुः सामान्यः एव | इत्थञ्च मातुः पाठं जानाति चेत्, सर्वान् धातून् जानाति |

अस्मिन् करपत्रे सर्वे धातवः हलन्तधातवः एव, येषां रूपाणि विशिष्टानि | सामान्य-हलन्तधातूनां कार्यम् '''अत उपधायाः''' (७.२.११६), '''पुगन्तलघूपधस्य च''' (७.३.८६,) इति सूत्राभ्यां सिध्यति | अस्मिन् करपत्रे ये धातवः पठिताः, तेषाम् आधिक्येन विशिष्टाः आगमाः आदेशाः च सन्ति, यथा अजन्तधातूनां स्थितिः |

A. '''धात्वादेशाः'''—
णिचि परे के के धात्वादेशाः भवन्ति इति अत्र सूच्यते | प्रक्रिया एवमस्ति यत् धातोः पूर्णतया आदेशः अस्ति, तदा '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने आदेशः विहितः भवति | सप्तमाध्यायस्य तृतीयपादस्य अनुवर्तनक्रमे इमानि सूत्राणि आयान्ति | अस्मिन् प्रकरणे आरम्भे अजन्तधातूनाम् आगमाः, तदा क्रमेण हलन्तधातूनां धात्वादेशः | गतपाठे अजन्तधातूनाम् एते आगमाः प्रदर्शिताः—

'''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६)
'''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७)
'''वो विधूनने जुक्''' (७.३.३८)
'''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९)
'''भियो हेतुभये षुक्''' (७.३.४०)

तस्मिन्नेव प्रकरणे अनुक्रमेण हलन्तधातूनां धात्वादेशाः—

१) स्फाय्-धातुः

स्फाय् = भ्वादिगणे | लटि स्फायते | अर्थः = स्थूलः भवति |

'''स्फायो वः''' (७.३.४१) = णिचि प्रत्यये परे, स्फाय् धातोः स्थाने व-आदेशो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | स्फायः षष्ठ्यन्तं, वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''स्फायः वः णौ''' |

स्फाय् → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् → स्फाय् + णिच् → '''स्फायो वः''' (७.३.४१) इत्यनेन स्फाय्-धातोः वकारादेशः → स्फाव् + इ → स्फावि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन स्फावि इति णिजन्तस्य धातुसंज्ञा → स्फावि + शप् + ति → स्फावयति

२) शद्-धातुः

शद् = भ्वादिगणे, तुदादिगणे च | अर्थः = शातने, जीर्णं भवति, क्षीणं भवति | लटि शीयते उभयत्र | शिति परे '''पाघ्राध्मास्था''' (७.३.७८) इत्यनेन शीय इति धात्वादेशः | '''शदेः शितः''' (१.३.६०) इत्यनेन यद्यपि अयं धातुः पारस्मैपदी, किन्तु शिति परे आत्मनेपदी एव भवति | तदर्थं लटि शीयते, किन्तु लृटि शत्स्यति | शीयते इत्यस्य अर्थः = कृशः भवति, क्षीणः भवति—उभयोः गणयोः | प्रेरणार्थे शातनम् इत्युक्ते पीडनम्; अस्मिन् अर्थे केवलं णिजन्तरूपं सम्भवति; कष्टं ददाति, पीडां करोति इति अर्थे केवलं णिजन्तरूपं यतोहि अणिजन्ते शद्-धातुः अकर्मकः | णिजन्ते अस्य धातोः अन्यः अर्थः गत्यर्थकः— अनुधावति इति |

अणिजन्त-शद्-धातोः शीय इति धात्वादेशो भवति अनेन सूत्रेण—

'''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां, पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः''' (७.३.७८) = पा घ्रा ध्मा इत्यादीनां स्थाने पिब, जिघ्र, धम एते आदेशाः भवन्ति शिति परे | केवलं शिति परे इति धेयम् | अतः पिबति परन्तु पास्यति इति | पाश्च घ्राश्च ध्माश्च ... सद् च तेषामितरेतरद्वन्द्वः पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदः, तेषां पा-घ्रा-ध्मा-स्था-स्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् | पिबश्च जिघ्रश्च धमश्च … सीदश्च तेषामितरेतरद्वन्द्वः पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः | पा-घ्रा-ध्मा-स्था-म्ना-दाण्-दृशि-अर्ति-सर्ति-शद-सदाम् षष्ठ्यन्तं, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''ष्ठिवुक्लमुचमां शिति''' (७.३.७५) इत्यस्मात् '''शिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''पा'''-'''घ्रा'''-'''ध्मा'''-'''स्था'''-'''म्ना'''-'''दाण्'''-'''दृशि'''-'''अर्ति'''-'''सर्ति'''-'''शद'''-'''सदां अङ्गस्य''' '''पिब'''-'''जिघ्र'''-'''धम'''-'''तिष्ठ'''-'''मन'''-'''यच्छ'''-'''पश्य'''-'''ऋच्छ'''-'''धौ'''-'''शीय'''-'''सीदाः शिति''' |

णिजन्ते—

'''शदेरगतौ तः''' (७.३.४२) = शद्-धातोः तकारादेशो भवति णिचि परे, अगत्यर्थे | न गतिः, अगतिः, तस्याम् अगतौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | शदेः षष्ठ्यन्तम्, अगतौ सप्तम्यन्तं, तः प्रथमान्तम् | तः इत्यस्मिन् अकारः उच्चारणार्थमेव अस्ति | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''शदेः तः णौ अगतौ''' |

'''अत उपधायाः''' (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे |

अगत्यर्थे—
शद् → '''हेतुमति च''' (३.१.२६) → शद् + णिच् → '''शदेरगतौ तः''' (७.३.४२) → शत् + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधा-वृद्धिः → शाति इति णिजन्तधातुः → शातयति

गत्यर्थे—
शद् + णिच् → शद् + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधा-वृद्धिः → शादि → इति णिजन्तधातुः → शादयति

शातयति इत्यस्य उदाहरणं काशिकायाम्— 'पुष्पाणि शातयति' | नाम क्षीणं कारयति | अन्यत् उदाहरणं 'दुर्जनः सज्जनं शातयति', नाम पीडयति |
शादयति इत्यस्य उदाहरणं काशिकायाम्— गोपालकः गाः शादयति | अन्यत् उदाहरणं 'भारतसेना शत्रुसेनां शादयति' | गमयति इत्यर्थः |

३) रुह्-धातुः

रुह बीजजन्मनि = भ्वादिगणे | लटि रोहति | अर्थः = वर्धते; उत्पतति, उदेति, उत्तिष्ठते

'''रुहः पोन्यतरस्याम्''' (७.३.४३) = रुह्-धातोः विकल्पेन पकारादेशो भवति णिचि परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | रुहः षष्ठ्यन्तं, पः प्रथमान्तम्, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''रुहः पः णौ अन्यतरस्याम्''' |

पकारादेशे—
रुह् → '''हेतुमति च''' (३.१.२६) → रुह् + णिच् → '''रुहः पोन्यतरस्याम्''' (७.३.४३) → रुप् + इ → '''पुगन्तलघूपधस्य च''' (उपधायां लघु-इकः गुणः) → रोप् + इ → रोपि → रोपयति

पकाराभावे—
रुह् + णिच् → '''पुगन्तलघूपधस्य च''' (७.३.८६,) इत्यनेन उपधायां लघु-इकः गुणः) → रोह् + इ → रोहि → रोहयति

