'''स्फायो वः''' (७.३.४१) = णिचि प्रत्यये परे, स्फाय् धातोः स्थाने व-आदेशो भवति | '''अलोऽन्तस्यअलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | स्फायः षष्ठ्यन्तं, वः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''स्फायः वः णौ''' |

'''शदेरगतौ तः''' (७.३.४२) = शद्-धातोः तकारादेशो भवति णिचि परे, अगत्यर्थे | न गतिः, अगतिः, तस्याम् अगतौ | '''अलोऽन्तस्यअलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | शदेः षष्ठ्यन्तम्, अगतौ सप्तम्यन्तं, तः प्रथमान्तम् | तः इत्यस्मिन् अकारः उच्चारणार्थमेव अस्ति | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''शदेः तः णौ अगतौ''' |

'''रुहः पोन्यतरस्याम्''' (७.३.४३) = रुह्-धातोः विकल्पेन पकारादेशो भवति णिचि परे | '''अलोऽन्तस्यअलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | रुहः षष्ठ्यन्तं, पः प्रथमान्तम्, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''रुहः पः णौ अन्यतरस्याम्''' |

'''हनस्तोऽचिण्णलोः''' (७.३.३२) = हन्-धातोः स्थाने तकारादेशो भवति ञिति णिति प्रत्यये परे; चिण्, णल् इति प्रत्ययौ न स्याताम् | '''अलोऽन्तस्यअलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | चिण् च णल् च चिण्णलौ, न चिण्णलौ अचिण्णलौ, तयोरचिण्णलोः, द्वन्द्वगर्भनञ्तत्पुरुषः | हनः षष्ठ्यन्तं, तः प्रथमान्तम्, अचिण्णलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अचो ञ्णिति''' (७.२.११५) इत्यस्मात् '''ञ्णिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हनः अङ्गस्य तः ञ्णिति अचिण्णलोः''' |

'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः अङ्गस्य''' नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्यअलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |

'''अचो ञ्णिति''' (७.२.११५) = अङ्गम् अजन्तं चेत्, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | ञ् च ण् च ञ्णौ, ञ्णौ इतौ यस्य तत् ञ्णित्, तस्मिन् ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात् वृद्धिः इत्यस अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य अचः वृद्धिः ञ्णिति''' | अलोऽन्तस्य'''अलोऽन्त्यस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः |