7---ArdhadhAtukaprakaraNam/04---karmaNi-bhAve-ca: Difference between revisions

added links, spaces, and underlined words
(added links to recordings)
(added links, spaces, and underlined words)
Line 50:
 
भावार्थे कर्मण्यर्थे च यः प्रत्ययः धातुभ्यः विधीयते, सः आर्धधातुकसंज्ञकः इति कारणतः इष्टरूपाणां साधनार्थम्‌ आर्धधातुकप्रक्रिया उपयुज्यते | आर्धधातुकप्रक्रिया इत्यस्मात्‌ धातुगणचिन्तनं न भवति | सर्वे उपद्विसहस्रं धातवः अन्तिमवर्णम् अधिकृत्य श्रेणीक्रियन्ते | यक्‌-प्रत्ययश्च वलादिः नास्ति इत्यस्मात्‌ इडागमः न भवति कुत्रापि |
 
<font size="4"></font><font size="4"></font>
 
यः तिङ्‌ अथवा कृत्‌-प्रत्ययः धातोः परो वर्तते स च भाववाची कर्मवाची वा चेत्‌, धातोः यक्‌-प्रत्ययः विधीयते '''सार्वधातुके यक्‌''' (३.१.६७) इति सूत्रेण—
 
<font size="4"></font><font size="4"></font>
 
'''सार्वधातुके यक्‌''' (३.१.६७) = धातुभ्यः यक्‌-प्रत्ययो भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे | सार्वधातुके सप्तम्यन्तं, यक्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''चिण्भावकर्मणोः''' (३.१.६६) इत्यस्मात्‌ '''भावकर्मणोः''' इत्यस्य अनुवृत्तिः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌‌‌ '''धातोः''' इत्यस्य अधिकारः | '''प्रत्ययः''' (३.१.१) इत्यस्य अधिकारः; '''परश्च''' (३.१.२) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रं— '''धातोः यक्‌ प्रत्ययः परश्च भावकर्मवाचिनि सार्वधातुके''' |
 
 
'''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) = धातोः विहितः तिङ्‌-शित्‌ प्रत्ययः सार्वधातुकसंज्ञको भवति | श्‌ इत्‌ यस्य सः शित्‌, बहुव्रीहिः | तिङ्‌ च शित्‌ च तयोः समाहारद्वन्द्वः तिङ्‌शित्‌ | तिङ्‌शित्‌ प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातो''': (३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌''' |
 
<font size="4"></font><font size="4"></font>
 
'''आर्धधातुकं शेषः''' (३.४.११४) = धातोः विहितः तिङ्‌-शित्‌-भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति | आर्धधातुकं प्रथमान्तं, शेषः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातो''': (३.१.९१) इत्येषाम्‌ अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परश्च शेषः प्रत्ययः आर्धधातुकम्‌''' |
 
<font size="4"></font><font size="4"></font>
 
'''आर्धधातुकं शेषः''' (३.४.११४) इति सूत्रे '''धातोः''' इत्यस्य अधिकारः द्वयोः सूत्रयोः, अनेन च द्विवारं सूत्रे आयाति | फलम्‌ एवम्‌ अस्ति— यः प्रत्ययः धातोः विधीयते अपि च विधायकसूत्रे साक्षात्‌ ''''धातोः'''<nowiki/>' इति उच्यते, स एव आर्धधातुकसंज्ञकः | अनेन '''गुप्तिज्किद्भ्यः सन्‌''' (३.१.५) इत्यस्मिन्‌ यद्यपि सन्‌-प्रत्ययः धातोः विधीयते, तथापि सूत्रे साक्षात्‌ '''धातोः''' इति पदं नायाति इत्यस्मात्‌ सन्‌-प्रत्ययः आर्धधातुकः नास्ति | तदर्थम्‌ '''आर्धधातुकस्येड्‌ वलादेः''' (७.२.३५) इत्यस्य प्रसक्रिर्नास्ति, यस्मात्‌ सन्‌-प्रत्ययः यद्यपि वलादिः तथापि तस्य इडागमो न भवति | जुगुप्सते ।
 
<font size="4"></font><font size="4"></font>
 
यक्‌-प्रत्ययस्य स्वभावः
<u>यक्‌-प्रत्ययस्य स्वभावः</u>
<font size="4"></font><font size="4"></font>
 
 
यक्‌-प्रत्यये '''हलन्त्यम्‌''' (१.३.३.) इत्यनेन अनुबन्ध-ककारस्य इत्‌-संज्ञा; '''तस्य लोपः''' (१.३.९) इत्यनेन अनुबन्धस्य लोपे सति 'य' इत्यवशिष्यते | यक्‌-प्रत्ययस्य कित्त्वात्‌ त्रीणि विशिष्ट-कार्याणि—
 
<font size="4"></font><font size="4"></font>
 
१) '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः वृद्धिनिषेधश्च |
 
<font size="4"></font>
 
२) '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन अनिदितां धातूनाम्‌ उपधाभूतस्य नकारस्य लोपो भवति |
 
<font size="4"></font>
 
३) सम्प्रसारणं भवति सामान्यसूत्रद्वयेन— '''वचिस्वपियजादीनां किति''' (६.१.१५), '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) |
 
<font size="4"></font><font size="4"></font>
 
पदस्य निर्णयः
<u>पदस्य निर्णयः</u>
<font size="4"></font><font size="4"></font>
 
 
भावेप्रयोगे कर्मणिप्रयोगे च सर्वेभ्यः धातुभ्यः आत्मनेपदसंज्ञकाः तिङ्‌-प्रत्ययाः एव विधीयन्ते—
 
<font size="4"></font><font size="4"></font>
 
'''भावकर्मणोः''' (१.३.१३) = भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति | भावश्च कर्म च तयोरितरेतरद्वन्द्वो भावकर्मणी, तयोर्भावकर्मणोः | भावकर्मणोः सप्तम्यन्तम्‌ एकपदमिदं सूत्रम्‌; अत्र विषयसप्तमी | '''अनुदात्तङित आत्मनेपदम्‌''' (१.३.१२) इत्यस्मात् '''आत्मनेपदम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''भावकर्मणोः आत्मनेपदम्‌''' |
 
<font size="4"></font><font size="4"></font>
 
पुरुषनिर्णयः वचननिर्णयः च
<u>पुरुषनिर्णयः वचननिर्णयः च</u>
<font size="4"></font><font size="4"></font>
 
 
अकर्मकधातूनां भावेप्रयोगः भवति, सकर्मकधातूनां कर्मणिप्रयोगः भवति | भावेप्रयोगे तिङन्तरूपाणि केवलं प्रथमपुरुषस्य एकवचने एव भवन्ति | कर्मणिप्रयोगे तिङन्तरूपाणि त्रिषु पुरुषेषु त्रिषु वचनेषु च भवन्ति |
 
<font size="4"></font><font size="4"></font>
 
यक्‌-प्रत्ययस्य लकारनिमित्तिकृत्य वैशिष्ट्यम्‌
<u>यक्‌-प्रत्ययस्य लकारनिमित्तिकृत्य वैशिष्ट्यम्‌</u>
<font size="4"></font><font size="4"></font>
 
 
उक्तं यत्‌ '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन धातुभ्यः यक्‌-प्रत्ययो भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे | अत्र धेयं यत्‌ लकाराः अपि प्रत्ययाः | दश लकाराः सन्ति; सर्वे च आदौ आर्धधातुकसंज्ञकाः | तदा एषां लकाराणां स्थाने ये अष्टादश तिङ्‌-प्रत्ययाः आदिष्टाः, ते च '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सार्वधातुकसंज्ञकाः | तदा '''लिट्‌ च''' (३.४.११५) , '''लिङाशिषि''' (३.४.११६) इति सूत्राभ्यां लिट्‌-लकारस्य आशीर्लिङ-लकारस्य च स्थाने ये अष्टादश तिङ्‌-प्रत्ययाः आदिष्टाः, ते च अपवादत्वेन आर्धधातुकसंज्ञकाः | अनन्तरं '''स्यतासी लृ-लुटोः''' (३.१.३३) इत्यनेन लृटि लृङि च परे धातुतः स्यः; लुटि परे धातुतः तास्‌ भवति | अनुवृत्ति-सहितसूत्रं— '''लृलुटोः धातोः परश्च स्यतासी प्रत्ययौ''' | अनेन लृट्‌, लृङ्‌ इत्यनयोः स्य-प्रत्ययः, लुट्-लकारस्य च तास्‌-प्रत्ययः | '''च्लि लुङि''' (३.१.४३) इत्यनेन लुङि धातोः च्लि प्रत्ययो भवति | लुङ्‌-लकारस्य च्लि-प्रत्ययः | धेयं यत्‌ स्य, तास्‌, च्लि एते त्रयः प्रत्ययाः न तिङ्‌, न वा शित्‌, अतः '''तिङ्‌शित्सार्वधातुकम्‌''' इत्यनेन नैव सार्वधातुकाः | अपि तु '''आर्धधातुकं शेषः''' इत्यनेन आर्धधातुकाः | फलितार्थः एवं यत्‌ लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषां चतुर्णां लकाराणां तिङ्‌-प्रत्ययाः सार्वधातुकसंज्ञकाः; लिट्‌, लृट्‌, लृङ्‌, लुट्‌, लुङ्‌, आशिर्लिङ्‌ इत्येषां षण्णां लकाराणां तिङ्‌-प्रत्ययाः आर्धधातुकसंज्ञकाः | तदर्थं '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन चतुर्षु एव लकारेषु यक्‌-प्रत्ययो विधीयते | अवशिष्टेषु षट्सु भाववाचकानि कर्मवाचकानि च रूपाणि भवन्ति, किन्तु तत्र यक्‌-प्रत्ययः न भवति |
 
<font size="4"></font><font size="4"></font>
 
एतदधिकृत्य अग्रे कर्मवाचकानां भाववाचकानां च रूपाणि द्वयोः समूहयोः विभज्यन्ते—
 
<font size="4"></font>
 
१) लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ | एषु लकारेषु यक्‌-प्रत्ययः विधीयते |
 
<font size="4"></font>
 
२) लिट्‌, लृट्‌, लृङ्‌, लुट्‌, लुङ्‌, आशिर्लिङ्‌ | एषु लकारेषु यक्‌-प्रत्ययः न विधीयते |
 
<font size="4"></font><font size="4"></font>
 
अस्मिन्‌ पाठे प्रथमतया तेषां लकाराणां रूपाणि साधयामः येषां कृते धातुभ्यः यक्‌ विधीयते; अनन्तरमेव अवशिष्टानां, यत्र यक्‌ न विधीयते | प्रथमे समूहे पुनः विभजनं क्रियते यतोहि चुरादिगणे प्रक्रिया किञ्चित्‌ भिन्ना यतोहि स्वार्थे णिच्‌ भवति, अतः चुरादिगणीयाः धातवः पृथक्तया अवलोक्यन्ते | अपि च आर्धधातुकप्रक्रियायां यथासामान्यं धातूनां विभजनं भवति अन्तिमवर्णम्‌ अधिकृत्य— अजन्तानां हलन्तानां च | पुनः अजन्तेषु आकारान्ताः-एजन्ताः, इकारान्ताः-ईकारान्ताः, उकारान्ताः-ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः च | तदा हलन्तेषु विभागचतुष्टयं— धात्वादेशाः, सम्प्रसारणिधातवः, अनिदित्‌-धातवः, अवशिष्टाधातवः च |
 
<font size="4"></font>
 
'''A. लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ | एषु लकारेषु यक्‌-प्रत्ययः विधीयते |'''
 
<font size="4"></font>
 
1. भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि नवानां धातुगणानां (भ्वाद्यारभ्य क्र्यादियावत्‌)
1. <u>भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि नवानां धातुगणानां (भ्वाद्यारभ्य क्र्यादियावत्‌)</u>
<font size="4"></font><font size="4"></font>
 
 
a) अजन्तधातवः
 
<font size="4"></font><font size="4"></font>
 
१. आकारान्ताः एजन्ताः च धातवः
 
<font size="4"></font><font size="4"></font>
 
अशिति प्रत्यये परे, एजन्तधातवः आकारान्ताः भवन्ति | यक्‌-प्रत्ययः शित्‌ नास्ति इत्यस्मात्‌ अत्र '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्य प्रवर्तनम्—
 
<font size="4"></font><font size="4"></font>
 
'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्वं न तु शिति | उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम्‌ | उपदेशावस्थायाम्‌, अशिति प्रत्यये परे, एजन्तधातूनाम्‌ अन्त्यस्य एचः स्थाने आत्वादेशः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |
 
<font size="4"></font><font size="4"></font>
 
यथा—
 
<font size="4"></font>
 
ग्लै → ग्ला
 
<font size="4"></font>
म्लै → म्ला
 
<font size="4"></font>
ध्यै → ध्या
 
<font size="4"></font>
शो → शा
 
<font size="4"></font>
सो → सा
 
<font size="4"></font>
वे → वा
 
<font size="4"></font>
छो → छा
 
<font size="4"></font><font size="4"></font>
 
यः कोऽपि आर्धधातुकप्रत्ययः भवति, सः अशित्‌ एव | तदर्थं सर्वेषु आर्धधातुकप्रत्ययेषु परेषु एजन्तानां धातूनाम्‌ आत्वं भवति | नाम आर्धधातुकप्रत्ययेषु परेषु सर्वे एजन्तधातवः आकारान्ताः एव भवन्ति |
 
<font size="4"></font><font size="4"></font>
 
आकारान्तानां (एजन्तानां च) भावकर्मप्रक्रिया
<u>आकारान्तानां (एजन्तानां च) भावकर्मप्रक्रिया</u>
<font size="4"></font><font size="4"></font>
 
 
ये सामान्याः आकारान्ताः एजन्ताः च धातवः सन्ति, तेषां कृते किमपि कार्यं नास्ति— वर्णमेलनमेव |
 
<font size="4"></font><font size="4"></font>
 
रूपाणि एवं निर्मीयन्ते—
 
<font size="4"></font><font size="4"></font>
 
घ्रा → '''भावकर्मणोः''' (१.३.१३) इत्यनेन भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति → घ्रा + ते → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन कर्मवाचके सार्वधातुके प्रत्यये परे धातुभ्यः यक्‌-प्रत्ययः → घ्रा + यक्‌ + ते → घ्रा + य + ते → घ्राय + ते → घ्रायते
 