४) हन्-धातुः

हन् = अदादिगणे | लटि हन्ति | अर्थः = मारयति

'''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) = हन्-धातोः हकारस्य स्थाने कवर्गादेशो भवति ञिति णिति प्रत्यये परे, नकारे परे च | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गे, हकारेण तुल्यः घकारः अस्ति (संवारः, नादः, घोषः, महाप्राणः च) अतः हकारस्य स्थाने घकारादेशः भवति | ञ् च ण् च ञ्णौ इतरेतरद्वन्द्वः, तौ इतौ ययोस्तौ ञ्णितौ, बहुव्रीहिः | ञ्णितौ च नश्च तेषामितरेतरद्वन्द्वो ञ्णिन्नाः, तेषु ञ्णिन्नेषु | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्''' इति वार्तिकेन (३.३.१०८, वार्तिकम्), धातुनिर्देशे हन् धातोः हन्ति, षष्ठीविभक्तौ हन्तेः | हः षष्ठ्यन्तं, हन्तेः षष्ठ्यन्तं, ञ्णिन्नेषु सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''चजोः कु घिण्ण्यतोः''' (७.३.५२) इत्यस्मात् '''कुः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हन्तेः अङ्गस्य हः कु ञ्णिन्नेषु''' |

'''अत उपधायाः''' (७.२.११६) = उपधायां अतः वृद्धिः ञिति णिति प्रत्यये परे |

'''हनस्तोऽचिण्णलोः''' (७.३.३२) = हन्-धातोः स्थाने तकारादेशो भवति ञिति णिति प्रत्यये परे; चिण्, णल् इति प्रत्ययौ न स्याताम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | चिण् च णल् च चिण्णलौ, न चिण्णलौ अचिण्णलौ, तयोरचिण्णलोः, द्वन्द्वगर्भनञ्तत्पुरुषः | हनः षष्ठ्यन्तं, तः प्रथमान्तम्, अचिण्णलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात् '''ञ्णिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हनः अङ्गस्य तः ञ्णिति अचिण्णलोः''' |

अनेन एव सूत्रेण नकारस्य स्थाने तकारादेशः यथा—
हन्-धातुः + घञ् → घातः [पदत्वे सति]
हन-धातुः + ण्वुल् → घातकः [पदत्वे सति]
हन्-धातुः + णिच् → घातयति

हन् + णिच् → '''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) → घन् + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन णिचि परे उपधायाम् अतः वृद्धिः → घान् + इ → '''हनस्तोऽचिण्णलोः''' (७.३.३२) इत्यनेन नकारस्य स्थाने तकारः → घाति → घातयति

अत्र च यतोहि एषां त्रयाणां सूत्राणां परस्परविरोधो नास्ति, तदर्थं प्रक्रियायां यः कोऽपि क्रमो भवति सम्यगेव स्यात् |

B. '''व्यक्तिगताः वर्णादेशाः'''—

१) दुष्-धातुः

दुष् = दिवादिगणे | लटि दुष्यति | अर्थः = दुषितः भवति |

'''दोषो णौ''' (६.४.९०) = दुष्-धातोः उपधायाम् उकारस्य स्थाने ऊकारादेशो भवति णिच्-प्रत्यये परे | दोषः इति पदं दुष्-धातोः लघूपधगुणं कृत्वा निर्देशः | दोषः षष्ठ्यन्तं, णौ सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात् सूत्रात् '''ऊत्''', '''उपधायाः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''दोषः अङ्गस्य उपधायाः ऊत् णौ''' |

दुष् → '''हेतुमति च''' (३.१.२६) → दुष् + णिच् → '''दोषो णौ''' (६.४.९०) → दूष् + इ → दूषि इति णिजन्तधातुः → दूषयति

दृष्टान्ते 'साधनं दूषयति', 'कार्यं दूषयति' |

'''वा चित्तविरागे''' (६.४.९१) = णिच्-प्रत्यये परे, चित्तविकारार्थे, दुष्-धातोः उपधायाम् उकारस्य स्थाने ऊत्-आदेशः वैकल्पिकः | चित्तविकारार्थे इत्युक्ते मानसिकविकारः (in sense of disturbing the mind) | चित्तस्य विरागः चित्तविरागः, षष्ठीतत्पुरुषः, तस्मिन् चित्तविरागे | वा अव्ययं, चित्तविरागे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात् '''ऊत्''', '''उपधायाः''' इत्यनयोः अनुवृत्तिः | '''दोषो णौ''' (६.४.९०) इत्यस्मात् '''दोषो''', '''णौ''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''दोषः अङ्गस्य उपधायाः वा ऊत् णौ''' '''चित्तविरागे''' |

ऊत्-आदेशाभावे—
दुष् → '''हेतुमति च''' (३.१.२६) → दुष् + णिच् → '''पुगन्तलघूपधस्य च''' (७.३.८६) → दोष् + इ → दोषि इति णिजन्तधातुः → दोषयति

दृष्टान्ते एकः पुरुषः अपरस्य पुरुषस्य मनः दूषयति दोषयति वा |

२) सिध्-धातुः

सिध् = दिवादिगणे भ्वादिगणे च | लटि सिध्यति, सेधति | अर्थः दिवादिगणे = 1. to be accomplished or fulfilled; 2. to be successful; 3. to reach; 4. to attain one's object; 5. to be proved or established; 6. to be settled or adjudicated; 7. to be thoroughly prepared or cooked; 8. to be won or conquered; भ्वादिगणे = 1. to go; 2. to ward or drive off; 3. to restrain; 4. to interdict; 5. to ordain; 6. to turn out well or auspiciously

'''सिध्यतेरपारलौकिके''' (६.१.४९) = अपारलौकिके णौ सिध्यतेः एचः आत् स्यात् '''|''' अपारलौकिकस्य (परलोकस्य प्रसङ्गे नास्ति चेत्, तस्य) अर्थे सिध्-धातोः एचः स्थाने आकार-आदेशो भवति णिचि परे | 'सिध्यतेः' इत्यनेन दिवादिगणीयधातोः एव ग्रहणम् | सिध्यतेः षष्ठ्यन्तम्, अपारलौकिके सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''आत्''', '''एचः''' इत्यनयोः अनुवृत्तिः | '''क्रीङ्जीनां णौ''' (६.१.४८) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अपारलौकिके सिध्यतेः एचः आत् णौ''' |

भोजननिर्माणं, कार्यकरणम्, इत्यादीनाम् अर्थे—
सिध् → '''हेतुमति च''' (३.१.२६) → सिध् + णिच् → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपध-इकः गुणः → सेध् + इ → '''सिध्यतेरपारलौकिके''' (६.१.४९) इत्यनेन एचः आत्त्वम् → साध् + इ → साधि इति णिजन्तधातुः → साधयति | दृष्टान्ते बालकः ग्रामं साधयति |

तपस्यार्थे—
सिध् → '''हेतुमति च''' (३.१.२६) → सिध् + णिच् → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपध-इकः गुणः → सेध् + इ → सेधि इति णिजन्तधातुः → सेधयति | दृष्टान्ते तपः तापसं '''सेधयति''' |

३) स्फुर्-धातुः

स्फुर् = तुदातिगणे | लटि स्फुरति | अर्थः = 1. (a). to throb; (b). to shake; 2. to twitch; 3. to start; 4. to spring back; 5. to spring or break forth; 6. to start into view; 7. to flash; 8. to shine; 9. to go tremulously; 10. to bruise. Caus.; 1. to cause to throb or vibrate;
2. to cause to shine; 3. to throw; with अप-उपसर्गः to shine forth or out; with अभि-उपसर्गः 1. to spread or be diffused; 2. to become known

'''चिस्फुरोर्णौ''' (६.१.५४) = विकल्पेन चि, स्फुर् इति धात्वोः एचः स्थाने आ-आदेशो भवति णौ | णौ इति अनुबन्धरहितत्वेन णिचि णिङि च भवति | चिश्च चिश्च स्फुर् च तयोरितरेच तयोरितरेतरद्वन्द्वः चिस्फुरौ, तयोः चिस्फुरोः | चिस्फुरोः षष्ठ्यन्तं, णौ सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''आत्''', '''एचः''' इत्यनयोः अनुवृत्तिः | '''विभाषा लीयतेः''' (६.१.५१) इत्यस्मात् '''विभाषा''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''विभाषा''' '''चिस्फुरोः एचः आत्''' '''णौ''' |

आ-आदेशे—
स्फुर् → '''हेतुमति च''' (३.१.२६) → स्फुर् + णिच् → '''पुगन्तलघूपधस्य च''' (७.३.८६) → स्फोर् + इ → '''चिस्फुरोर्णौ''' (६.१.५४) → स्फार् + इ → स्फारि इति णिजन्तधातुः → स्फारयति

आ-आदेशाभावे—
स्फुर् → '''हेतुमति च''' (३.१.२६) → स्फुर् + णिच् → '''पुगन्तलघूपधस्य च''' (७.३.८६) → स्फोर् + इ → स्फोरि इति णिजन्तधातुः → स्फोरयति

४) कॄत्-धातुः

कॄत → कीर्त् = चुरादिगणे | कीर्तयति / ते | अर्थः = प्रसिद्धं करोति, स्तुतिं करोति |

अत्र रेफात् प्राक् इकः दीर्घः |

धेयं यत् त्रिषु परिस्थितिषु रेफवकारयोः पूर्वम् इकः दीर्घो भवति | काशिकावृत्तिः अवलोक्यते चेत् निर्देशः स्पष्टः—

'''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) = रेफवकारान्तस्य धातोः पदस्योपधाया इको दीर्घो भवति | गीः; धूः; पूः; आशीः |
'''हलि च''' (८.२.७७) = हलि च परे रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति | जॄ + श्यन् → जीर्यति |
'''उपधायां च''' (८.२.७८) = धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घो भवति | कॄत् → कीर्तयति |

रेफवकाराभ्यां पूर्वम् इकः दीर्घः

1. पदान्ते--
'''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः— '''र्वोः धात्वोः''' | वकारान्तधातवः सन्ति, किन्तु वकारान्तस्य पदस्य धातोरसम्भवात् अनेन सूत्रेण वकारान्तधातोः किमपि कार्यं नास्ति, यस्य फले काशिकायां दत्तमस्ति वकारग्रहणमुत्तरार्थम् | लाघवार्थम् अस्मिन् सूत्रे वकारः योजितः येन तस्य अनुवृत्तिः अग्रिमसूत्रद्वये स्यात् | र् च व् र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, इकः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''पदस्य र्वोः धात्वोः उपधायाः इकः दीर्घः''' |
सुप्-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—
'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्''' (४.१.२) =
'''स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्'''
सु औ जस्
अम् औट् शस्
टा भ्याम् भिस्
ङे भ्याम् भ्यस्
ङसि भ्याम् भ्यस्
ङस् ओस् आम्
ङि ओस् सुप्
स् औ अस्
अम् औ अस्
आ भ्याम् भिस्
ए भ्याम् भ्यस्
अस् भ्याम् भ्यस्
अस् ओस् आम्
इ ओस् सु

गॄ इति धातुः | गॄ निगरणे तुदादौ, लटि गिरति |

गॄ → गॄ + क्विप् → '''क्विबन्ता विजन्ता धातुत्वं न जहति''' इति परिभाषया क्विप्-प्रत्ययः संयुज्यते चेदपि धातोः धातु-संज्ञा तिष्ठति → क्विप्-प्रत्ययस्य सर्वापहार-लोपः → '''लशक्वतद्धिते''' (१.३.८) ककारस्य, '''हलन्त्यम्''' (१.३.३) पकारस्य इत्-संज्ञा, '''तस्य लोपः''' (१.३.९) → गॄ + वि → इकारः उच्चारणार्थः → गॄ + व् → '''अपृक्त एकाल् प्रत्ययः''' (१.२.४१) इत्यनेन तस्य अपृक्त-संज्ञा, '''वेरपृक्तस्य''' (६.१.६७) इत्यनेन अपृक्त-संज्ञक-वकारस्य लोपः → '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा → गॄ [धातुः अपि, प्रातिपदिकम् अपि] → '''ॠत इद्धातोः''' (७.१.१००) → गि → '''उरण् रपरः''' (१.१.५१) → गिर् → गिर् + सु → गिर् + स् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) → गिर् '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्मात् '''सुप्तिङन्तं पदम्''' (१.४.१४) → गिर् इति धातुः अपि, प्रातिपदिकम् अपि, पदम् अपि → '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) → गीर् | तथैव भ्याम्, भिस्, भ्यस्, सु | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यनेन एषां पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा |

'''ॠत इद्धातोः''' (७.१.१००) = ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत् गुणः | कित्-ङित् भिन्नप्रत्ययः परश्चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ऋतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव, नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तेत | ऋतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— '''ॠतः धातोः अङ्गस्य इत्''' |

'''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | अनुवृत्ति-सहितसूत्रम्— '''दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते''' |
'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्''' (१.२.४५) = अर्थवत् शब्दस्वरूपं यत् धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्, मतुप्-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत् प्रथमान्तम्, अधातुः प्रथमान्तम्, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं पूर्णम्— '''अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम्''' |
'''कृत्तद्धितसमासाश्च''' (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्''' (१.२.४५) इत्यस्मात् '''अर्थवत्''', '''प्रातिपदिकम्''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''अर्थवन्तः''' '''कृत्तद्धितसमासाः च प्रातिपदिकानि''' |
'''सुडनपुंसकस्य''' (१.१.४३) = सुट्-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्-प्रत्याहारे सु, औ, जस्, अम्, औट् इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्, अनपुंसकम् नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट् प्रथमान्तम्, अनपुंसकस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''शि सर्वनामस्थानम्''' (१.१.४२) इत्यस्मात् '''सर्वनामस्थानम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''सुट्''' '''सर्वनामस्थानम् अनपुंसकस्य''' |

'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम्, एषु कश्चन परः अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | '''यचि भम्''' (१.४.१८) इत्यनेन प्रत्ययः अजादिः अथवा यकारादिः चेत्, पूर्वतन-शब्दस्वरूपस्य 'भ'-संज्ञा भवति, अतः फलितार्थे यादि-भिन्न-हलादि-प्रत्ययः चेत्, पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके | '''स्वौजसमौट्''' (४.१.२) इत्यस्मात् आरभ्य '''उरः प्रभृतिभ्यः कप्''' (५.४.१५१) पर्यन्तम् इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन् असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्, असर्वनामस्थाने सप्तम्यन्तम्, द्विपदमिदं सूत्रम् | '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यस्मात् '''पदम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''स्वादिषु असर्वनामस्थाने''' '''पदम्''' |

'''यचि भम्''' (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम् ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य् च, अच् च यच् समाहारद्वन्द्वः, तस्मिन् यचि | यचि सप्तम्यन्तं, भम् प्रथमान्तम्, द्विपदमिदं सूत्रम् | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्— '''स्वादिषु असर्वनामस्थाने यचि भम्''' |
'''आकडारादेका संज्ञा''' (१.४.१) = अस्मात सूत्रात् आरभ्य '''कडारा कर्मधारये''' (२.२.३८) पर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, '''विप्रतिषेधे परं कार्यम्''' (१.४.२) इत्यनेन अथवा अपवादभूतत्वात् |

2. अपदान्ते--
'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषां ग्रहणम् | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''र्वोः धात्वोः उपधायाः इकः दीर्घः हलि''' |

इदं सूत्रं '''पदस्य''' (८.१.१६) इत्यस्य अधिकारे अस्ति; तर्हि पदान्ते एव भवति वा ? 'हलि च' इत्यस्य सामर्थ्येन अपदान्ते इति भवति | '''झलो झलि''' (८.२.२६) अपि तथा | यदा कदापि अग्रे निमित्तम् अस्ति, तदा बलात् अपदान्ते इति भवति | यत्र सप्तम्यन्तं निमित्तम् अस्ति, तत्र '''पदस्य''' (८.१.१६) इति न गच्छति, यद्यपि तस्य अधिकारे स्यात् |

जॄ + ति → जॄ + श्यन् + ति → जॄ + य + ति → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ऋदन्तधातोः इत्त्वम् → जि + य + ति → '''उरण् रपरः''' (१.१.५१) इत्यनेन ॠदन्तस्य स्थाने यः अण्-प्रत्यहारे स्थितः इत्, स च रपरो भवति → जिर् + य + ति → '''हलि च''' (८.२.७७) इत्यनेन हलि परे रेफान्तधातोः उपधाभूतस्य इकारः दीर्घः → जीर् + य + ति → जीर्यति

अत्र प्रश्नः उदेति, 'हलि' इत्यनेन परसप्तमी, अतः '''तस्मिन्निति निर्दिष्टे पूर्वस्य''' (१.१.६६) इत्यनेन अव्यवहितपूर्वस्य एव कार्यं स्यात्; तत्तु अत्र नास्ति | उपधाभूतस्य इकारस्य दीर्घत्वं; कार्यकारणयोः इकारयकारयोः मध्ये रेफो वर्तते अतः अव्यवहितत्वं नास्ति | तथापि कार्यं भवति | किमर्थम् ? 'येन नाव्यवधानं तेन व्यवहितेऽपि' इति वचनप्रामाण्यात् कार्यं सिध्यति | उपधायाः इकः दीर्घः |

'''तस्मिन्निति निर्दिष्टे पूर्वस्य''' (१.१.६६) इत्यनेन अव्यवहितत्वं भवेत्, किन्तु यत्र कार्यम् इष्यते अपि च अव्यवहितत्वस्य सम्भावना नास्ति, तत्र व्यवहितेऽपि कार्यं सिध्यति | यथा '''पुगन्तलघूपधस्य''' '''च''' (७.३.८६) इत्यनेन पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः | भ्वादौ बुध् + शप् + ति → '''पुगन्तलघूपधस्य''' '''च''' (७.३.८६) → बोधति | एतादृशेषु स्थलेषु सार्वधातुकार्धधातुकयोः इत्यस्य परसप्तमीत्वं, तथापि गुणो भवति यतोहि अव्यवहितत्वस्य सम्भावना नास्ति | तथैव '''हलि च''' (८.२.७७) इत्यस्यापि |

अपदान्ते--
'''उपधायां च''' (८.२.७८) = धातूनां यौ उपधाभूतौ रेफवकारौ हल्परौ, ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशो भवति | सूत्रार्थे 'उपधा'-शब्दः र्वोः इत्यस्य विशेषणं; र्वोः तु षष्ठीद्विवचने अतः 'उपधायां' अपि तथा षष्ठीद्विवचने यद्यपि सूत्रे सप्तम्येकवचनं दत्तमस्ति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः; मूलसूत्रे '<nowiki/>'''र्वोः'''<nowiki/>' षष्ठ्यन्तं 'धातोः' इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वन्ते इत्यर्थः; अत्र '<nowiki/>'''र्वोः'''<nowiki/>' इत्यनेन सम्बन्धषष्ठी 'इकः' इत्यनेन सह | '''हलि च''' (८.२.७७) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन षष्ठ्यन्तं ''''हलः'''<nowiki/>' 'धातोः' इत्यस्य विशेषणं, तदन्तविधिश्च | अनुवृत्ति-सहितसूत्रम्— '''हलः धातोः उपधयोः र्वोः उपधायाः इकः''' '''दीर्घः''' |

अत्र प्रश्नः उदेति यत् साक्षात् 'हलि' इति अनुवृत्तिः आनीयते चेत् इष्टः अर्थः सिध्यति किम् ? काशिकाव्याख्यायां 'हल्परौ' इति उपयुज्यते, न तु 'हलि' | द्वयोः मध्ये भेदः कः इति अवलोकनीयम् | 'हलि' इत्यस्य अर्थः परसप्तमी— 'हलि परे' | तत्र '''हलि च''' (८.२.७७) इति सूत्रे 'हलि' इत्यस्य कथनेन अर्थः स्पष्टः भवति | 'र्वोः धात्वोः उपधायाः इकः दीर्घः हलि' | जॄ + श्यन् → जिर् + य → '''हलि च''' (८.२.७७) → जीर् + य | अत्र 'हलि' इत्यनेन न कोऽपि भ्रमः— केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति, नाम धातोः अनन्तरं यः वर्णः | किमर्थमिति चेत्, 'र्वोः धात्वोः' इत्यनेन 'रेफान्तधातोः वकारान्तधातोः', षष्ठीविभक्तौ च | 'र्वोः' षष्ठीविभक्तौ, 'हलि' सप्तमीविभक्तौ अतः सामानाधिकरण्यस्य अभावात् वर्णान्तरम् | तस्मात् 'हलि' इत्यनेन धातोः अनन्तरं यः वर्णः इत्येव अर्थः सम्भवति, अनेन च स्पष्टता जायते | इ-र्-य् इति इङ्गितम् |

किन्तु '''उपधायां च''' (८.२.७८) इति सूत्रे 'हलि' इति अनुवृत्तिः यथावत् आनीयते चेत् समस्या उदेति | काशिकावृत्त्यां 'धातोरुपधाभूतौ यौ रेफवकारौ '''हल्परौ''' तयोरुपधाया इको दीर्घो भवति' | कॄत् → '''किर्त्''' → कीर्तयति | '''हल्परौ''' इति बहुव्रीहिः— हल् परः यस्मात् सः हल्परः | '''हलि च''' इति सूत्रे 'हलि परे' इत्येव अर्थः, किन्तु '<nowiki/>'''उपधायां च'''<nowiki/>' इति सूत्रे बहुव्रीहिसमासः 'हल् परः आभ्यां', र्वोः इत्यस्य विशेषणं-- हल्परौ इति | अत्र '''हल्परौ''' इत्यस्य आशयः, फलितार्थः एवं यत् धातुः हलन्तः अस्ति |

यदि वदामः 'धातोः उपधयोः र्वोः उपधायाः इकः हलि दीर्घः', अनन्वयो भवति | 'उपधयोः र्वोः' इत्यस्य कथनेन एव रेफवकारयोः अनन्तरं कश्चन वर्णो भवति | पुनः 'हलि' इति परसप्तम्या उच्यते चेत्, तदनन्तरं कश्चन हल्वर्णः स्यात् न तु अयं तकारः यः 'उपधयोः' कथनेन सिध्यति | एतदर्थम्— अस्य वारणार्थं— काशिकाकारः '''हल्परौ''' इति उपयोगं करोति; अनेन इष्टं सामानाधिकरण्यं सिध्यति |

अत्र प्रष्टुं शक्यते, यदि 'उपधयोः' इत्यस्य कथनेन तकारः सिध्यति, तर्हि पुनः 'हल्' इति उल्लेखस्य का आवश्यकता ? रेफवकारयोः अनन्तरं स्वरः न स्यात्; तस्य च स्वरस्य वारणार्थं 'हल्' इति वदनम् आवश्यकम् | किन्तु 'हलि' इत्यनेन परसप्तमी उच्यते चेत्, पुनः धातोः अनन्तरम् अन्यस्य हल्-वर्णस्य इङ्गितं भवति, न तु रेफवकारयोः अनन्तरं यः पूर्वोक्तः तकारः |

तर्हि अत्र '''हल्परौ''' इति कथनेन 'हलन्तधातोः' इति फलितार्थः | '''हल्परौ''' इति नूतनशब्दस्य संयोजनेन विना इष्टम् अर्थम् साधयितुम् इच्छामः चेत्, 'धातोः उपधयोः र्वोः उपधायाः इकः दीर्घः', इत्यस्मिन्, धातोः इति अनुरोधेन 'हलि' इत्यस्य अपि षष्ठ्यन्तत्वेन परिणामः कर्तव्यः | आहत्य, 'हलः धातोः उपधयोः र्वोः उपधायाः इकः दीर्घः' इति उच्यते चेत्, सामानाधिकरण्यत्वेन इष्टः अर्थः सिद्धो भवति | इत्थञ्च 'हलः' इत्यनेन यः वर्णः अभिलक्षितः, पुनः 'उपधयोः' इत्यनेन रेफवकारयोः अनन्तरं यः वर्णः अभिलक्षितः, द्वयोः सङ्गमनम् |

