page_and_link_managers, Administrators
5,162
edits
No edit summary |
No edit summary |
||
(108 intermediate revisions by 2 users not shown) | |||
Line 1:
{{DISPLAYTITLE:11B - ल्यप्-प्रत्ययः}}
{| class="wikitable sortable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि
|-
|'''<big>2024 वर्गः</big>'''
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/392_lyap-pratyayaH---paricayaH_2024-01-23.mp3 lyap-pratyayaH---paricayaH_2024-01-23]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/393_lyap-pratyayaH---AkArAnta-ejantAH-ca-samprasAraNi-dhAtavaH_2024-01-30.mp3 lyap-pratyayaH---AkArAnta-ejantAH-ca-samprasAraNi-dhAtavaH_2024-01-30]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/394_lyap-pratyayaH---AkArAnta-ejantAH--dhAtavaH_%2B_ikArAnta-dhAtavaH_2024-02-06.mp3 lyap-pratyayaH---AkArAnta-ejantAH--dhAtavaH_+_ikArAnta-dhAtavaH_2024-02-06]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/395_lyap-pratyayaH---ikArAnta-dhAtavaH---shvi-dhAtuH_%2B_Chatva-sandhiH_%2B_mi-dhAtuH_2024-02-13.mp3 lyap-pratyayaH---ikArAnta-dhAtavaH---shvi-dhAtuH_+_Chatva-sandhiH_+_mi-dhAtuH_2024-02-13]</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/396_lyap-pratyayaH---i-ii-u-U-Ru-RukArAnta-dhAtavaH_2024-02-20.mp3 lyap-pratyayaH---i-ii-u-U-Ru-RukArAnta-dhAtavaH_2024-02-20]</big>
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/397_lyap-pratyayaH---RukArAnta-dhAtavaH_%2B_halantadhAtavaH---dhAtvAdeshaH--%E0%A4%85%E0%A4%B8%E0%A5%8D%E2%80%8C-%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E2%80%8C-%E0%A4%85%E0%A4%9C%E0%A5%8D%E2%80%8C-%E0%A4%95%E0%A5%83%E0%A4%AA%E0%A5%8D%E2%80%8C-%E0%A4%9C%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%96%E0%A4%A8%E0%A5%8D%E2%80%8C_2024-02-27.mp3 lyap-pratyayaH---RukArAnta-dhAtavaH_+_halantadhAtavaH---dhAtvAdeshaH--अस्-चक्ष्-अज्-कृप्-जन्-सन्-खन्_2024-02-27]</big>
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/398_lyap-pratyayaH---halantadhAtavaH---sAmAnyAH-ca-vishiShTAH-ca_%2B_%E0%A4%9C%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%96%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_anunAsikAnta-dhAtavaH_2024-03-05.mp3 lyap-pratyayaH---halantadhAtavaH---sAmAnyAH-ca-vishiShTAH-ca_+_जन्-सन्-खन्_+_anunAsikAnta-dhAtavaH_2024-03-05]</big>
|-
|<big>८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/399_lyap-pratyayaH---anunAsikAnta-dhAtavaH_%2B_samprasAraNi-halantadhAtavaH_2024-03-19.mp3 lyap-pratyayaH---anunAsikAnta-dhAtavaH_+_samprasAraNi-halantadhAtavaH_2024-03-19]</big>
|-
|<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/400_lyap-pratyayaH---anidit-dhAtavaH_%2B_skand-syand-dhAtU_%2B_NijantadhAtavaH_2024-03-26.mp3 lyap-pratyayaH---anidit-dhAtavaH_+_skand-syand-dhAtU_+_NijantadhAtavaH_2024-03-26]</big>
|-
|<big>१०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/401_lyap-pratyayaH---anidit-dhAtavaH_%2B_NijantadhAtavaH_2024-04-02.mp3 lyap-pratyayaH---anidit-dhAtavaH_+_NijantadhAtavaH_2024-04-02]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/402_lyap-pratyayaH---NijantadhAtavaH_2024-04-09.mp3 ११) lyap-pratyayaH---NijantadhAtavaH_2024-04-09]</big>
