7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung: Difference between revisions
7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung (view source)
Revision as of 17:47, 12 June 2021
, 2 years agono edit summary
Gargi Dixit (talk | contribs) No edit summary |
Gargi Dixit (talk | contribs) No edit summary |

Line 78:
किन्तु लुङ्-लकारे कर्तरिप्रयोगे द्वादश प्रकारकाः प्रत्ययाः सन्ति—
१. सिच्-प्रत्ययस्य लुक् (सिज्लुक्) इत्यनेन निष्पन्नाः प्रत्ययाः = परस्मैपदे एव
Line 96 ⟶ 98:
अनेन अवगम्यते यत् लुङ्-लकारस्य भावे कर्मणि च क्स-प्रत्ययेन, सिच्-प्रत्ययेन एव सिद्धतिङ्प्रत्ययाः भवन्ति | लुङ्-लकारे सामान्यधातूनां कृते कर्त्रर्थे यस्य यस्य धातोः यत् यत् तिङन्तरूपं भवति, तस्य तस्य धातोः तत्तदेव तिङन्तरूपं भवति कर्मणि भावे च | केवलं स्मर्तव्यं यत् अत्र '''भावकर्मणोः''' (१.३.१३) इत्यनेन तिबादयः प्रत्ययाः आत्मनेपदिनः एव भवन्ति |
लुङ्-लकारे केचन विशिष्टधातवः सन्ति येषां कृते विशेषनियमाः सन्ति | तेषां रूपाणि कथं भवन्ति इति अग्रे प्रदर्श्यते |
Line 105 ⟶ 109:

शलन्तेषु १७ शलन्त-इगुपध-अनिट्-धातवः | एषां सप्तदशानां धातूनां कर्मणि भावे च रूपाणि भवन्ति क्स-प्रत्ययेन निष्पन्नैः प्रत्ययैः—
क्रुश्, दिश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृश्, कृष्, त्विष्, द्विष्, श्लिष्, मिह्, रुह्, लिह्, दिह्, दुह् |
Line 119 ⟶ 125:
कर्त्रर्थे क्स-प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे—
सत साताम् सन्त
Line 125 ⟶ 133:
सि सावहि सामहि

Line 132 ⟶ 141:
'''अतो दीर्घो यञि''' (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ् प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; '''यस्मिन् विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम् २९) इत्यनेन '''यञि सार्वधातुके''' इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्— '''अतः अङ्गस्य दीर्घः यञि सार्वधातुके''' |
लुङ्-लकारे सर्वदा च्लि-प्रत्ययः विधीयते '''च्लि लुङि''' (३.१.४३) इति सूत्रेण; तदा च्लि-स्थाने विभिन्नाः आदेशाः भवन्ति | तेषु अन्यतमः अस्ति क्स इति आदेशः; तस्य च 'स' इति अवशिष्यते | उपरितनेषु प्रत्ययेषु सर्वत्र आरम्भे अयं 'स' दृश्यते |
Line 138 ⟶ 149:
कर्मणि भावे च '''चिण् भावकर्मणोः''' (३.१.६६) इत्यनेन लुङ्-लकारे आत्मनेपदे प्रथमपुरुषैकवचने त-प्रत्यये परे, सर्वेभ्यः धातुभ्यः चिण्-प्रत्यययो भवति |
'''चिण् भावकर्मणोः''' (३.१.६६) = भावे कर्मणि च्लि-स्थाने चिण्-आदेशो भवति त-शब्दे परे | चकारणकारयोः इत्-संज्ञा लोपश्च; 'इ' अवशिष्यते | भावश्च कर्म च भावकर्मणी, तयोर्भावकर्मणोः | चिण् प्रथमान्तं, भावकर्मणोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''च्लेः सिच्''' (३.१.४४) इत्यस्मात् '''च्लेः''' इत्यस्य अनुवृत्तिः | '''चिण् ते पदः''' (३.१.६०) इत्यस्मात् '''ते''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''च्लेः चिण् ते भावकर्मणोः''' |
तदा '''चिणो लुक्''' (६.४.१०४) इत्यनेन त-शब्दस्य लुक्
'''चिणो लुक्''' (६.४.१०४) = चिणः उत्तरस्य (त-शब्दस्य) लुक् भवति | अनेन 'इ' एव अवशिष्यते | चिणः पञ्चम्यन्तं, लुक् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''अङ्गस्य चिणो लुक्''' |
Line 147 ⟶ 164:

प्रथमपुरुषैकवचनं विहाय सर्वे तिङ्प्रत्ययाः कर्त्रर्थे यथा भवन्ति,
इ (चिण्) साताम् सन्त
Line 158 ⟶ 177:
क्स कित् अतः '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | चिण् न गित्, कित् न वा ङित् अतः तस्मिन् परे गुणनिषेधो नास्ति; तत्र '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणो भवति |
क्रुश्-धातोः रूपाणि—
Line 182 ⟶ 203:
एवमेव दिश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृश्, कृष्, त्विष्, द्विष्, श्लिष् इत्येषां रूपाणि भवन्ति |
मिह्, रुह्, लिह्, दिह्, दुह् एते धातवः हकारान्ताः | एषु मिह्, रुह् इति सामान्यहकारान्तधातवः; दिह्, दुह् इति दकारादिहकारान्तधातवः | दिह्, दुह्, लिह् इत्येषां पुनः पृथक्तया कुत्रचित् क्स-प्रत्ययस्य विकल्पेन लोपो भवति |
Line 188 ⟶ 211:
मिह्-धातोः रूपाणि—
अमेहि अमिक्षाताम् अमिक्षन्त
Line 195 ⟶ 220:
अमिक्षि अमिक्षावहि अमिक्षामहि

दुह्-धातोः रूपाणि—
अदोहि अधुक्षाताम् अधुक्षन्त
Line 268 ⟶ 295:

गुह्-धातोः सेट्-पक्षे रूपाणि—
अगोहि अगूहिषाताम् अगूहिषत
Line 327 ⟶ 356:
एषां रूपाणां निष्पादनार्थं प्रथमतया प्रत्ययस्य अभिज्ञानं भवेत्; प्रत्ययस्य स्वभावम् अनुसृत्य एव अङ्गकार्यं प्रवर्तनीयं भवति—
१) चिण्-प्रत्ययः णित् इति कारणतः णित्त्वात् यावत् कार्यं शास्त्रे भवति तत् सर्वम् अत्रापि भवेत् | अस्मिन् पाठे, लृट्, लृङ्, लुट्, आशीर्लिङ इत्येषां प्रसङ्गेऽपि एतादृशमेव चिन्तनं साधितम् आसीत् | अधुना लुङ्-प्रसङ्गेऽपि भवति |▼
▲१) चिण्-प्रत्ययः णित् इति कारणतः णित्त्वात् यावत् कार्यं शास्त्रे भवति तत् सर्वम् अत्रापि भवेत् | अस्मिन् पाठे, लृट्, लृङ्, लुट्, आशीर्लिङ इत्येषां प्रसङ्गेऽपि एतादृशमेव चिन्तनं साधितम् आसीत् | अधुना लुङ्-प्रसङ्गेऽपि भवति |
२) अवशिष्टाः १६ प्रत्ययाः णित् न सन्ति | तेषु परेषु, कर्तृवाच्य-आत्मनेपदे या प्रक्रिया भवति, यया च यानि रूपाणि निष्पद्यन्ते, सा एव प्रक्रिया तानि एव रूपाणि कर्मवाच्य-आत्मनेपदे अपि भवन्ति | अतः कर्तरि लुङि एतत् सर्वं पठिष्यते |
Line 375 ⟶ 403:

"हेर्धिभावे चकास् धि इति स्थिते 'धि चे'ति सलोप इति सिद्धान्तः | तत्र मतान्तरमाह—सिच एवेत्येके इति | 'धिचे'ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः | 'धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन'मिति वार्तिकादिति तदाशयः | अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः | तदाह— चकाद्धीति | 'एके' इत्यस्वरसोद्भावनम् | तद्बीजं तु 'धिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि चे' ति लोपस्याभ्युपगमः | तदाह– चकाधीत्येव भाष्यमिति |"▼
▲"हेर्धिभावे चकास् धि इति स्थिते 'धि चे'ति सलोप इति सिद्धान्तः | तत्र मतान्तरमाह—सिच एवेत्येके इति | 'धिचे'ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः | 'धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन'मिति वार्तिकादिति तदाशयः | अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः | तदाह— चकाद्धीति | 'एके' इत्यस्वरसोद्भावनम् | तद्बीजं तु 'धिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि चे' ति लोपस्याभ्युपगमः | तदाह– चकाधीत्येव भाष्यमिति |"

Line 383 ⟶ 410:

अत्र इमे दृष्टान्ताः अवलोकनीयाः—
चकास् + धि → '''धि च''' (८.२.२५) इत्यनेन सकारस्य लोपः → चका + धि → वर्णमेलने → चकाधि
Line 685 ⟶ 714:
'''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) = चिण्परके णमुल्परके च णौ परे मिताम् अङ्गानाम् उपधादीर्घो भवति अन्यतरस्याम् | चिण् च णमुल् च तयोरितरेतरद्वन्द्वः चिण्णमुलौ, तयोः चिण्णमुलोः | चिण्णमुलोः सप्तम्यन्तं, दीर्घः प्रथमान्तम्, अन्यतरस्यां सप्तमीप्रतिरूपकमव्ययं, त्रिपदमिदं सूत्रम् | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात् '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात् '''णौ''' इत्यस्य अनुवृत्तिः | '''मितां ह्रस्वः''' (६.४.९२) इत्यस्मात् '''मिताम्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''मिताम् अङ्गानाम् उपधायाः दीर्घः णौ चिण्णमुलोः अन्यतरस्याम्''' |

Line 706 ⟶ 735:
'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रे भागद्वयम् अस्ति—
१) आदेशः स्थानिवत् भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |
Line 713 ⟶ 740:
२) कश्चन विधिः आदेशस्य अनन्तरं भवति चेत्, अपि च स च विधिः स्थानि-सम्बद्ध-अल्-वर्णम् आश्रित्य प्रवर्तनीयः इति चेत्, आदेशः स्थानिवत् न भवति |
शमु-धातोः (दिवादौ, सेट्) रूपाणि परिशीलनीयानि | '''जनीजॄष्क्नसुरञ्जोऽमन्ताश्च''' इति गणसूत्रेण मिद्वद्भावात् शम्-धातुः मित्संज्ञकः |▼
शम् + णिच् → '''अत उपधायाः''' (७.२.११६) → शाम् + इ → '''मितां ह्रस्वः''' (६.४.९२) → शम् + इ -> शमि इति धातुः

▲शमु-धातोः (दिवादौ, सेट्) रूपाणि परिशीलनीयानि | '''जनीजॄष्क्नसुरञ्जोऽमन्ताश्च''' इति गणसूत्रेण मिद्वद्भावात् शम्-धातुः मित्संज्ञकः |
शमि → लुङि अडागमः → अशमि → कर्मणि चिण् → अशमि + इ → '''णेरनिटि''' (६.४.५१) → अशम् + इ → '''अत उपधायाः''' (७.२.११६) → '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) → '''अशास्त्रीयम्''' → '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) → अशम् + इ → '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) → अल्विधिः → '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) → '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) → अशमि / अशामि▼
'''णेरनिटि''' (६.४.५१), '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इत्यनयोः युगपत् प्रसक्तिः | मार्गद्वयेण द्वयोः मध्ये '''णेरनिटि''' (६.४.५१) इति सूत्रस्य कार्यं प्रथमं— (१) नित्यत्वात्; (२) '''ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन''' इति वार्तिकेन |▼
▲शम् + णिच् → '''अत उपधायाः''' (७.२.११६) → शाम् + इ → '''मितां ह्रस्वः''' (६.४.९२) → शम् + इ -> शमि इति धातुः

▲शमि → लुङि अडागमः → अशमि → कर्मणि चिण् → अशमि + इ → '''णेरनिटि''' (६.४.५१) → अशम् + इ → '''अत उपधायाः''' (७.२.११६) → '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) → '''अशास्त्रीयम्''' → '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) → अशम् + इ → '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) → अल्विधिः → '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) → '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) → अशमि / अशामि
▲'''णेरनिटि''' (६.४.५१), '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इत्यनयोः युगपत् प्रसक्तिः | मार्गद्वयेण द्वयोः मध्ये '''णेरनिटि''' (६.४.५१) इति सूत्रस्य कार्यं प्रथमं— (१) नित्यत्वात्; (२) '''ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन''' इति वार्तिकेन |
'''ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन''' इति वार्तिकेन इयङ्, यण्, गुणः, वृद्धिः, '''दीर्घः''' इत्येषां कार्याणां '''णिलोपेन''' अत्-लोपेन सह '''युगपत्''' प्राप्त्यवसरे '''पूर्वविप्रतिषेधः णिलोपः''' अल्लोपः च '''बलवन्तौ''' भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं '''पूर्वसूत्रं चेदपि तस्य बलं भवति''' | अनेन वार्तिकेन णेरनिटि प्रथमं कार्यं करोति।
Line 743 ⟶ 778:

रिच्-धातोः (रिचिर् रुधादौ, अनिट्), लिख्-धातोः (लिख तुदादौ, सेट्) च रूपाणि परिशीलनीयानि |

Line 767 ⟶ 800:
कुटादिहलन्तधातवः सर्वे सेटः—
कुट्, पुट्, कुच्, गुज्, गुड्, छुर्, स्फुट्, मुट्, त्रुट्, तुट्, चुट्, छुट्, जुट्, लुठ्, कृड्, कुड्, पुड्, घुट्, तुड्, थुड्, स्थुड्, स्फुर्, स्फुल्, स्फुड्, चुड्, व्रुड्, क्रुड्, मृड्, गुर्▼
▲कुट्, पुट्, कुच्, गुज्, गुड्, छुर्, स्फुट्, मुट्, त्रुट्, तुट्, चुट्, छुट्, जुट्, लुठ्, कृड्, कुड्, पुड्, घुट्, तुड्, थुड्, स्थुड्, स्फुर्, स्फुल्, स्फुड्, चुड्, व्रुड्, क्रुड्, मृड्, गुर्
Line 824 ⟶ 857:

'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तम्, वलादेः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् वलादेः आर्धधातुकस्य इट्''' |
अनेन लुङ्-लकारः कर्मणि भावे च इति पाठः समाप्तः |