<font size="4"></font><font size="4"></font>
 
एवमेव—
 
<font size="4"></font><font size="4"></font>
 
ध्या + यक्‌ → ध्याय → ध्यायते
 
<font size="4"></font>
ग्ला + यक्‌ → ग्लाय → ग्लायते
 
<font size="4"></font>
ध्मा + यक्‌ → ध्माय → ध्मायते
 
<font size="4"></font>
भा + यक्‌ → भाय → भायते
 
<font size="4"></font>
ला + यक्‌ → लाय → लायते
 
<font size="4"></font>
वा + यक्‌ → वाय → वायते
 
<font size="4"></font>
छा + यक्‌ → छाय → छायते
 
<font size="4"></font><font size="4"></font>
 
किन्तु आकारान्तेषु एजन्तेषु च धातुषु, द्वादश सन्ति येषाम्‌ ईकारादेशो भवति |
 
<font size="4"></font><font size="4"></font>
 
'''घुमास्थागापाजहातिसां हलि''' (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्‌), सा (षो) एषां धातूनाम्‌ आकारस्य स्थाने ईकारादेशो भवति हलादि-कि‌त्‌ङित्‌-आर्धधातुकप्रत्यये परे | '''धात्वादेः षः सः''' (६.१.६४), '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम्‌ | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''दीङो युडचि क्ङिति''' (६.४.६३) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''आतो लोप इटि च''' (६.४.६४) इत्यस्मात्‌ '''आतः''' इत्यस्य अनुवृत्तिः | '''ईद्यति''' (६.४.६५) इत्यस्मात्‌ '''ईत्‌''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम्‌ आतः अङ्गस्य ईत्‌ हलि''' '''क्ङिति आर्धधातुके''' |
 
<font size="4"></font><font size="4"></font>
 
घु-संज्ञकधातवः षट्‌ सन्ति— दो → दा, देङ्‌ → दा, डुदाञ्‌ → दा, दाण्‌ → दा, धे‌ → धा, डुधाञ्‌ → धा च |
 
<font size="4"></font><font size="4"></font>
 
यक्‌-प्रत्ययः हलादिः, कित्‌, आर्धधातुकः अतः '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इति सूत्रं प्रवर्तते | आहत्य द्वादश धातवः अन्तर्भवन्ति येषाम्‌ अनेन सूत्रेण आकारस्य ईत्वं विधीयते—
 
<font size="4"></font><font size="4"></font>
 
दा + यक्‌ → दी + य → दीय (चत्वारः धातवः)
 
<font size="4"></font>
धा + यक्‌ → धी + य → धीय (द्वौ धातू)
 
<font size="4"></font>
मा + यक्‌ → मी + य → मीय
 
<font size="4"></font>
स्था + यक्‌ → स्थी + य → स्थीय
 
<font size="4"></font>
गा + यक्‌ → गी + य → गीय
 
<font size="4"></font>
पा + यक्‌ → पी + य → पीय
 
<font size="4"></font>
हा + यक्‌ → ही + य → हीय
 
<font size="4"></font>
सा + यक्‌ → सी + य → सीय
 
<font size="4"></font><font size="4"></font>
 
लटि, लोटि, लङि, विधिलिङि च सर्वत्र यक्‌ विधीयते, अतः एषु सर्वेषु स्थलेषु यत्‌ अङ्गम्‌ उत्पद्यते तददन्तम्‌ इत्यतः प्रथमधातुगणसमूहस्य आत्मनेपदसंज्ञकतिङ्प्रत्ययाः विधीयन्ते | ते च एते—
 
<font size="4"></font><font size="4"></font>
 
आत्मनेपदिधातूनां सिद्ध-तिङ्‌प्रत्ययाः
<u>आत्मनेपदिधातूनां सिद्ध-तिङ्‌प्रत्ययाः</u>
<font size="4"></font><font size="4"></font>
 
 
लटि‌ सिद्ध-प्रत्ययाः—
 
<font size="4"></font>
ते      इते     अन्ते
 
<font size="4"></font>
से      इथे     ध्वे
 
<font size="4"></font>
ए      वहे     महे
 
<font size="4"></font><font size="4"></font>
 
लोटि‌ सिद्ध-प्रत्ययाः—
 
<font size="4"></font>
ताम्‌     इताम्‌     अन्ताम्‌
 
<font size="4"></font>
स्व      इथाम्‌      ध्वम्‌
 
<font size="4"></font>
ऐ        आवहै      आमहै
 
<font size="4"></font><font size="4"></font>
 
लङि‌ सिद्ध-प्रत्ययाः—
 
<font size="4"></font>
त       इताम्‌      अन्त
 
<font size="4"></font>
थाः     इथाम्‌      ध्वम्‌
 
<font size="4"></font>
इ        वहि         महि
 
<font size="4"></font><font size="4"></font>
 
विधिलिङि‌ सिद्ध-प्रत्ययाः—
 
<font size="4"></font>
ईत     ईयाताम्‌     ईरन्‌
 
<font size="4"></font>
ईथाः   ईयाथाम्‌    ईध्वम्‌
 
<font size="4"></font>
ईय     ईवहि        ईमहि
 
<font size="4"></font><font size="4"></font>
 
डुदाञ्‌ दाने इत्यस्य रूपाणि वक्तव्यानि कर्मणि लटि, लोटि, लङि, विधिलिङि |
 
<font size="4"></font><font size="4"></font>
 
दा + यक्‌ → दी + य → दीय + ते → दीयते
 
<font size="4"></font>
धा + यक्‌ → धी + य → धीय + ते → धीयते
 
<font size="4"></font>
मा + यक्‌ → मी + य → मीय + ते → मीयते
 
<font size="4"></font>
स्था + यक्‌ → स्थी + य → स्थीय + ते → स्थीयते
 
<font size="4"></font>
गा + यक्‌ → गी + य → गीय + ते → गीयते
 
<font size="4"></font>
पा + यक्‌ → पी + य → पीय + ते → पीयते
 
<font size="4"></font>
हा + यक्‌ → ही + य → हीय + ते → हीयते
 
<font size="4"></font>
सा + यक्‌ → सी + य → सीय + ते → सीयते
 
<font size="4"></font><font size="4"></font>
 
अनेन आकारान्तानाम्‌ एजन्तानां च भावकर्मप्रक्रिया सम्पूर्णा |
 
<font size="4"></font>
 
२. इकारान्ताः ईकारान्ताः च धातवः
 
<font size="4"></font><font size="4"></font>
 
यक्‌-प्रत्ययस्य कित्त्वात्‌ गुणनिषेधः |
 
<font size="4"></font><font size="4"></font>
 
जि + यक्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणादेशः → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → जि + यक्‌
 
<font size="4"></font><font size="4"></font>
 
'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन ''''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |
 
<font size="4"></font><font size="4"></font>
 
'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |
 
<font size="4"></font><font size="4"></font>
 
यक्‌-प्रत्ययः यकारादिः, कृत्सार्वधातुकयोः भिन्नश्च, अतः इकारान्तधातूनां दीर्घादेशो भवति |
 
<font size="4"></font><font size="4"></font>
जि + यक्‌ → जीय → जीय + ते → जीयते |
 