निगमनम् एवं यत् 'उपधयोः' इत्यस्य कथनेन एव रेफवकारयोः अनन्तरम् अन्यः वर्णः अस्ति | ततः अग्रे पुनः 'हलि' संयुज्यते चेत्, 'हलि' 'उपधयोः रेफवकारयोः अनन्तरम् यः वर्णः', अनयोः अन्वयः नास्ति इत्यस्मात् 'हलि' इति कथनेन अन्यः वर्णः | अस्य निवारणार्थं काशिकायां 'धातोरुपधाभूतौ यौ रेफवकारौ '''हल्परौ''' तयोरुपधाया इको दीर्घो भवति' इत्युक्तम् | अस्मिन्नेव अर्थे अनुवृत्ति-सहितसूत्रम् एवं, 'हलः धातोः उपधयोः र्वोः उपधायाः इकः दीर्घः' |

लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनं कर्तव्यम् | न तु विपरीतम्— 'सूत्रार्थानुगुणं लक्ष्यं भवति' इति नास्ति | तदर्थं कुत्रचित् अनुवृत्त्यानयनावसरे विभक्तिपरिणामः, वचनपरिणामः च आवश्यकः भवति | लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनम् इति आशये काशिकायां 'धातोरुपधाभूतौ यौ रेफवकारौ '''हल्परौ''' तयोरुपधाया इको दीर्घो भवति' | '<nowiki/>'''हल्परौ'''<nowiki/>' इत्यस्य स्थाने 'हलः' भवति चेत् अनुवृत्तिसहितसूत्रे, फलितार्थः एक एव समानः |

'''उपधायां च''' (८.२.७८) इत्यस्य अन्यत् उदाहरणम्—

कुर्द भ्वादौ = क्रीडति, नृत्यति

कुर्द → कुर्द् ''' उपदेशेऽजनुनासिक इत्''' (१.३.२)
कुर्द् → कूर्द् ''' उपधायां च''' (८.२.७८)
कूर्द् + शप् + ते → कूर्दते

तथैव खुर्द → खूर्द्, गुर्द → गूर्द् |

प्रकृतविषये चुरादिगणीयः कॄत्-धातुः—

कॄत् → कित् ''' उपधायाश्च''' (७.१.१०१)
कित् → किर्त् ''' उरण रपरः''' (१.१.५१)
किर्त् → कीर्त् ''' उपधायां च''' (८.२.७८)
कीर्ति + शप् → कीर्तय इति अङ्गम्
कीर्तय + ति/ते → कीर्तयति/कीर्तयते

'''उपधायाश्च''' (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात् | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम् | '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''धातोः अङ्गस्य उपधायाश्च ॠतः इत्''' |

'''ॠत इद्धातोः''' (७.१.१००), '''उपधायाश्च''' (७.१.१०१) इति सूत्रयोः अनुवृत्तिसहितसूत्रे अन्वयः च शब्दक्रमश्च भिन्नः | तस्य कारणं किमिति वक्तव्यम्—

'''ॠत इद्धातोः''' (७.१.१००) = ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | अनुवृत्ति-सहितसूत्रम्— '''ॠतः धातोः अङ्गस्य इत्''' |

'''उरण् रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''उः स्थाने अण् रपरः''' |

C. '''आगमाः'''—

१) रध्, जभ्-धातू

रध हिंसासंराद्धयोः = दिवादिगणे | लटि रध्यति | अर्थः = 1.to hurt; 2.to subdue; 3.to become subject to (any one); 4.to die; 5.to be completed. Caus. 1.to hurt; 2.to oppress; 3.to dress
जभी गात्रविनामे = भ्वादिगणे | लटि जभति / ते | अर्थः = P. 1. to copulate. A. 1.to yawn; caus. 1.A; jambhayati

उपदेशे अयं मूलधातुः जभी इति ईकारः अनुबन्धः न तु इकारः, अतः '''इदितो नुम् धातोः''' (७.१.५८) इत्यनेन नुम्-आगमो न भवति | परन्तु विशिष्टसूत्रम् अस्ति येन रध्, जभ् अनयोः धात्वोः नुम्-आगमो विहितः |

'''रधिजभोरचि''' (७.१.६१) = रध्, जभ् अनयोः धात्वोः नुम्-आगमो भवति अजादि-प्रत्यये परे | '''अङ्गस्य''' (६.४.१) इत्यनेन अङ्गकार्यम् इदम् अतः अचि इत्युक्तौ अजादि-प्रत्यये परे | रधिश्च जभ् च तयोरितरेतरयोगद्वन्द्वः रधिजभौ, तयोः रधिजभोः | रधिजभोः षष्ठ्यन्तम्, अचि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''इदितो नुम् धातोः''' (७.१.५८) इत्यस्मात् '''नुम्''', '''धातोः''' इत्यनयोः अनुवृत्तिः (वचनपरिणामं कृत्वा '''धात्वोः''') | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रधिजभोः धात्वोः अङ्गयोः नुम् अचि''' |

रध् → '''हेतुमति च''' (३.१.२६) → रध् + णिच् → '''रधिजभोरचि''' (७.१.६१) → रन्ध् + इ → '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अनुस्वारादेशः → रंध् + इ → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन परसावर्ण्यम् → रन्ध् + इ → रन्धि इति णिजन्तधातुः → रन्धयति

जभ् → '''हेतुमति च''' (३.१.२६) → जभ् + णिच् → '''रधिजभोरचि''' (७.१.६१) → जन्भ् + इ → '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अनुस्वारादेशः → जंभ् + इ → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन परसावर्ण्यम् → जम्भ् + इ → जम्भि इति णिजन्तधातुः → जम्भयति

'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''मोऽनुस्वारः''' (८.३.२३) इत्यस्मात् '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |

'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |

२) रभ्-धातुः

रभ राभस्ये = भ्वादिगणे | लटि रभते; आ-उपसर्गपूर्वकः आरभ्, आरभते | अर्थः = आरम्भं करोति | 1.to begin; 2.to clasp; 3.to long for; 4.to act rashly |

'''रभेरशब्लिटोः''' (७.१.६३) = रभ्-धातोः नुमागमो भवति अजादिप्रत्यये परे; किन्तु शप्, लिट् परश्चेत् न भवति | शप् च लिट् च शब्लिटौ, न शब्लिटौ अशब्लिटौ, तयोः अशब्लिटोः, द्वन्द्वगर्भो नञ्तत्पुरुषः | रभेः षष्ठ्यन्तम्, अशब्लिटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''इदितो नुम् धातोः''' (७.१.५८) इत्यस्मात् '''नुम्''', '''धातोः''' इत्यनयोः अनुवृत्तिः | '''रधिजभोरचि''' (७.१.६१) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रभेः''' '''धातोः अङ्गस्य नुम्''' '''अचि अशब्लिटोः''' |

रभ् → '''हेतुमति च''' (३.१.२६) → रभ् + णिच् → '''रभेरशब्लिटोः''' (७.१.६३) → रन्भ् → '''नश्चापदान्तस्य झलि''' (८.३.२४) → रंभ् → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → रम्भ् + इ → रम्भि इति णिजन्तधातुः → रम्भयति

परन्तु भ्वादौ शपि परे न नुमागमः—
रभ् + शप् + ते → रभते

३) लभ्-धातुः

डुलभष् प्राप्तौ = भ्वादिगणे | लटि लभते | अर्थः = स्वीकरोति, गृह्णाति, प्राप्नोति |

'''लभेश्च''' (७.१.६४) = लभ्-धातोः नुमागमो भवति अजादिप्रत्यये परे; किन्तु शप्, लिट् परश्चेत् न भवति | पृथक् सूत्रम् अग्रे अनुवृत्तेः कृते | लभेः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् | '''इदितो नुम् धातोः''' (७.१.५८) इत्यस्मात् '''नुम्''', '''धातोः''' इत्यनयोः अनुवृत्तिः | '''रधिजभोरचि''' (७.१.६१) इत्यस्मात् '''अचि''' इत्यस्य अनुवृत्तिः | '''रभेरशब्लिटोः''' (७.१.६३) इत्यस्मात् '''अशब्लिटोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''लभेः च धातोः अङ्गस्य नुम्''' '''अचि अशब्लिटोः''' |