|-
|<big>२१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/403_lyap-pratyayaH---sanantadhAtavaH_%2B_lyabanta-samagraH-abhyAsaH_2024-04-16.mp3 lyap-pratyayaH---sanantadhAtavaH_+_lyabanta-samagraH-abhyAsaH_2024-04-16]</big>
|}
=== '''<u><big>ल्यप्-प्रत्ययः</big></u>''' ===
<big>धातुतः सर्वे विधीयमानाः प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र '''धातोः''', '''प्रत्ययः''' इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत् आरम्भे तिङ्-प्रत्ययाः सर्वे सार्वधातुकाः, '''तिङ्शित्सार्वधातुकम्''' (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम् अवलोकयाम— '''धातोः परश्च तिङ्-शित् प्रत्ययः सार्वधातुकम्''' | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात् | (धातुतः विहितः नास्ति चेत्, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्, तिङ् चेत् सार्वधातुकम् इति सामान्यतया निश्चितम् | लिट्लकारे आशीर्लिङ्लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति | परन्तु कृत् चेत्, किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्; कृत् शित् अस्ति चेदेव सार्वधातुकः | कृत्-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्, चानश्, शानन्, खश्, श, एश्, शध्यै, शधैन् इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच् च | अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकाः, '''आर्धधातुकं शेषः''' (३.४.११४) इति सूत्रेण | तेषु शित्त्वाभावात् क्त्वा-प्रत्ययः अपि अस्ति, ल्यप्-पत्ययः अपि अस्ति |</big>
<big>अस्य महत्त्वम् अस्माभिः परिशीलितं पूर्वमेव बहुत्र, तिङ्-प्रसङ्गे, कृत्-प्रसङ्गे च | प्रत्ययः सार्वधातुकः चेत्, '''कर्तरि शप्''' (३.१.६८) इति सूत्रेण कर्त्रर्थे धातु-प्रत्यययोः मध्ये धातुगणनिमित्तक-विकरणप्रत्ययः विहितो भवति | अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते | ल्यप्-प्रत्ययः यतोहि सार्वधातुकसज्ञकः नास्ति, तदर्थं शबादि-प्रत्ययाः न विधीयन्ते अतः धातुगणचिन्तनं नापेक्षितम् |</big>
<big>आर्धधातुकत्वात् इडागमचिन्तनमपेक्षितम् | परन्तु ल्यप्-प्रत्ययः यकारादिः | एतावता अनेके यकारादयः प्रत्ययाः अधीताः | यक् (कर्मणि यक्, यासुट् (आशीर्लिङ्-लकारः परस्मैपदे), यङन्तेषु, यङ्लुगन्तेषु च अस्माभिः दृष्टं यत् यकारः यतोहि वल्-प्रत्याहारे नास्ति, अतः '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन सूत्रेण इडागमः न विधीयते |</big>
==== <big>'''आर्धधातुकस्येड्वलादेः''' (७.२.३५)</big> ====
<big>'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गात् वलादेः आर्धधातुकस्य इट्''' |</big>
=== <big>चतुर्दश वर्गाः</big> ===
<big>यत्र यत्र कृत्-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम् आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—</big>
<big>१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |</big>
Line 42 ⟶ 84:
<big>१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्, शीक्, बुक्क्, अञ्च् इत्यादयः |</big>
'''<big><u>ल्यप्-प्रत्ययः</u></big>'''
=== <big>'''समासेऽनञ्पूर्वे क्त्वो ल्यप्''' (७.१.३७)</big> ===
<big>'''समासेऽनञ्पूर्वे क्त्वो ल्यप्''' (७.१.३७) = यस्मिन् समासे पूर्वपदं नञ्-भिन्न-अव्ययं भवति, तस्मिन् धातोः परस्य क्त्वा-प्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति | सिद्धान्तकौमुद्याम्—अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् | न नञ् अनञ्, अनञ् पूर्वं यस्मिन् स अनञ्पूर्वः, तस्मिन् | अनञ् इत्यनेन पर्युदासप्रतिषेधः | नञ्-भिन्नं नञ्-सदृशं पदम्, इत्युक्ते अव्ययं स्यात् किन्तु नञ् इति अव्ययं न स्यात् | समासे सप्तम्यन्तम्, अनञ्पूर्वे सप्तम्यन्तं, क्त्वः षष्ठ्यन्तं, ल्यप् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''समासे अनञ्पूर्वे क्त्वः ल्यप्''' |</big>
<big>ल्यप्-प्रत्ययः विधीयते क्त्वा-प्रत्ययस्य स्थाने | क्त्व-प्रत्ययः कित् अतः '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन ल्यप् इति प्रत्यये कित्त्वम् अध्यारोपितो भवति | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण आदेशः स्थानिवत् भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |</big>
<big>जानीमः यत् यदा कोऽपि एकः एव कर्ता एकां क्रियां कृत्वा अन्यां क्रियां करोति तदा प्रथमा क्रिया येन धातुना व्यक्ता, तस्य धातोः क्त्वा-प्रत्ययः भवति | परन्तु यदि धातोः पूर्वम् उपसर्गः अस्ति, इत्युक्ते यदि समासः अस्ति अपि च पूर्वपदं नञ्-भिन्नम् अव्ययमस्ति, तर्हि क्त्वा-प्रत्ययस्य स्थाने ल्यप्-प्रत्ययः विहितो भवति | यथा गत्वा किन्तु आगत्य, पठित्वा किन्तु प्रपठ्य, लङ्घित्वा किन्तु उल्लङ्घ्य |</big>
<big>अपि च यदि तच्च अव्ययं नञ् इति निषेधवाचकम् अव्ययमस्ति (’अ’ अथवा ’अन्’), तर्हि क्त्वा-प्रत्ययः एव तिष्ठति; ल्यप्-प्रत्ययः तत्र न विधीयते | यथा कृत्वा → अकृत्वा, पठित्वा → अपठित्वा, अशित्वा → अनशित्वा इत्यादीनि रूपाणि |</big>
<big>वेदे च विशेषः वर्तते—</big>
==== <big>'''क्त्वापिच्छन्दसि''' (७.१.३८)</big> ====
<big>'''क्त्वापिच्छन्दसि''' (७.१.३८) इत्यनेन वेदे अनञ्पूर्वे समासे क्त्वा-प्रत्ययस्य स्थाने विकल्पेन ल्यप्-प्रत्ययः भवति |</big>
<big>वेदे उपसर्गः अस्ति चेदपि क्त्वा-प्रत्ययः, यथा—कृष्णं वासो यजमानं परिधापयित्वा | प्रत्यञ्च्यमर्कं प्रत्यर्थयित्वा |</big>
<big>वेदे उपसर्गे सति ल्यप्-प्रत्ययः, यथा—उद्धृत्य जुहोति |</big>
<big>वेदे समासाभावे अपि ल्यपः व्यवहारः लभ्यते, यथा— अर्च्य तान् देवान् गतः |</big>
=== '''<big><u>ल्यप्-प्रत्ययस्य
<big>ल्यप्-प्रत्यये '''लशक्वतद्धिते''' इत्यनेन लकारस्य इत्-सज्ञा, '''हलन्त्यम्''' इत्यनेन पकारस्य इत्-सज्ञा, '''तस्य लोपः''' इत्यनेन द्वयोः लोपः | अवशिष्यते ’य’ इत्येव |</big>
==== '''<big><u>ल्यप्-प्रत्ययस्य स्वभावः</u></big>''' ====
<big>यथोक्तं ल्यप्-प्रत्ययस्य कित्त्वं भवति '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण यतोहि क्त्वा-प्रत्ययस्य स्थाने आदिष्टः | ल्यप्-प्रत्ययस्य कित्त्वात् त्रीणि विशिष्ट-कार्याणि—</big>
===== <big>'''१) <u>गुणनिषेधः</u>'''</big> =====
====== <big>'''क्क्ङिति च''' (१.१.५)</big> ======
<big>'''क्क्ङिति च''' (१.१.५) इत्यनेन कित्-प्रत्यये ङित्-प्रत्यये च परे गुणनिषेधः वृद्धिनिषेधश्च |</big>
<big>वि + नी + ल्यप् → '''क्क्ङिति च''' (१.१.५) इत्यनेन कित्-प्रत्यये परे गुणनिषेधः → विनीय</big>
===== <big>'''२) <u>अनिदितां धातूनाम् उपधायां नकारलोपः</u>'''</big> =====
<big>'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां धातूनाम् उपधाभूतस्य नकारस्य लोपो भवति |</big>
<big>वि + ध्वंस् + ल्यप् → वि + ध्वस् + य → विध्वस्य</big>
Line 86 ⟶ 170:
<big>निर् + मन्थ् + ल्यप् → निर् + मथ् + य → निर्मथ्य</big>
===== <big>'''३) <u>सम्प्रसारणि-धातूनां सम्प्रसारणम्</u>'''</big> =====
<big>सम्प्रसारणं भवति सामान्यसूत्रद्वयेन— '''वचिस्वपियजादीनां किति''' (६.१.१५), '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) |</big>
<big><u>ल्यप्-प्रत्ययविधानार्थं धातूनां वर्गीकरणम्</u></big>
<big>१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तम् अजन्तधातवः</big>
<big>२) भ्वादिगणात् आरभ्य क्र्यादिगण-
<big>३) णिजन्तधातवः</big>
<big>४) सन्-प्रत्ययान्ताः, यङ्-प्रत्ययान्ताः, क्यच्-प्रत्ययान्ताः, क्यङ्-प्रत्ययान्ताः, क्यष्-प्रत्ययान्ताः धातवः</big>
<big>अवधेयम्— अग्रे गत्वा सर्वत्र प्रक्रियायां क्त्वा प्रत्ययः विहितो भवति, अनन्तरमेव अनञ्पूर्वे समासे सति, ल्यपि परे '''समासेऽनञ्पूर्वे क्त्वो ल्यप्''' (७.१.३७) इति सूत्रेण क्त्वा-प्रत्ययस्य स्थाने ल्यप्-प्रत्ययः विधीयते । सौकर्यार्थं प्रक्रियासु न प्रदर्श्यते, किन्तु तथा अस्ति सर्वत्र इति बोध्यम् ।</big>
<big>अन्यच्च सर्वत्र मनसि भवेत् यत् ल्यप् इत्यस्मात् अनुबन्धलोपानन्तरं ’य’ अवशिष्यते ।</big>
=== '''<big>१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तम् अजन्तधातूनां ल्यप्-विधान-प्रक्रिया</big>''' ===
==== <big><u>आकारान्तधातवः एजन्तधातवः च</u></big> ====
<big>सामान्य-आकारान्तधातूनां ल्यपि परे किमपि कार्यं नास्ति ।</big>
<big>यथा—</big>
<big>प्र + दा + ल्यप् → प्रदाय</big>
<big>नि + धा + ल्यप् → निधाय</big>
<big>वि + मा + ल्यप् → विमाय</big>
<big><u>एजन्तधातवः</u></big>
<big>जानीमः यत् '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण सर्वे एजन्तधातवः आकारान्ताः भवन्ति एव, शित्-प्रत्ययः परे नास्ति चेत् । ल्यप् प्रत्ययः शित् नास्ति, अतः ल्यपि परे एजन्तानां धातूनाम् आत्वं भवति । अतः सामान्य-एजन्तधातूनाम् अपि ल्यपि परे किमपि कार्यं नास्ति ।</big>
<big>यथा—</big>
<big>वि + धे + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) → वि + धा + य → विधाय</big>
<big>वि + ग्लै + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) → वि + ग्ला + य → विग्लाय</big>
<big>वि + म्लै + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) → वि + म्ला + य → विम्लाय</big>
<big>अभि + ध्यै + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) → अभि + ध्या + य → अभिध्याय</big>
===== <big>'''आदेच उपदेशेऽशिति''' (६.१.४५)</big> =====
<big>'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''एचः धातोः आत् उपदेशे अशिति''' |</big>
==== <big><u>विशेष आकारान्ताः च एजन्ताः च धातवः</u></big> ====
<big><u>सम्प्रसारणि-धातवः</u></big>
===== <big>'''- <u>वेञ्-धातुः</u>'''</big> =====
<big>वेञ्-धातुः सम्प्रसारणी अस्ति । ल्यप्-प्रत्ययः यतः कित् अस्ति, अतः ल्यपि परे '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणं भवेत् । परन्तु '''ल्यपि च''' (६.१.४१) इत्यनेन ल्यपि परे वेञ्-धातोः सम्प्रसारणं न भवति ।</big>
<big>प्र + वेञ् + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → प्र + वा + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम् → '''ल्यपि च''' (६.१.४१) इत्यनेन ल्यपि परे वेञ्-धातोः सम्प्रसारणं निषिद्धम् → प्रवाय</big>
<big>एवमेव—</big>
<big>उप + वेञ् + ल्यप् →</big>
<big>सम्प्रसारणं नाम किम् इति चेत्—</big>
====== <big>'''इग्यणः सम्प्रसारणम्''' (१.१.४५)</big> ======
