|
|
<big><br />
'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रं किं सूचयति ? (१) आदेशः स्थानिवत् भवति; (२) परन्तु अल्विधिः अस्ति चेत्, आदेशः स्थानिवत् न भवति—नाम स्थानिवद्भावनिषेधः | अत्र कथ-धातोः प्रसङ्गे उक्तं यत् '''अत उपधायाः''' (७.२.११६) इत्यनेन यः वृद्धिः जायमानः, स च वृद्धिः अल्विधिः नास्ति | अतः स्थानिवद्भावनिषेधः नास्ति | स्थानिवद्भावनिषेधस्य अभावे '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सामान्यसूत्रेण स्थानिवद्भावः स्यात् | अपि च कथ-धातोः प्रसङ्गे स्थानिवद्भावः अपेक्षितः वृधिकार्यस्यवृद्धिकार्यस्य निवारणार्थम् | अल्विधिः नास्ति चेत् '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण स्थानिवद्भावः भवेत्, किन्तु केनचित् कारणेन न भवति इति जानीमः यतोहि '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन एव भवति | तर्हि अल्विध्यभावे '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) द्वारा स्थानिवद्भावः न सिद्धः अस्य च अन्यत् कारणं स्यात्—तच्च किम् ?</big>
<big><br />
<big><br />
कथ-धातोः प्रसङ्गे बालमनोरमायां दत्तमस्ति यत्, "अन्ते अकारो नेत्संज्ञको, नाप्युच्चारणार्थ इति भावः | तत्र कथदातोर्णिचिकथधातोर्णिचि अतोलोपे 'कथि' इत्यस्मात्तिपि शपि गुणेऽयादेशे कथयतीति रूपं वक्ष्यति | तत्र णिचमाश्रित्य उपधावृद्धिमाशङ्क्याह—अल्लोपस्य स्थानिवद्भावादिति | अचः परस्मिन्नित्यनेनेति भावः | अत्रेदमवधेयं—स्थानिनि सति शास्त्रीयं यत्कार्यं तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते यत्तु स्थानिनि सति निमित्तव्याघातान्न भवति तस्याऽभावस्याऽशास्त्रीयत्वान्नाऽतिदेशः |” ‘यत्तु' इत्यनेन 'यत् कार्यं तु' इति बोध्यम् | ‘व्याघातः' इत्यनेन विनाशः | निमित्तस्य व्याघातात् विधिः न जायते चेत्, तद्विहितकार्यस्य अभावात्, शास्त्रप्रवृत्त्यभावात्, अशास्त्रीयत्वात्, तादृशस्थले '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन अतिदेशः—स्थानिवद्भावः—न भवति | </big>
<big><br />
|