<font size="4"></font><font size="4"></font>
 
अनेन लटि, लोटि, लङि, विधिलिङि च रूपाणि ज्ञेयानि |
 
<font size="4"></font><font size="4"></font>
 
'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्‌-संज्ञकः अथवा सार्वधातुकम् चेत्‌ न भवति | '''अचश्च''' (१.२.२८) इत्यनेन अचः एव दीर्घत्वम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) | कृत्‌ च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अयङ्‌ यि क्ङिति''' (७.४.२२) इत्यस्मात्‌ '''यि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः अङ्गस्य''' '''दीर्घः यि''' '''अकृत्सार्वधातुकयोः''' |
 
<font size="4"></font><font size="4"></font>
 
'''अचश्च''' (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र '''अचः''' इति षष्ठ्यन्तं पदम्‌ आगत्य उपस्थितं भवति | परिभाषा-सूत्रम्‌ | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ऊकालोऽज्झ्रस्वदीर्घप्लुतः''' (१.२.२७) इत्यस्मात्‌ '''अच्‌''', '''ह्रस्वदीर्घप्लुतः''' इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, '''ह्रस्वदीर्घप्लुतैः''' ('''शब्दैः''') | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वदीर्घप्लुतैः अचः च अच्‌''' |
 
<font size="4"></font>
 
एवमेव क्षि → क्षीयते, श्रि → श्रीयते, ज्रि → ज्रीयते, रि → रीयते, पि → पीयते |
 
<font size="4"></font><font size="4"></font>
 
ईकारान्तधातूनामपि तदेव कार्यं— '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणादेशः, '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः, '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यनेन दीर्घादेशः | अनेन अन्ततो गत्वा ईकारान्तधातवः यथावत्‌ तिष्ठन्ति |
 
<font size="4"></font><font size="4"></font>
 
नी + यक् → नीय → नीय + ते → नीयते
 
<font size="4"></font><font size="4"></font>
 
भी + यक् → भीय → भीय + ते → भीयते
 
<font size="4"></font><font size="4"></font>
 
अस्य अपवादः शीङ्‌-धातुः |
 
<font size="4"></font><font size="4"></font>
 
शीङ्‌ + यक्‌ → शय्‌ + य → शय्य → शय्य + ते → शय्यते
 
<font size="4"></font><font size="4"></font>
 
अयङ्‌-आदेशः अनेकाल्‌ किन्तु ङित्‌, तस्माच्च अन्त्यादेशो भवति |
 
<font size="4"></font><font size="4"></font>
 
'''अयङ्‌ यि क्ङिति''' (७.४.२२) = शीङ्‌-धातोः अय्‌-आदेशो भवति यकारादि-कित्‌ङित्‌-प्रत्यये परे | अयङ्‌ इत्यस्मिन्‌ ङकारस्य इत्‌-संज्ञा, यकारोत्तरवर्ती अकारश्च उच्चरणार्थः | क्‌ च ङ्‌ च क्ङौ, तौ इतौ यस्य सः क्ङित्‌ द्वन्द्वगर्भो बहुव्रीहिः, तस्मिन्‌ क्ङिति | अयङ्‌ प्रथमान्तं, यि सप्तम्यन्तं, क्ङिति सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''शीङः सार्वधातुके गुणः''' (७.४.२१) इत्यस्मात्‌ '''शीङः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''शीङः अङ्गस्य अयङ्‌ यि क्ङिति''' |
 
<font size="4"></font><font size="4"></font>
 
'''ङिच्च''' (१.१.५३) = ङित्‌-आदेशः अनेकाल्‌ चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम्‌ '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इति सूत्रस्य अपवादः; '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) तु '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | ङकारः इत्‌ यस्य सः ङित्‌, बहुव्रीहिः | ङित्‌ प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्मात्‌ '''अलः''', '''अन्त्यस्य''' इत्यनयोः अनुवृत्तिः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ङिच्‌ च''' '''अन्त्यस्य अलः स्थाने''' |
 
<font size="4"></font><font size="4"></font>
 
'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) = आदेशः अनेकाल्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित्‌ चेत्‌, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | (यस्य स्थाने आदेशः आदिष्टः, सः स्थानी |) इदं सूत्रम्‌ '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः; अनेकः अल्‌ यस्य सः अनेकाल्‌ बहुब्रीहिः; शकारः इत्‌ यस्य सः शित्‌ बहुब्रीहिः; अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌ समाहारद्वन्द्वः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाल्शित्‌ सर्वस्य स्थाने''' |
 
<font size="4"></font><font size="4"></font>
 
अनेन इकारान्तानाम्‌ ईकारान्तानां च भावकर्मप्रक्रिया सम्पूर्णा |
 
<font size="4"></font><font size="4"></font>
 
३. उकारान्ताः ऊकारान्ताः च धातवः
 
<font size="4"></font><font size="4"></font>
 
यथा इकारान्ताः ईकारान्ताः, तथैव उकारान्ताः ऊकारान्ताः च | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणादेशः, '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः, '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यनेन दीर्घादेशः |
 
<font size="4"></font><font size="4"></font>
 
नु + यक् → नूय → नूय + ते → नूयते
 
<font size="4"></font><font size="4"></font>
 
अनेन लटि, लोटि, लङि, विधिलिङि च रूपाणि ज्ञेयानि |
 
<font size="4"></font><font size="4"></font>
 
एवमेव हु → हूयते (आ + हु → आहूयते), द्रु → द्रूयते इत्यादिकम्‌ |
 
<font size="4"></font><font size="4"></font>
 
ऊकारान्ताः धातवः यथावत्‌ तिष्ठन्ति—
 
<font size="4"></font>
भू → भूयते
 
<font size="4"></font>
पू → पूयते
 
<font size="4"></font>
धू → धूयते
 
<font size="4"></font>
लू → लूयते
 
<font size="4"></font><font size="4"></font>
 
अस्य अपवादः ब्रू-धातुः |
अस्य अपवादः ब्रू-धातुः
<font size="4"></font><font size="4"></font>
 
 
'''ब्रुवो वचिः''' (२.४.५३) = ब्रू-धातोः स्थाने वच्‌-आदेशो भवति आर्धधातुकविवक्षायाम्‌ | वचिः इत्यस्मिन्‌ इकारः उच्चारणार्थः | ब्रुवः षष्ठ्यन्तं, वचिः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ब्रुवो वचिः आर्धधातुके''' |
 
<font size="4"></font><font size="4"></font>
 
वच्‌ अनेकाल्‌ इत्यस्मात्‌ पूर्णतया ब्रू-स्थाने आदिष्टो भवति |
 
<font size="4"></font><font size="4"></font>
 
'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) = आदेशः अनेकाल्‌ (आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः) अथवा शित्‌ चेत्‌, सर्वस्थानिनः स्थाने भवति (न तु अन्त्यवर्णस्य) | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाल्शित्‌ सर्वस्य स्थाने''' |
 
<font size="4"></font><font size="4"></font>
 
ब्रू + यक्‌ → '''ब्रुवो वचिः''' (२.४.५३) → वच्‌ + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम्‌ → उच्‌ +य → उच्य → उच्य + ते → उच्यते |
 
<font size="4"></font><font size="4"></font>
 
अनेन उकारान्तानाम्‌ ऊकारान्तानां च भावकर्मप्रक्रिया सम्पूर्णा |
 
 
४. ऋकारान्ताः धातवः
 
<font size="4"></font><font size="4"></font>
 
सामान्यऋकारान्तानां धातूनां कृते '''रिङ् शयग्लिङ्‌क्षु''' (७.४.२८) इत्यनेन ऋकारान्तस्य अङ्गस्य रिङ्‌-आदेशो भवति यक्‌-प्रत्यये परे |
 
<font size="4"></font><font size="4"></font>
 
यथा—
 
<font size="4"></font>
कृ + यक्‌ → '''रिङ् शयग्लिङ्‌क्षु''' (७.४.२८) → क्‌ + रिङ्‌ + यक्‌ → क्रि + य → क्रिय → क्रिय + ते → क्रियते
 
<font size="4"></font>
भृ + यक्‌ → '''रिङ् शयग्लिङ्‌क्षु''' (७.४.२८) → भ्‌ + रिङ्‌ + यक्‌ → भ्रि + य → भ्रिय → भ्रिय + ते → भ्रियते
 
<font size="4"></font>
मृ + यक्‌ → '''रिङ् शयग्लिङ्‌क्षु''' (७.४.२८) → म्‌ + रिङ्‌ + यक्‌ → म्रि + य → म्रिय → म्रिय + ते → म्रियते
 
<font size="4"></font><font size="4"></font>
 
'''रिङ् शयग्लिङ्‌क्षु''' (७.४.२८) = ऋकारान्तस्य अङ्गस्य रिङ्‌-आदेशो भवति श-प्रत्यये, यक्‌-प्रत्यये, यकारादि-आर्धधातुक-लिङ्‌-प्रत्यये च परे | शश्च यक्‌ च लिङ्‌ च तेषामितरेतरद्वन्द्वः शयग्लिङः, तेषु शयग्लिङ्‌क्षु | रिङ्‌ प्रथमान्तं, शयग्लिङ्‌क्षु सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अयङ्‌ यि क्ङिति''' (७.४.२२) इत्यस्मात्‌ '''यि''', '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यस्मात्‌ '''असार्वधातुके''', '''रीङ्‌ ऋतः''' (७.४.२७) इत्यस्मात्‌ '''ऋतः''' इत्येषाम्‌ अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ऋतः अङ्गस्य रिङ्‌ यि असार्वधातुके शयग्लिङ्‌क्षु''' |
 
<font size="4"></font><font size="4"></font>
 
'''यस्मिन्‌ विधिः तदादावल्ग्रहणे''' इति परिभाषया '''यि''' नाम यकारादौ (यस्य आदौ यकारः, तस्मिन्‌ परे) | '''यि असार्वधातुके''' च लिङः विशेषणम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''ऋतः अङ्गस्य''' नाम न केवलम्‌ ऋकारस्य इत्यङ्गस्य, अप तु ऋकारान्तस्य अङ्गस्य | '''रिङ्''' ङित्‌, अतः '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य बाधकसूत्रम्‌ '''अनेकाल्‌ शित्सर्वस्य''' (१.१.५५), तत्‌ प्रबाध्य '''ङिच्च''' (१.१.५३) इति सूत्रेण आदेशः ङित्‌ चेत्‌, तर्हि अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः |
 
<font size="4"></font><font size="4"></font>
 
'''येन विधिस्तदन्तस्य''' (१.१.७२) = विशेषणं तदन्तस्य अपि भवति, स्वस्यापि भवति | परिभाषासूत्रम्‌ | सोऽन्ते यस्य स तदन्तः, तस्य तदन्तस्य बहुव्रीहिः | विधीयते इति विधिः | येन तृतीयान्तम्‌, विधिः प्रथमान्तम्‌, तदन्तस्य षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''स्वं रूपं शब्दस्याऽशब्दसंज्ञा''' (१.१.६८) इत्यस्मात्‌ '''स्वम्‌''', '''रूपम्‌''' इत्यनयोः अनुवृत्तिः | विभक्तिपरिणामः इत्यनेन षष्ठ्यन्ते भवतः, '''स्वस्य रूपस्य''' | अनुवृत्ति-सहितसूत्रम्‌— '''येन विधिः तदन्तस्य स्वस्य रूपस्य''' (च) |
 
<font size="4"></font><font size="4"></font>
 
'''ङिच्च''' (१.१.५३) = ङित्‌-आदेशः अनेकाल्‌ चेदपि अन्त्यस्य एव स्थाने भवति | इदं सूत्रम्‌ '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इति सूत्रस्य अपवादः; '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) तु '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | ङकारः इत्‌ यस्य सः ङित्‌, बहुव्रीहिः | ङित्‌ प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्मात्‌ '''अलः''', '''अन्त्यस्य''' इत्यनयोः अनुवृत्तिः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ङित्‌ च''' '''अन्त्यस्य अलः स्थाने''' |
 
<font size="4"></font><font size="4"></font>
 
अस्य द्वौ अपवादौ—
 
<font size="4"></font><font size="4"></font>
 
अ) संयोगादि-ऋकारान्तधातवः
 
<font size="4"></font><font size="4"></font>
 
'''गुणोऽर्तिसंयोगाद्योः''' (७.४.२९) इत्यनेन ऋकारान्तधातोः आदौ संयोगः अस्ति चेत्‌, धातोः गुणादेशो भवति |
 
<font size="4"></font><font size="4"></font>
 
यथा‌—
 
<font size="4"></font>
स्मृ + यक्‌ → स्म + यक्‌ → स्मर्‍ + य → स्मर्य → स्मर्य + ते → स्मर्यते
 
<font size="4"></font>
ध्वृ + यक्‌ → ध्व + यक्‌ → ध्वर्‍ + य → ध्वर्य → ध्वर्य + ते → ध्वर्यते
 
<font size="4"></font>
ह्वृ + यक्‌ → ह्व + यक्‌ → ह्वर्‍ + य → ह्वर्य → ह्वर्य + ते → ह्वर्यते
 
<font size="4"></font>
स्वृ + यक्‌ → स्व + यक्‌ → स्वर्‍ + य → स्वर्य → स्वर्य + ते → स्वर्यते
 
<font size="4"></font>
ऋ + यक्‌ → अ + यक्‌ → अर्‍ + य → अर्य → अर्य + ते → अर्यते
 
<font size="4"></font><font size="4"></font>
 
'''गुणोऽर्तिसंयोगाद्योः''' (७.४.२९) = ऋधातोः संयोगादिऋकारान्तधातोः च अङ्गस्य गुणो भवति यकि परे यकारादि-लिङि-आर्धधातुकप्रत्यये परे च | अर्ति इत्यनेन ऋ-धातुः, धातुनिर्देशे श्तिपि | ऋतः इत्यस्य विशेषणं संयोगादिः यतोहि ऋ-धातोः आदौ संयोगः न सम्भवति | अर्तिश्च संयोगादिश्च तयोरितरेतरद्वन्द्वः, अर्तिसंयोगादी, तयोः अर्तिसंयोगाद्योः | असार्वधातुके इत्यनेन आर्धधातुके | तदन्तविधिः, '''अलोऽन्त्यस्य''', तदादिविधिः इति त्रयः प्रवर्तन्ते | संयोगादिः संयोगः आदिर्यस्य सः बहुव्रीहिः | गुणः प्रथमान्तम्‌, अर्तिसंयोगाद्योः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''रीङृतः''' (७.४.२७) इत्यस्मात्‌ '''ऋतः''' इत्यस्य अनुवृत्तिः | '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यस्मात्‌ '''असार्वधातुके''' इत्यस्य अनुवृत्तिः | '''रिङ् शयग्लिङ्‌क्षु''' (७.४.२८) इत्यस्मात्‌ '''यग्लिङोः''' इत्यस्य अनुवृत्तिः ('श' इति न आनीयते यतोहि तुदादौ संयोगादिऋदन्तधातुः नास्ति एव) | '''अयङ्‌ यि क्ङिति''' (७.४.२२) इत्यस्मात्‌ '''यि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिसंयोगाद्योः ऋतः अङ्गस्य गुणः यकि यि लिङि असार्वधातुके''' |
 
<font size="4"></font><font size="4"></font>
 
आ) जागृ-धातुः
 
<font size="4"></font><font size="4"></font>
 
'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) इत्यनेन किति प्रत्यये परेऽपि गुणः—
 
<font size="4"></font><font size="4"></font>
 
जागृ + य‌क्‌ → जागर्‍ + य → जागर्य → जागर्य + ते → जागर्यते
 
<font size="4"></font><font size="4"></font>
 
'''जाग्रोऽविचिण्णल्ङित्सु''' (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्‌, णल्‌, ङित्‌ इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण्‌ इति लुङ्‌-लकारस्य, णल्‌ इति लिट्‌-लकारस्य, ङित्‌ इत्यनेन इत्‌-संज्ञकः ङकारः यस्य | वि, ङित्‌ इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्‌, णल्‌ इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | '''अचो ञ्णिति''' (७.२.११५), '''क्क्ङिति च''' (१.१.५) इत्यनयोः अपवादः | विश्च चिण्‌ च णल्‌ च ङित्‌ च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्‌, अविचिण्णल्ङित्सु सप्तम्यन्तम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''जाग्रः गुणः अविचिण्णल्ङित्सु''' |
 
<font size="4"></font><font size="4"></font>
 
५. ॠकारान्ताः धातवः
 
<font size="4"></font><font size="4"></font>
 
अ) अनोष्ठ्यपूर्व-ऋकारान्तधातवः
 
<font size="4"></font><font size="4"></font>
 
यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात्‌ प्राक्‌ यः वर्णः सः ओष्ठ्यवर्णो नास्ति नाम पवर्गीयः अथवा वकारो नास्ति, स च धातुः अनोष्ठ्यपूर्व-ऋकारान्तधातुः | यथा तॄ, जॄ, गॄ, कॄ, शॄ इत्यादयः धातवः |
 
<font size="4"></font><font size="4"></font>
 
एतादृशानां धातूनां कार्यम्‌ एवं भवति—
 
<font size="4"></font><font size="4"></font>
 
तॄ + यक्‌ → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ॠदन्तधातोः अङ्गस्य ह्रस्व-इकारादेशः → ति + य → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → तिर्‍ + य → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → तीर्‍ + य → तीर्य → तीर्य + ते → तीर्यते
 
<font size="4"></font><font size="4"></font>
 
'''ॠत इद्धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत्‌ गुणः | कित्‌-ङित्‌ भिन्नप्रत्ययः परश्चेत्‌, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ॠतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत्‌ इदं कार्यं न स्यादेव, नो चेत्‌ अनेन धातोः अपि मूलरूपं परिवर्तेत | ऋतः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, धातोः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' |
 
<font size="4"></font><font size="4"></font>
 
'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उः स्थाने अण्‌ रपरः''' |
 
<font size="4"></font><font size="4"></font>
 
'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषां ग्रहणम्‌ | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''र्वोः धातोः उपधायाः इकः दीर्घः हलि''' |
 
<font size="4"></font><font size="4"></font>
 
एवमेव—
 
<font size="4"></font>
जॄ + यक्‌ → जि + य → जिर्‍ + य → जीर् + य → जीर्य → जीर्यते
 
<font size="4"></font>
गॄ → गीर्यते,
 
<font size="4"></font>
कॄ → कीर्यते
 
<font size="4"></font>
दॄ → दीर्यते
 
<font size="4"></font>
शॄ → शीर्यते
 
<font size="4"></font><font size="4"></font>
 
आ) ओष्ठ्यपूर्व-ऋकारान्तधातवः
 
<font size="4"></font><font size="4"></font>
 
यस्य धातोः अन्तिमवर्णः दीर्घॠकारः, अपि च तस्मात्‌ प्राक्‌ यः वर्णः सः ओष्ठ्यवर्णः नाम पवर्गीयः अथवा वकारः, स च धातुः ओष्ठ्यपूर्व-ऋकारान्तधातुः | यथा पॄ, वॄ इत्यादयः धातवः |
 
<font size="4"></font><font size="4"></font>
 
एतादृशानां धातूनां कार्यम्‌ एवं भवति—
 
<font size="4"></font><font size="4"></font>
 
पॄ + यक्‌ → '''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) इत्यनेन ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशः → पु + य → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने अण्-आदिष्टः चेत्‌, सः अण्‌ सदा‌ रपरः → पुर्‍ + य → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तधातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो हलि परे → पूर्‍ + य → पूर्य → पूर्य + ते → पूर्यते
 
<font size="4"></font><font size="4"></font>
 
'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ऋकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ॠतः अङ्गस्य उत्‌''' |
 
<font size="4"></font><font size="4"></font>
 
एवमेव—
 
<font size="4"></font>
वॄ + यक्‌ → वु + य → वुर्‍ + य → वूर् + य → वूर्य → वूर्यते
 
<font size="4"></font>
भॄ → भूर्यते
 
<font size="4"></font><font size="4"></font>
 
'''b)''' हलन्तधातवः
'''b)''' <u>हलन्तधातवः</u>
<font size="4"></font><font size="4"></font>
 
 
अत्र भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि नवानां धातुगणानां (भ्वाद्यारभ्य क्र्यादियावत्‌), यत्र धातुः हलन्तः |
 
<font size="4"></font><font size="4"></font>
 
हलन्तेषु विभागचतुष्टयं— (१) सामान्यधातवः, (२) येषां धातूनां धात्वादेशाः, (३) सम्प्रसारणिधातवः, (४) अनिदित्‌-धातवः च |
 
<font size="4"></font><font size="4"></font>
 
१) सामान्यधातवः
 
<font size="4"></font><font size="4"></font>
 
'''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः वृद्धिनिषेधश्च; यक्-प्रत्ययः कित्‌, अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन आर्धधातुकप्रत्यये परे लघूपधस्य इकः प्रवर्तमानगुणो न भवति |
 
<font size="4"></font><font size="4"></font>
 
तदर्थम्‌ अङ्गकार्यं नास्ति, धातवः च यथावत्‌ तिष्ठन्ति | यथा‌—
तदर्थम्‌ अङ्गकार्यं नास्ति, धातवः च यथावत्‌ तिष्ठन्ति |
<font size="4"></font><font size="4"></font>
 
यथा‌—
 
 
पठ्‌ + यक्‌ → पठ्य → पठ्य + ते → पठ्यते
 
<font size="4"></font>
निन्द्‌ + यक्‌ → निन्द्य → निन्द्य + ते → निन्द्यते
 
<font size="4"></font>
लिख्‌ + यक्‌ → लिख्य → लिख्य + ते → लिख्यते
 
<font size="4"></font>
मुद्‌ + यक्‌ → मुद्य → मुद्य + ते → मुद्यते
 
<font size="4"></font><font size="4"></font>
 
'''पुगन्तलघूपधस्य च''' (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |
 
<font size="4"></font><font size="4"></font>
 
'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |
 
 
'''अत उपधायाः''' (७.२.११६) इति सूत्रम्‌, '''अचो ञ्णिति''' (७.२.११५) च ञिति णिति प्रत्यये परे एव, अतः यकि परे अनयोः प्रसक्तिः नास्ति एव |
 
<font size="4"></font><font size="4"></font>
 
'''अत उपधायाः''' (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |
 
<font size="4"></font><font size="4"></font>
 
'''अचो ञ्णिति''' (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य वृद्धिः ञ्णिति''' |
 
<font size="4"></font>
 
(२) येषां धातूनां धात्वादेशाः
 
<font size="4"></font><font size="4"></font>
 
अस्‌-धातुः
<u>अस्‌-धातुः</u>
<font size="4"></font><font size="4"></font>
 
 
'''अस्तेर्भूः''' (२.४.५२) इत्यनेन अस्‌‍-धातोः भू-आदेशो भवति आर्धधातुकविवक्षायाम्‌ |
 
<font size="4"></font><font size="4"></font>
 
अस्‌ + यक्‌ → '''अस्तेर्भूः''' (२.४.५२) इत्यनेन अस्‌‍-धातोः भू-आदेशः आर्धधातुकप्रत्यये परे → भू + यक्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः, '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → भूय → भूय + ते → भूयते
 
<font size="4"></font><font size="4"></font>
 
'''अस्तेर्भूः''' (२.४.५२) = अस्‌‍-धातोः भू-आदेशो भवति आर्धधातुकविवक्षायाम्‌ | '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन सर्वादेशः | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' इति वार्तिकेन (३.३.१०८, वार्तिकम्‌), धातुनिर्देशे अस्‌-धातोः श्तिप्‌-प्रत्यये परे अस्ति इति धातुः, षष्ठीविभक्तौ अस्तेः | '''आर्धधातुके''' इत्यस्य विषयसप्तमी | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्तेः भूः आर्धधातुके''' |
 
<font size="4"></font>
 
'''चक्षिङ्-धातुः'''
<u>चक्षिङ्-धातुः</u>
 
'''चक्षिङः ख्याञ्‌''' (२.४.५४) | ख्यायते | क्शायते |
 
 
'''चक्षिङ्‌ः ख्याञ्''' (२.४.५४) इत्यनेन चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्‌-आदेशः | किन्तु अत्र भाष्यकारो वदति यत्‌ '''क्शादिरयमादेशः''', इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति अधिकारे एकं वार्तिकम्‌ अस्ति '''ख्शाञः शस्य यो वा वक्तवयः''' | अनेन ख्शाञ्‌ इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत्‌ आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्‌, ख्शाञ्‌ इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्‌, अपरस्मिन्‌ पक्षे ख्शाञ्‌ |
'''चक्षिङ्‌: ख्याञ्''' (२.४.५४) इत्यनेन चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्‌-आदेशः | किन्तु अत्र भाष्यकारो वदति यत्‌ '''क्शादिरयमादेशः''', इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति अधिकारे एकं वार्तिकम्‌ अस्ति '''ख्शाञः शस्य यो वा वक्तवयः''' | अनेन ख्शाञ्‌ इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत्‌ आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्‌, ख्शाञ्‌ इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्‌, अपरस्मिन्‌ पक्षे ख्शाञ्‌ |
<font size="4"></font>
 
 
'''चक्षिङः ख्याञ्‌''' (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''चक्षिङः ख्याञ्‌''' '''आर्धधातुके''' |
 
<font size="4"></font>
 
अज्‌-धातुः
<u>अज्‌-धातुः</u>
<font size="4"></font><font size="4"></font>
 
 
'''अजेर्व्यघञपोः''' (२.४.५६) इत्यनेन अज्‌-धातोः वी-आदेशो भवति आर्धधातुकविवक्षायाम्‌, घञ्‌, अप्‌-प्रत्ययौ वर्जयित्वा |
 
<font size="4"></font><font size="4"></font>
 
अज्‌ + यक्‌ → '''अजेर्व्यघञपोः''' (२.४.५६) → वी + य → वीय + ते → वीयते
 
<font size="4"></font><font size="4"></font>
 
'''अजेर्व्यघञपोः''' (२.४.५६) = अज्‌-धातोः वी-आदेशो भवति आर्धधातुकविवक्षायाम्‌, घञ्‌, अप्‌-प्रत्ययौ वर्जयित्वा | '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन सर्वादेशः | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' इति वार्तिकेन (३.३.१०८, वार्तिकम्‌), धातुनिर्देशे अज्‌-धातोः इक्‌-प्रत्यये परे अजि इति धातुः, षष्ठीविभक्तौ अजेः | घञ्‌ च अप्‌ च तयोरितरेतरद्वन्द्वः घञपौ, न घञपौ अघञपौ, तयोरघञपोः | अजेः षष्ठ्यन्तं, वी अविभक्तिम्‌, अघञपोः सप्तम्यतं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजेः वी आर्धधातुके अघञपोः''' |
 
<font size="4"></font><font size="4"></font>
 
जन्‌, सन्‌, खन्‌ इति धातवः
<u>जन्‌, सन्‌, खन्‌ इति धातवः</u>
<font size="4"></font><font size="4"></font>
 
 
'''ये विभाषा''' (६.४.४३) इत्यनेन जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्‌-प्रत्यये परे |
 
<font size="4"></font><font size="4"></font>
 
आत्वपक्षे—
 
<font size="4"></font>
जन्‌ + यक्‌ → '''ये विभाषा''' (६.४.४३) इत्यनेन नकारस्य आत्वम्‌ → जा + य → जाय → जाय + ते → जायते
 
<font size="4"></font>
आत्वापक्षे—
 
<font size="4"></font>
जन्‌ + यक्‌ → जन्‌ + य → जन्य → जन्य + ते → जन्यते
 
<font size="4"></font><font size="4"></font>
 
एवमेव—
 
<font size="4"></font>
सन्‌ + यक्‌ → सायते, सन्यते
 
<font size="4"></font>
खन्‌ + यक्‌ → खायते, खन्यते
 
<font size="4"></font><font size="4"></font>
 
'''ये विभाषा''' (६.४.४३) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्‌-प्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | ये सप्तम्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''जनसनखनां सञ्झलोः''' (६.४.४२) इत्यस्मात्‌ '''जनसनखनाम्‌''' इत्यस्य अनुवृत्तिः | '''विड्वनोरनुनासिकस्यात्‌''' (६.४.४१) इत्यस्मात्‌ '''आत्''' इत्यस्य अनुवृत्तिः | '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''जनसनखनां अङ्गस्य आत् ये क्ङिति विभाषा''' |
 
<font size="4"></font><font size="4"></font>
 
तन्‌-धातुः
<u>तन्‌-धातुः</u>
<font size="4"></font><font size="4"></font>
 
 
'''तनोतेर्यकि''' (६.४.४४) इत्यनेन तन्‌-धातोः विकल्पेन आकारादेशो भवति यक्‌-प्रत्यये परे |
 
<font size="4"></font><font size="4"></font>
 
आत्वपक्षे—
 
<font size="4"></font>
तन्‌ + यक्‌ → ता + य → ताय → ताय + ते → तायते
 
<font size="4"></font>
आत्वापक्षे—
 
<font size="4"></font>
तन्‌ + यक्‌ → तन्‌ + य → तन्य → तन्य + ते → तन्यते
 
<font size="4"></font><font size="4"></font>
 
'''तनोतेर्यकि''' (६.४.४४) = तन्‌-धातोः विकल्पेन आकारादेशो भवति यक्‌-प्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यादेशः | तनोतेः षष्ठ्यन्तं, यकि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विङ्वनोरनुनसिकस्यात्‌''' (६.४.४१) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः | '''ये विभाषा''' (६.४.४३) इत्यस्मात्‌ '''विभाषा''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''तनोतेः आत्‌ यकि विभाषा''' |
 
<font size="4"></font><font size="4"></font>
 
(३) सम्प्रसारणिधातवः
 
<font size="4"></font><font size="4"></font>
 
यक्‌-प्रत्ययः कित्‌, अतः '''वचिस्वपियजादीनां किति''' (६.१.१५), '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इति सूत्राभ्यां सम्प्रसारणं भवति |
 
<font size="4"></font><font size="4"></font>
 
'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्‌, स्वप्‌, यज्‌, वप्‌, वह्‌, वस्‌, वद्‌, वेञ्‌, ह्वेञ्‌, श्वि, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम्‌ | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |
 
<font size="4"></font><font size="4"></font>
 
'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च''' '''सम्प्रसारणम्‌''' |
 
<font size="4"></font><font size="4"></font>
 
'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |
 
<font size="4"></font><font size="4"></font>
 
'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात्‌ पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात्‌ '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''सम्प्रसारणात्‌ च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्‌''' |
 
<font size="4"></font><font size="4"></font>
 
'''न सम्प्रसारणे सम्प्रसारणम्'''‌ (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं सम्पूर्णम्‌— '''न सम्प्रसारणे सम्प्रसारणम्'''‌ |
 
<font size="4"></font><font size="4"></font>
 
अभ्यासः—
<u>अभ्यासः</u>—
<font size="4"></font><font size="4"></font>
 
 
ग्रह्‌ + यक्‌ →
 
<font size="4"></font>
व्रश्च्‌ + यक्‌ →
 
<font size="4"></font>
प्रच्छ्‌ + यक्‌ →
 
<font size="4"></font>
भ्रस्ज्‌ + यक्‌ →
 
<font size="4"></font>
व्यध्‌ + यक्‌ →
 
<font size="4"></font>
व्यच्‌ + यक्‌ →
 
<font size="4"></font>
वच्‌ + यक्‌ →
 
<font size="4"></font>
स्वप्‌ + यक्‌ →
 
<font size="4"></font>
यज्‌ + यक्‌ →
 
<font size="4"></font>
वप्‌ + यक्‌ →
 
<font size="4"></font>
वह्‌ + यक्‌ →
 
<font size="4"></font>
वद्‌ + यक्‌ →
 
<font size="4"></font>
वश्‌ + यक्‌ →
 
<font size="4"></font><font size="4"></font>
 
'''शासिवसिघसीनाञ्च''' (८.३.६०) = शास्‌, वस्‌, घस्‌ इत्येषां धातूनाम्‌ इण्‌-प्रत्याहारस्थवर्णोत्तरस्य कवर्गीयवर्णोत्तरस्य च सकारस्य षत्वादेशो भवति | सकारः आदेशस्य प्रत्ययस्य च अवयवः नास्ति इति कारणेन '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वं न सम्भवति; तस्माच्च अस्य सूत्रस्य आवश्यकता | शासिश्च वसिश्च घसिश्च तेषामितरेतरद्वन्द्वः, शासिवसिघसयः, तेषां शासिवसिघसीनाम् | शासिवसिघसीनां षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सहेः साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यस्मात्‌ '''मूर्धन्यः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अनुवृत्तिः | '''इण्कोः''' (८.३.५७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''शासिवसिघसीनां च इण्कोः सः मूर्धन्यः संहितायाम्‌''' |
 
<font size="4"></font><font size="4"></font>
 
वस्‌ + यक्‌ → '''वचिस्वपियजादीनां किति''' (६.१.१५) → उस्‌ + यक्‌
 
<font size="4"></font>
 
'''हलः''' (६.४.२) = अङ्गावयवात्‌ हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्‌-वर्णः अङ्गस्य अवयवः, तस्मात्‌ परे स्थितं यत्‌ अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात्‌ '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात्‌ '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |
 
<font size="4"></font>
 
'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्‌-संज्ञकः अथवा सार्वधातुकम् चेत्‌ न भवति | अनुवृत्ति-सहितसूत्रम्‌— '''अचः अङ्गस्य''' '''दीर्घः यि''' '''अकृत्सार्वधातुकयोः''' |
 
 
'''हलः''' (६.४.२) अन्तरङ्गसूत्रम् अस्ति अतः बलवत् अस्ति '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यस्य अपेक्षया |
 
<font size="4"></font>
 
ज्या + यक्‌ → जि + आ + यक्‌ → जि + यक्‌ → '''हलः''' (६.४.२) → जी + यक्‌ → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) → जी + यक्‌ → जीय + ते → जीयते
 
<font size="4"></font>
व्येञ्‌ + यक्‌ →
 
<font size="4"></font>
वेञ्‌ + यक्‌ →
 
<font size="4"></font>
ह्वेञ्‌ + यक्‌ →
 
<font size="4"></font>
श्वि + यक्‌ →
 
<font size="4"></font><font size="4"></font>
 
४) अनिदितः धातवः
 
<font size="4"></font><font size="4"></font>
 
'''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन अनिदितां हलन्तानां धातूनाम्‌ उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति प्रत्यये परे | यक्‌ तु कित्‌, अतः यकि अनिदितां धातूनां उपधा-स्थितस्य नकारस्य लोपः |
 
<font size="4"></font><font size="4"></font>
 
'''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |
 
<font size="4"></font><font size="4"></font>
 
पाणिनेः धातुपाठे अनिदित्‌-धातवः इमे—
 
<font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font>
{| class="wikitable"
|अञ्च्
Line 609 ⟶ 776:
|
|}
 
<font size="4"></font><font size="4"></font>
 
यकि परे उपधास्थितनकारलोपः | यथा—
 
<font size="4"></font><font size="4"></font>
 
स्कन्द्‌ + यक्‌ → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन किति परे नलोपः → स्कद्‌ + य → स्कद्य → स्कद्य + ते → स्कद्यते |
 
<font size="4"></font><font size="4"></font>
 
एवमेव सर्वेषां अनिदितां हलन्तानां भावकर्मणि तिङन्तरूपाणि वक्तव्यानि |
 
अनेन भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि नवानां धातुगणानां (भ्वाद्यारभ्य क्र्यादियावत्‌) समग्रचिन्तनं सम्पूर्णाम्‌ |
 
<font size="4"></font><font size="4"></font><font size="4"></font>
 
 
Swarup – Sept 2017
Line 623 ⟶ 794:
<nowiki>---------------------------------</nowiki>
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
teachers
247

edits