लभ् → '''हेतुमति च''' (३.१.२६) → लभ् + णिच् → '''लभेश्च''' → लन्भ् → '''नश्चापदान्तस्य झलि''' (८.३.२४) → लंभ् → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → लम्भ् + इ → लम्भि इति णिजन्तधातुः → लम्भयति

परन्तु भ्वादौ शपि परे न नुमागमः—
लभ् + शप् + ते → लभते

४) क्नूयी क्ष्मायी-धातू

क्नूयी = भ्वादौ | निरनुबन्धधातुः क्नूय् | क्नूय इति अङ्गम् | लटि क्नूयते | अर्थः = आर्द्रः भवति; दुर्गन्धं करोति
क्ष्मायी = भ्वादौ | निरनुबन्धधातुः क्ष्माय् | क्ष्माय इति अङ्गम् | लटि क्ष्मायते | अर्थः = कम्पते

'''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) = ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी, एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक्-आगमः भवति, णिच्-प्रत्यये परे | एषां धातूनां पुक्-आगमः णौ (णि इत्यस्य सप्तम्यन्तम्), णि इत्युक्ते णिच् इत्यतः णिच्-प्रत्यये परे इत्यर्थः | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन धातोः परम् आयाति अयं पुगागमः | पुक् इत्यस्मिन क्, उ इत्यनयोः इत्-संज्ञा लोपश्च; प् अवशिष्यते | अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नूयीश्च क्ष्मायीश्च आच्च तेषामितरेतर्द्वन्द्वः, अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातः तेषाम् | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां षष्ठ्यन्तं, पुक् प्रथमान्तं, णौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् अङ्गानां पुक् णौ''' |

'''पुगन्तलघूपधस्य च''' (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य '''|''' पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात् '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यस्मात् परिभाषा-सूत्रात् '''इकः''' आयाति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |

'''लोपो व्योर्वलि''' (६.१.६६) = वल्-प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति | व् च य् च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः | लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''व्योः लोपः वलि''' |

क्नूयी → '''हेतुमति च''' (३.१.२६) → क्नूय् + णिच् → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) → क्नूय् + पुक् + णिच् → क्नूय् + प् + इ → पुक् वलादिः अतः '''लोपो व्योर्वलि''' (६.१.६६) इत्यनेन यकार-लोपः → क्नू + प् + इ → क्नूप् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः → क्नोप् + इ → क्नोपि → '''सनाद्यन्ता धातवः''' → क्नोपि + शप् + ति → क्नोपयति

क्ष्मायी → '''हेतुमति च''' (३.१.२६) → क्ष्मायी + णिच् → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) → क्ष्माय् + पुक् + णिच् → क्ष्माय् + प् + इ → पुक् वलादिः अतः '''लोपो व्योर्वलि''' (६.१.६६) इत्यनेन यकार-लोपः → क्ष्मा + प् + इ → क्ष्माप् + इ → क्ष्मापि → '''सनाद्यन्ता धातवः''' → क्ष्मापि + शप् + ति → क्ष्मापयति

भ्वादौ शपि परे 'अ' वलि नास्ति इत्यतः यकारलोपो न जायते—
क्नूय् → क्नूय् + शप् → क्नूयते
क्ष्माय् → क्ष्माय् + शप् → क्ष्मायते

D. '''ह्रस्वत्वम्'''—

१) अदन्तधातवः

चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति | यथा कथ, गृह, गण, क्षिप— एषाम् अन्ते ह्रस्व-अकारः वर्तते | तस्य अकारस्य लोपः तु भवति, परन्तु '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण इति न | यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः (अँ) नास्त्येव; अतः इमे अकाराः इत्-संज्ञकवर्णाः न सन्ति | तर्हि एषां धातूनाम् अन्त्यः अकारः कथं लुप्यते ? चुरादिगणे धातुभ्यः णिच्-प्रत्ययः विधीयते, अतः एकं सूत्रम् अस्ति '''अतो लोपः''', यस्य द्वारा अकार-लोपः सिध्यति—

'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः अङ्गस्य''' नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |

णिच्-प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत्, '''अतो लोपः''' (६.४.४८) इत्यस्य प्रसक्तिः भवति |

यथा—

कथ + णिच् → कथ्
गृह + णिच् → गृह्

इदानीं कथ् इति धातुः अस्ति, गृह् इति धातुः अस्ति | अस्यां दशायां कथ्-धातोः उपधायाम् अत् (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्-धातोः उपधायां लघु-इकः गुणः |

'''अत उपधायाः''' (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |

'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके च प्रत्यये परे |

आभ्यां सूत्राभ्यां कार्यम् अभविष्यत् | परन्तु धातुः अदन्तः चेत्, इमे सूत्रे प्रबाध्य अन्यत् सूत्रं कार्यं करोति—

'''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात् '''स्थानिवत्''', '''आदेशः''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्— '''अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ''' |

इत्थं च चुरादिगणे अदन्तधातुभ्यः णिच्-प्रत्ययः विधीयते, अतः लोपः स्थानिवत् नाम ह्रस्व-अकारः इव | अनेन कारणेन '''अत उपधायाः''' इति सूत्रस्य दृष्ट्या कथ्-धातुः 'कथ' इतिवत् दृश्यते | तस्मात् उपधायां थकारः प्रतीयते न तु ह्रस्व-अकारः | अस्यां दशायां किमपि कार्यं न सम्भवति | यथा—

कथ + णिच् → '''अतो लोपः''' → कथ् + णिच् → '''अत उपधायाः''' इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म → '''अचः परस्मिन् पूर्वविधौ''' → कथ् धातोः अन्त्यः लोपः अत् इव दृश्यते → '''अत उपधायाः''' इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम् अधुना थकारः वर्तते → अतः वृद्धिः न भवति |

चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र—
कथ् + णिच् → कथि + शप् → कथयति/ते
गण् + णिच् → गणि + शप् → गणयति/ते
क्षिप् + णिच् → क्षिपि + शप् → क्षिपयति/ते
पुट् + णिच् → पुटि + शप् → पुटयति/ते
गृह् + णिच् → गृहि + शप् → गृहयति/ते

अत्र प्रश्नः उदेति यत् कथ् + णिच् इति स्थले '''अत उपधायाः''' (७.२.११६) इत्यनेन यः वृद्ध्यादेशः, गृह् + णिच् इति स्थले च पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन यः गुणादेशः, द्वयोः निवारणार्थं स्थानिवद्भावः अपेक्षितः इति तु सत्यं किन्तु '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रेण किमर्थं न स्यात् ? '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इति विशिष्टसूत्रस्य का आवश्यकता ? इति चेत्, प्रथमतया '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रस्य पुनस्स्मरणम् [https://worldsanskrit.net/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah अत्र] सम्यक् रीत्या भवेत् | तदा अग्रे पठनीयम् |

अत्र सङ्क्षेपे परिशील्यते यत् अस्यां दशायां '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः जायते न वा—

कथ + णिच् → '''अतो लोपः''' (६.४.४८) → कथ् + णिच् → '''अत उपधायाः''' (७.२.११६)

'''अत उपधायाः''' (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्—'''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |

अत्र '''अत उपधायाः''' (७.२.११६) इत्यनेन यः वृद्धि-आदेशः, अयं विधिः अल्विधिः अस्ति किम् ? यस्य स्थानिवद्भावः क्रियते, सः कः ? कथ-धातोः थकारोत्तरवर्ती अकारः | अल्विधिः नाम पूर्वं यः स्थानी आसीत् (कथ-धातोः धात्वन्तः अकारः), तस्य च अकारस्य अस्मिन् वृद्धि-कार्ये निमित्तत्वम् अस्ति किम् ? '''अत उपधायाः''' (७.२.११६) इत्यस्य यत् कार्यं वृद्ध्यादेशः; तं वृद्धिं प्रति धात्वन्ताकारः निमित्तम् अस्ति किम् ? तर्हि अस्य सूत्रस्य निमित्तानि कानि ? उपधायाम् अत्-वर्णः, परश्च ञित्, णित् प्रत्ययः | चतुर्भिः प्रकारैः निमित्तत्वं सम्भवति | 'अला विधिः' (तृतीयतत्पुरुषः), 'अलः विधिः' (पञ्चमीतत्पुरुषः), 'अलः विधिः' (षष्ठीतत्पुरुषः), 'अलि विधिः' (सप्तमीतत्पुरुषः) | अला विधिः—स्थानिवद्भावानन्तरं यः अकारः आगतः, तम् अकारं निमित्तिकृत्य वृद्धिः जायते वा ? नास्ति | अलः विधिः—तस्मात् एव धात्वन्त-अकारात् परं कार्यं क्रियते वा ? न | अलः विधिः—तस्य च अकारस्य स्थाने कार्यं क्रियते वा ? न हि | स्थानिवद्भावेन यः अकारः आगतः, तस्मिन् परे कार्यं क्रियते वा ? तदपि नास्ति | स्थानिवद्भावेन यः अकारः, स च निमित्तीभूतो नास्ति | अतः अल्विधिः नास्ति |

इत्थञ्च अल्विधिः नास्ति | नास्ति यतोहि स्थानिवद्भावेन यः अकारः आगतः, अकारत्वं यत् अध्यारोपितं भवति आदेशे लोपे, तेन अकारत्वेन '''अत उपधायाः''' (७.२.११६) इत्यनेन वृद्धिः जायते इति नास्ति | अपि तु विपरीतम्—स च अकारः अस्ति चेत्, वृद्धिकार्यं न जायते | अकारः अल् तु अस्ति, परन्तु तस्य इदं कार्यं प्रति निमित्तत्वं नास्ति | अतः अल्विधिः न मन्यते |

'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रं किं सूचयति ? (१) आदेशः स्थानिवत् भवति; (२) परन्तु अल्विधिः अस्ति चेत्, आदेशः स्थानिवत् न भवति—नाम स्थानिवद्भावनिषेधः | अत्र कथ-धातोः प्रसङ्गे उक्तं यत् '''अत उपधायाः''' (७.२.११६) इत्यनेन यः वृद्धिः जायमानः, स च वृद्धिः अल्विधिः नास्ति | अतः स्थानिवद्भावनिषेधः नास्ति | स्थानिवद्भावनिषेधस्य अभावे '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रेण स्थानिवद्भावः स्यात् | अपि च कथ-धातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः वृद्धिकार्यस्य निवारणार्थम् | अल्विधिः नास्ति चेत् '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण स्थानिवद्भावः भवेत्, किन्तु केनचित् कारणेन न भवति इति जानीमः यतोहि '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन एव भवति | तर्हि अल्विध्यभावे '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) द्वारा स्थानिवद्भावः न सिद्धः अस्य च अन्यत् कारणं स्यात्—तच्च किम् ?

अत्र—कथ-धातोः प्रसङ्गे—स्थानिवद्भावः अपेक्षितः इति तु सत्यम् | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रेण किमर्थं न स्यात् इति चेत्, अनेन सूत्रेण तत्रैव स्थनिवद्भावो भवति यत्र शास्त्रीयं कार्यं स्यात् | नाम अभावरूपकार्यं न स्यात् अपि तु किमपि विधानं स्यात् | निषेधरूपं यत् कार्यं, तत् अभावरूपकार्यं, तच्च अशास्त्रीयं कार्यम् इति उच्यते | अत्र 'अशास्त्रीयम्' उक्तं यतोहि कोऽपि विधिः न जायते अपि तु निषेधः एव | 'शास्त्रस्य अप्रवृत्तिः' इति अशास्त्रीयं, न तु शास्त्रविरुद्धत्वम् |

प्रकृतौ कथ् + णिच् इति स्थितौ स्थानिवद्भावेन शास्त्रस्य अप्रवृत्तिः सिध्यति, वृद्धिः न भविष्यति | वृद्धिविधायकशास्त्रस्य अप्रवृत्तिः भविष्यति | अतः इदम् अशास्त्रीयकार्यम् | अशास्त्रीयकार्यकरणसमये '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः न भवति इति नियमः |

कथ-धातोः प्रसङ्गे बालमनोरमायां दत्तमस्ति यत्, "अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः | तत्र कथधातोर्णिचि अतोलोपे 'कथि' इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति | तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह—अल्लोपस्य स्थानिवद्भावादिति | अचः परस्मिन्नित्यनेनेति भावः | अत्रेदमवधेयं—स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः |” ‘यत्तु' इत्यनेन 'यत् कार्यं तु' इति बोध्यम् | ‘व्याघातः' इत्यनेन विनाशः | निमित्तस्य व्याघातात् विधिः न जायते चेत्, तद्विहितकार्यस्य अभावात्, शास्त्रप्रवृत्त्यभावात्, अशास्त्रीयत्वात्, तादृशस्थले '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन अतिदेशः—स्थानिवद्भावः—न भवति |

अस्य सर्वस्य श्रवणानन्तरमपि यदि कोऽपि न मन्यते यत् अशास्त्रीयप्रसङ्गे '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः न भवेत्, तर्हि एतादृशेषु स्थलेषु अनेन एव सूत्रेण स्थानिवद्भावः स्वीक्रियते चेत् समस्या का इत्यस्य प्रदर्शनार्थं बालमनोरमायाम् अग्रे उच्यते—"अन्यथा 'नायक' इत्यत्र ईकारस्थानिकस्य ऐकारस्य आयादेशानापत्तेः | ईकारे स्थानिनि सति आयभावस्य दृष्टत्वेन तस्याप्यैकारे अतिदेशप्रसङ्गात् । अचः परस्मिन्नित्यत्र तु स्थानिनि सति यच्छास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाऽशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् |" अशास्त्रीयप्रसङ्गे '''आयादेशानापत्तेः''' स्थानिवद्भावः मन्यते चेत् समस्या प्रमाणिता | '''ऐकारे अतिदेशप्रसङ्गात् आयभावस्य दृष्टत्वेन''' स्थानिवद्भावः न करणीयः | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः अशास्त्रीये कार्ये न भवति इति ज्ञेयम् |

नी + ण्वुल् → '''युवोरनाकौ''' (७.१.१) इत्यनेन वु-स्थाने अक-आदेशः → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन धात्वन्ते अचः वृद्धिः → नै + अक → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन आय्-आदेशः → नाय् + अक → नायक | नायकः |

अत्र यदि '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण ऐकारस्य स्थानिवद्भावः स्यात् तर्हि 'नी + अक' इति दृश्येत | तथा भवति चेत् '''एचोऽयवायावः''' (६.१.७७) इत्यनेन आय्-आदेशः न स्यात् | ईकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं च न सेत्स्यति | अतः एतादृशस्थले, नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात्, तत्र '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण स्थानिवद्भावो न भवति |

प्रकृतौ '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण '''अत उपधायाः''' (७.२.११६) इत्यनेन वृद्धिः न भविष्यति, नाम अशास्त्रीयकार्यम् | अतः अत्र '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण स्थानिवद्भावः न भवति अपि तु सूत्रान्तरेण '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन |

'''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इति सूत्रेण अशास्त्रीये स्थानिवद्भावः जायते | कार्यं अशास्त्रीयं भवेत् इति न; शास्त्रीयेऽपि अस्य प्रसक्तिः प्राप्तिः च जायते | एवमेव विधिः अल्विधिः भवेत् इति न; अल्विधिः चेदपि भवति, अनल्विधिः अस्ति चेदपि भवति | प्रकृतौ कार्यम् अनल्विधिः, अशास्त्रीयं च | अनल्विधिः इति कारणतः '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः भवति स्म, किन्तु अनल्विधिः चेदपि अन्यकारणात्—अशास्त्रीयत्वात्—न जातः | अशास्त्रीयत्वात्, अनल्विधिः स्थानिवद्भावः भवति '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इति सूत्रेण |

तर्हि '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन अल्विधिः अस्ति चेत्, स्थानिवद्भावः न भवति; अल्विधिः अस्ति चेदपि '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन स्थानिवद्भावः भवति इति तु सत्यं किन्तु अल्विधिः भवेदेव इति नास्ति, यथा अत्र प्रकृतौ | अत्र अल्विधिः अस्ति इति कृत्वा स्थानिवद्भावस्य साधनार्थम् '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य आवश्यकता इति नास्ति; अल्विधिरेव नास्ति |

'''ण्वुल्तृचौ''' (३.१.१३३) = धातुतः ण्वुल् तृच् च विहितौ | '''कर्तरि कृत्''' (३.४.६७) इत्यनेन कर्त्रर्थे एतौ प्रत्ययौ भवतः | ण्वुल् च तृच् च तयोरितरेतरद्वन्द्वः ण्वुल्तृचौ | ण्वुल्तृचौ प्रथमान्तम् एकं पदमिदं सूत्रम् | धातोः, प्रत्ययः, परश्च इत्येषाम् अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''धातोः ण्वुल्तृचौ प्रत्ययौ परौ''' |

'''युवोरनाकौ''' (७.१.१) = अङ्गात् परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः | युश्च वुश्च तयोः समाहारद्वन्द्वः युवुः, तस्य युवोः युवोः षष्ठ्यन्तं, अनाकौ प्रथमान्तं, द्विपदमिदं सूत्रम् | अङ्गस्य इत्यस्य अधिकारः, अत्र पञ्चमीविभक्तौ | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गात् युवोः अनाकौ''' |

'''अचो ञ्णिति''' (७.२.११५) = अङ्गम् अजन्तं चेत्, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | ञ् च ण् च ञ्णौ, ञ्णौ इतौ यस्य तत् ञ्णित्, तस्मिन् ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात् वृद्धिः इत्यस अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य अचः वृद्धिः ञ्णिति''' | '''अलोऽन्त्यस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः |

<nowiki>*</nowiki>'''अतो लोपः''' (६.४.४८) इति सूत्रे प्रश्नः उदेति किमर्थम् '''उपदेशे''' इत्युक्तम् | उत्तरम् एवं यत् अनुवृत्तौ '''उपदेशे''' इति यदि नाभविष्यत्, तर्हि कासुचित् स्थितिषु (अनुपदेशावस्थायाम्) इष्टं रूपं न प्राप्स्यत् | यथा— भ्वादिगणे अय् गतौ इति धातुः; उदाहरणार्थं कश्चन आर्धधातुक-प्रत्ययः अस्ति क्विप् |

अय् + क्विप् → अनुबन्धलोपे → अय् + व् → '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन यकार-लोपः → अ + व् → '''अतो लोपः''' (६.४.४८) इत्यनेन अ-लोपः, '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्-लोपः → शून्यम् अवशिष्यते |

अतः '''उपदेशे''' नास्ति चेत् इष्टं रूपं न प्राप्यते | '''उपदेशे''' अस्ति चेत् अ-लोपः न भवति यतोहि 'अ' इति उपदेश-अवस्थायां नास्ति |

अ + व् → '''ह्रस्वस्य''' '''पिति कृति तुक्''' (६.१.७०) इत्यनेन तुक्-आगमः → अत् + व् → '''वेरपृक्तस्य''' (६.१.६६) इत्यनेन व्-लोपः → अत् इति इष्टं रूपं प्राप्तम् |

२) मित् धातवः

भ्वादिगणे चुरादिगणे केचन अदुपधधातवः सन्ति येषाम् उपधायाम् अतः वृद्धिः भवति '''अत उपधायाः''' इत्यनेन, तदा '''मितां ह्रस्वः''' इत्यनेन पुनः ह्रस्वः भवति | एते मित् धातवः इत्युच्यन्ते |

'''अत उपधायाः''' (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |

भ्वादिगणे '''घटादयो मितः''' इत्यनेन घट् आदि येषां, तेषां धातुसमूहस्य नाम घटादयः | अष्टात्रिंशत् धातवः सन्ति अस्मिन् अन्तर्गणे (चक्, कख्, अग्, कग्, रग्, लग्, षग्, ष्टग्, ह्वग्, घट्, णट् ...) |

घट् + णिच् → '''अत उपधायाः''' → घाट् + इ → घाटि → '''मितां ह्रस्वः''' → घटि → घटयति
व्यथ् + णिच् → '''अत उपधायाः''' → व्याथ् + इ → व्याथि → '''मितां ह्रस्वः''' → व्यथि → व्यथयति
प्रस् + णिच् → '''अत उपधायाः''' → प्रास् + इ → प्रासि → '''मितां ह्रस्वः''' → प्रसि → प्रसयति

चुरादिगणे '''नान्ये मितोऽहेतौ''' इत्यनेन षट् धातवः सन्ति (ज्ञप्, यम्, चह्, रह्, बल्, चिञ्) | एषामपि उपधायाम् अतः वृद्धिः भवति '''अत उपधायाः''' इत्यनेन, तदा '''मितां ह्रस्वः''' इत्यनेन पुनः ह्रस्वः भवति | एते मित् धातवः इत्युच्यन्ते |

यथा—
ज्ञप् + णिच् → '''अत उपधायाः''' → ज्ञाप् + इ → ज्ञापि → '''मितां ह्रस्वः''' → ज्ञपि → ज्ञपयति
यम् + णिच् → '''अत उपधायाः''' → याम् + इ → यामि → '''मितां ह्रस्वः''' → यमि → यमयति

उपर्युक्तयोः द्वयोः गणयोः ये धातवः सन्ति, ते नित्य-मित् धातवः | अन्ये धातवः सन्ति ये नित्य-मित् न सन्ति; केषुचित् निर्दिष्टेषु अर्थेषु मित् सन्ति, अपरेषु अर्थेषु एते मित् न सन्ति | एते मित् धातवः केवलं भ्वादौ चुरादौ इति न; अपरेषु गणेषु अपि सन्ति, यथा दिवादिगणे, क्र्यादिगणे च | सर्वे अदुपधधातवः अपि न सन्ति | केचन अजन्तधातवः सन्ति यथा दॄ क्र्यादिगणे, दरयति दारयति वा भवति | अन्यत् उदाहरणं मदी धातुः, दिवादिगणे | हर्षार्थे मित् अस्ति अतः '''अत उपधायाः''' इत्यनेन वृद्धिः मद् + णिच् → मादि → '''मितां ह्रस्वः''' → मदि → मदयति | अपरेषु अर्थेषु अमित् अतः मद् + णिच् → मादि → मादयति | एवं रीत्या अनेके धातवः सन्ति ये अर्थम् अवलम्ब्य मित् सन्ति |

परिसमाप्तिः

अनेन प्रेरणार्थे णिच्-प्रकरणं समाप्तम् | सामान्यधातूनां किं किं कार्यं भवति इत्यस्माभिः दृष्टम् | तत्र '''अचो ञ्णिति''', '''अत उपधायाः''', '''पुगन्तलघूपधस्य च''' इति सूत्रत्रयेण कार्यं साधितम् | सामान्येषु पुगागमः अपि दृष्टः | तदा अजन्तधातूनां विशेषरूपाणि परिशीलितानि | तत्र पुक्, युक्, लुक्, जुक्, षुक् इत्यागमाः वीक्षिताः | परं हलन्तधातूनां विशेषेषु कुत्र व्, त्, प्, घ् इत्यादयाः आदेशाः विहिताः, अनन्तरं कुत्र नुमागमः पुगागमः च विहितः इत्यपि अवलोकितम् | अधुना णिच्-प्रसङ्गे सर्वमेव जानन्ति | एवम् एकोऽपि धातुः न वर्तते यस्य णिजन्तरूपम् अस्माभिः न ज्ञायेत |

Swarup – June 2013 (updated May 2017)