<big>'''इग्यणः सम्प्रसारणम्''' (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''यणः इक् सम्प्रसारणम्''' |</big>
====== <big>'''वचिस्वपियजादीनां किति''' (६.१.१५)</big> ======
<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''ष्यङः सम्प्रसारणम्''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |</big>
====== <big>'''ल्यपि च''' (६.१.४१)</big> ======
<big>'''ल्यपि च''' (६.१.४१) = वेञ्-धातोः सम्प्रसारणं न भवति ल्यपि परे । सिद्धान्तकौमुद्यां वेञो ल्यपि सम्प्रसारणं न स्यात् । ल्यपि सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् । '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः, '''वेञः''' (६.१.४०) इत्यस्मात् '''वेञः''' इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्— '''ल्यपि च वेञः न सम्प्रसारणम्''' ।</big>
===== <big>'''- <u>व्येञ्-धातुः</u>'''</big> =====
<big>व्येञ्-धातुः सम्प्रसारणी अस्ति । ल्यप्-प्रत्ययः यतः कित् अस्ति, अतः ल्यपि परे '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणं भवेत् । परन्तु '''व्यश्च''' (६.१.४३) इत्यनेन ल्यपि परे वेञ्-धातोः सम्प्रसारणं न भवति ।</big>
<big>प्र + व्येञ् + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → प्र + व्या + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम् → '''व्यश्च''' (६.१.४३) इत्यनेन ल्यपि परे व्येञ्-धातोः सम्प्रसारणं निषिद्धम् → प्रव्याय</big>
====== <big>'''व्यश्च''' (६.१.४३)</big> ======
<big>'''व्यश्च''' (६.१.४३) = व्येञ्-धातोः सम्प्रसारणं न भवति ल्यपि परे । काशिकायां व्येञ् संवरणे इत्येतस्य धातोर्ल्यपि परतः संप्रसारणं न भवति। व्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् । '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात् '''ल्यपि''' इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्— '''व्यः च ल्यपि न सम्प्रसारणम्''' ।</big>
<big><u>व्येञ्-धातोः वैकल्पिकं सम्प्रसारणम्</u></big>
<big>परि-उपसर्गपूर्वक-व्येञ्-धातोः ल्यपि परे '''विभाषा परेः''' (६.१.४४) इत्यनेन विकल्पेन सम्प्रसारणं न भवति ।</big>
<big>सम्प्रसारणे सति—</big>
<big>परि + व्येञ् + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → परि + व्या + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यं, '''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) इत्यनेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति → परि + व् + इ + आ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → परि + व् + इ + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → परिवीय</big>
====== <big>'''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७)</big> ======
<big>'''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति | न अव्ययपदं, सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''न सम्प्रसारणे सम्प्रसारणम्''' |</big>
====== <big>'''सम्प्रसारणाच्च''' (६.१.१०८)</big> ======
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात् '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्''' |</big>
====== <big>'''हलः''' (६.४.२)</big> ======
<big>'''हलः''' (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात् '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात् '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |</big>
