7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung: Difference between revisions
7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung (view source)
Revision as of 20:29, 7 June 2021
, 2 years agono edit summary
No edit summary |
Gargi Dixit (talk | contribs) No edit summary |

Line 457:

पठ्-धातुः सेट् | रूपाणि परिशीलनीयानि |
च्-धातुः अनिट् | रूपाणि परिशीलनीयानि |
Line 662 ⟶ 664:

डुलभष्-धातोः (भ्वादौ, अनिट्) रूपाणि परिशीलनीयानि |

Line 668 ⟶ 671:

'''मितां ह्रस्वः''' (६.४.९२) = मित्-धातूनाम् उपधायाः स्वरः ह्रस्वः भवति, णिच्-प्रत्यये परे | मित् कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम् | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात् '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''मिताम् अङ्गानाम् उपधायाः ह्रस्वः णौ''' |

Line 674 ⟶ 678:

'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् | णिच् विधायकं सूत्रम् | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः (प्रयोजकः) क्रियायाः हेतुः; तस्मिन् (प्रयोजके) हेतुः अस्ति अतः सः हेतुमान् | अस्यां स्थितौ (नाम यस्यां स्थितौ हेतुमान् प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति)—अस्यां स्थितौ धातोः णिच्-प्रत्ययः विधीयते | अनुवृत्ति-सहितसूत्रं— '''हेतुमति च धातोः णिच् प्रत्ययः परश्च''' |

Line 680 ⟶ 685:

'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अतो लोपः''' (६.४.४८) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''णेः लोपः अनिटि आर्धधातुके''' |

Line 686 ⟶ 692:

'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' |

'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तम्, वलादेः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् वलादेः आर्धधातुकस्य इट्''' |
'''प्रत्ययलोपे प्रत्ययलक्षणम् ('''१'''.'''१'''.'''६२''') =''' प्रत्यये लुप्ते सति''',''' प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात् '''|''' प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः''',''' तस्मिन् प्रत्ययलोपे '''|''' प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम्''',''' बहुव्रीहिः '''|''' सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम् |'''
'''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत् भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव— 'स्थानिवत्' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन् इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन् पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात् '''स्थानिवत्''', '''आदेशः''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्— '''अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ''' |
'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रे भागद्वयम् अस्ति—
Line 704 ⟶ 717:
शमु-धातोः (दिवादौ, सेट्) रूपाणि परिशीलनीयानि | '''जनीजॄष्क्नसुरञ्जोऽमन्ताश्च''' इति गणसूत्रेण मिद्वद्भावात् शम्-धातुः मित्संज्ञकः |
१) १)
शम् + णिच् → '''अत उपधायाः''' (७.२.११६) → शाम् + इ → '''मितां ह्रस्वः''' (६.४.९२) → शम् + इ -> शमि इति धातुः

Line 723 ⟶ 734:

परन्तु भाष्यकारस्य मतेन '''णाविति जातिपरो निर्देशः''' | '''दीर्घग्रहणं चेदं मास्त्विति तदाशयः'''। फलितार्थः अस्ति यत् भाष्यकारः '''पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रे 'दीर्घ'-शब्दस्य प्रत्याख्यानं करोति | नाम तस्मिन् सूत्रे दीर्घ-शब्दः न भवेत् एव | इति चेत्, '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) कार्यं करिष्यति अत्र |
(चुरादिगणीयधातुषु यत्र णिच्-प्रत्ययद्वयं वर्तते, तत्र स्वार्थे णिच्-प्रत्ययः '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इति सूत्रस्य कृते व्यवधानम् अस्ति | तस्य च व्यवधानस्य निवारणार्थं दीर्घविधौ चिण्परकः, ण्मुलपरकः णि इत्यत्र णि इत्यस्य जातिपरकः इत्यर्थः | नाम चिण्णमुलपरक-णित्व-जातिः परः अस्ति चेत् | अनेन एकसमात् अधिकवारं णिच् अस्ति चेदपि णिच्-जातिः एकः एव इति कृत्वा व्यवधानं नास्ति | अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन स्थानिवद्भावेन चिण्णमुलोदीर्घोन्यतरस्याम् इति सूत्रेण दीर्घत्वं विदधाति |)
इदुपधधातवः
Line 755 ⟶ 770:

कुट्, पुट्, कुच्, गुज्, गुड्, छुर्, स्फुट्, मुट्, त्रुट्, तुट्, चुट्, छुट्, जुट्, लुठ्, कृड्, कुड्, पुड्, घुट्, तुड्, थुड्, स्थुड्, स्फुर्, स्फुल्, स्फुड्, चुड्, व्रुड्, क्रुड्, मृड्, गुर्
कुट्-धातोः रूपाणि परिशीलनीयानि |▼
▲कुट्-धातोः रूपाणि परिशीलनीयानि |