7---ArdhadhAtukaprakaraNam/03---preraNArthe-Nic---visheShAH-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 252:
1. पदान्ते--</big>
 
<big>'''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः— '''र्वोः धात्वोः''' | वकारान्तधातवः सन्ति, किन्तु वकारान्तस्य पदस्य धातोरसम्भवात् अनेन सूत्रेण वकारान्तधातोः किमपि कार्यं नास्ति, यस्य फले काशिकायां दत्तमस्ति वकारग्रहणमुत्तरार्थम् | लाघवार्थम्‌ अस्मिन् सूत्रे वकारः योजितः येन तस्य अनुवृत्तिः अग्रिमसूत्रद्वये स्यात्‌ | र्‌‍ च व्‌ र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, इकः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदस्य अन्ते र्वोः धात्वोः उपधायाः इकः दीर्घः''' |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits