7---ArdhadhAtukaprakaraNam/03---preraNArthe-Nic---visheShAH-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 306:
<big><br />
'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते''' |</big>
 
 
 
<big>'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) = अर्थवत्‌ शब्दस्वरूपं यत्‌ धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्‌, मतुप्‌-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत्‌ प्रथमान्तम्‌, अधातुः प्रथमान्तम्‌, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं पूर्णम्‌— '''अर्थवद्‌ अधातुः अप्रत्ययः प्रातिपदिकम्‌''' |</big>
 
 
 
<big>'''कृत्तद्धितसमासाश्च''' (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यस्मात्‌ '''अर्थवत्‌''', '''प्रातिपदिकम्‌''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्थवन्तः''' '''कृत्तद्धितसमासाः च प्रातिपदिकानि''' |</big>
 
 
 
<big>'''सुडनपुंसकस्य''' (१.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''शि सर्वनामस्थानम्‌''' (१.१.४२) इत्यस्मात्‌ '''सर्वनामस्थानम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सुट्''' '''सर्वनामस्थानम्‌ अनपुंसकस्य''' |</big>
 
<big><br />
page_and_link_managers, Administrators
5,152

edits