page_and_link_managers, Administrators
5,152
edits
(fixed broken link) |
No edit summary |

(8 intermediate revisions by 2 users not shown) | |||
Line 68:

'''स्फायो वः''' (७.३.४१) = णिचि प्रत्यये परे, स्फाय् धातोः स्थाने व-आदेशो भवति | '''

Line 77:

शद् = भ्वादिगणे, तुदादिगणे च | अर्थः = शातने, जीर्णं भवति, क्षीणं भवति | लटि शीयते उभयत्र | शिति परे '''पाघ्राध्मास्था''' (७.३.७८) इत्यनेन शीय इति धात्वादेशः | '''शदेः शितः''' (१.३.६०) इत्यनेन यद्यपि अयं धातुः पारस्मैपदी, किन्तु शिति परे आत्मनेपदी एव भवति | तदर्थं लटि शीयते, किन्तु लृटि शत्स्यति | शीयते इत्यस्य अर्थः = कृशः भवति, क्षीणः भवति—उभयोः गणयोः | प्रेरणार्थे शातनम् इत्युक्ते पीडनम्; अस्मिन् अर्थे केवलं णिजन्तरूपं सम्भवति; कष्टं ददाति, पीडां करोति इति अर्थे केवलं णिजन्तरूपं यतोहि अणिजन्ते शद्-धातुः अकर्मकः | णिजन्ते अस्य धातोः अन्यः अर्थः गत्यर्थकः— अनुधावति इति |

Line 89:

'''शदेरगतौ तः''' (७.३.४२) = शद्-धातोः तकारादेशो भवति णिचि परे, अगत्यर्थे | न गतिः, अगतिः, तस्याम् अगतौ | '''

Line 116:

'''रुहः पोन्यतरस्याम्''' (७.३.४३) = रुह्-धातोः विकल्पेन पकारादेशो भवति णिचि परे | '''

Line 141:

'''हनस्तोऽचिण्णलोः''' (७.३.३२) = हन्-धातोः स्थाने तकारादेशो भवति ञिति णिति प्रत्यये परे; चिण्, णल् इति प्रत्ययौ न स्याताम् | '''

Line 199:
भोजननिर्माणं, कार्यकरणम्, इत्यादीनाम् अर्थे—
सिध् → '''हेतुमति च''' (३.१.२६) → सिध् + णिच् → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपध-इकः गुणः → सेध् + इ → '''सिध्यतेरपारलौकिके''' (६.१.४९) इत्यनेन एचः आत्त्वम् → साध् + इ → साधि इति णिजन्तधातुः → साधयति | दृष्टान्ते बालकः ग्रामं साधयति |

तपस्यार्थे—
सिध् → '''हेतुमति च''' (३.१.२६) → सिध् + णिच् → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपध-इकः गुणः → सेध् + इ → सेधि इति णिजन्तधातुः → सेधयति | दृष्टान्ते तपः तापसं '''सेधयति''' |

Line 252:
1. पदान्ते--
'''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः— '''र्वोः धात्वोः''' | वकारान्तधातवः सन्ति, किन्तु वकारान्तस्य पदस्य धातोरसम्भवात् अनेन सूत्रेण वकारान्तधातोः किमपि कार्यं नास्ति, यस्य फले काशिकायां दत्तमस्ति वकारग्रहणमुत्तरार्थम् | लाघवार्थम् अस्मिन् सूत्रे वकारः योजितः येन तस्य अनुवृत्तिः अग्रिमसूत्रद्वये स्यात् | र् च व् र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, इकः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः
सुप्-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—
'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्''' (४.१.२) =
'''स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्'''
सु औ जस्
अम् औट् शस्
टा भ्याम् भिस्
ङे भ्याम् भ्यस्
ङसि भ्याम् भ्यस्
ङस् ओस् आम्
ङि ओस् सुप्
स् औ अस्
अम् औ अस्
आ भ्याम् भिस्
ए भ्याम् भ्यस्
अस् भ्याम् भ्यस्
अस् ओस् आम्
इ ओस् सु

Line 265 ⟶ 306:

'''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | अनुवृत्ति-सहितसूत्रम्— '''दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते''' |
'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्''' (१.२.४५) = अर्थवत् शब्दस्वरूपं यत् धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्, मतुप्-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत् प्रथमान्तम्, अधातुः प्रथमान्तम्, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं पूर्णम्— '''अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम्''' |
'''कृत्तद्धितसमासाश्च''' (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्''' (१.२.४५) इत्यस्मात् '''अर्थवत्''', '''प्रातिपदिकम्''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''अर्थवन्तः''' '''कृत्तद्धितसमासाः च प्रातिपदिकानि''' |
'''सुडनपुंसकस्य''' (१.१.४३) = सुट्-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्-प्रत्याहारे सु, औ, जस्, अम्, औट् इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्, अनपुंसकम् नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट् प्रथमान्तम्, अनपुंसकस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | '''शि सर्वनामस्थानम्''' (१.१.४२) इत्यस्मात् '''सर्वनामस्थानम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''सुट्''' '''सर्वनामस्थानम् अनपुंसकस्य''' |

Line 271 ⟶ 324:

'''यचि भम्''' (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम् ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य् च, अच् च यच् समाहारद्वन्द्वः, तस्मिन् यचि | यचि सप्तम्यन्तं, भम् प्रथमान्तम्, द्विपदमिदं सूत्रम् | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्— '''स्वादिषु असर्वनामस्थाने यचि भम्''' |
'''आकडारादेका संज्ञा''' (१.४.१) = अस्मात सूत्रात् आरभ्य '''कडारा कर्मधारये''' (२.२.३८) पर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, '''विप्रतिषेधे परं कार्यम्''' (१.४.२) इत्यनेन अथवा अपवादभूतत्वात् |

Line 462 ⟶ 518:

'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः अङ्गस्य''' नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''

Line 528 ⟶ 584:

'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रं किं सूचयति ? (१) आदेशः स्थानिवत् भवति; (२) परन्तु अल्विधिः अस्ति चेत्, आदेशः स्थानिवत् न भवति—नाम स्थानिवद्भावनिषेधः | अत्र कथ-धातोः प्रसङ्गे उक्तं यत् '''अत उपधायाः''' (७.२.११६) इत्यनेन यः वृद्धिः जायमानः, स च वृद्धिः अल्विधिः नास्ति | अतः स्थानिवद्भावनिषेधः नास्ति | स्थानिवद्भावनिषेधस्य अभावे '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रेण स्थानिवद्भावः स्यात् | अपि च कथ-धातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः

Line 537 ⟶ 593:

कथ-धातोः प्रसङ्गे बालमनोरमायां दत्तमस्ति यत्, "अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः | तत्र

Line 564 ⟶ 620:

'''अचो ञ्णिति''' (७.२.११५) = अङ्गम् अजन्तं चेत्, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | ञ् च ण् च ञ्णौ, ञ्णौ इतौ यस्य तत् ञ्णित्, तस्मिन् ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात् वृद्धिः इत्यस अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य अचः वृद्धिः ञ्णिति''' |