<big>सम्प्रसारण-विपक्षे—</big>
<big>परि + व्येञ् + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → परि + व्या + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यम् → '''विभाषा परेः''' (६.१.४४) इत्यनेन विकल्पेन सम्प्रसारणं न भवति → परि + व्या + य → परिव्याय</big>
====== <big>'''विभाषा परेः''' (६.१.४४)</big> ======
<big>'''विभाषा परेः''' (६.१.४४) = परि-उपसर्गपूर्वक-व्येञ्-धातोः ल्यपि परे विकल्पेन सम्प्रसारणं न भवति । सिद्धान्तकौमुद्यां परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । काशिकायां परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा संप्रसारणं न भवति । अत्र मतभेदः दृश्यते यत् विकल्पेन सम्प्रसारणं भवति अथवा विकल्पेन न भवति इति, द्वयोर्मध्ये किं वक्तव्यम् । मातृभिः उक्तं यत् अत्र ’न’ इत्यस्य अनुवृत्तिः अस्ति अतः सम्प्रसारणं विकल्पेन न भवति इति अर्थः साधुः । एतदपि ताभिः उक्तं यत् सिद्धान्तकौमुद्यां यत्र यत्र विकल्पेन केनचित् सूत्रेण कार्यं विकल्पेन न भवति इति विधानं भवति तत्र तत्र विकल्पेन भवति इत्येतादृशः दोषः अनेकेषु स्थलेषु वर्तते । विभाषा प्रथमान्तं, परेः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् । '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात् '''ल्यपि''' इत्यस्य अनुवृत्तिः, '''व्यश्च''' (६.१.४३) इत्यस्मात् '''व्यः''' इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्—'''परेः व्यः विभाषा ल्यपि न सम्प्रसारणम्''' ।</big>
===== <big>'''- <u>ह्वेञ्-धातुः</u>'''</big> =====
<big>ह्वेञ्-धातुः सम्प्रसारणी अस्ति । अत्र किमपि निषेधकार्यं नास्ति ।</big>
<big>आ + ह्वेञ् + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → आ + ह्वा + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यम् → आ + ह् + उ + आ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → आ + ह् + उ + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → आ + ह् + ऊ + य → आहूय</big>
===== <big>'''- <u>ज्या धातुः</u>'''</big> =====
<big>ज्या-धातुः सम्प्रसारणी अस्ति | ल्यप्-प्रत्ययः यतः कित् अस्ति, अतः ल्यपि परे '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इत्यनेन सम्प्रसारणं भवेत् | परन्तु '''ज्यश्च''' (६.१.४२) इत्यनेन ल्यपि परे ज्या-धातोः सम्प्रसारणं न भवति |</big>
<big>प्र + ज्या + ल्यप् → '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम् → '''ज्यश्च''' (६.१.४२) इत्यनेन ल्यपि परे ज्या-धातोः सम्प्रसारणं निषिद्धम् → प्रज्याय</big>
<big>एवमेव—</big>
<big>उप + ज्या + ल्यप् →</big>
====== <big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६)</big> ======
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात् '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम्''' |</big>
====== <big>'''ज्यश्च''' (६.१.४२)</big> ======
<big>'''ज्यश्च''' (६.१.४२) = ज्या-धातोः सम्प्रसारणं न भवति ल्यपि परे | काशिकायां व्ये ज्या वयोहानौ इत्यस्य धातोर्ल्यपि परतः संप्रसारणं न भवति | ज्यः षष्ठ्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् | '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्''' (६.१.३७) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात् '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''ज्यः च ल्यपि न सम्प्रसारणम्''' |</big>
<big><u>ल्यपि परे इकारादेशः</u></big>
===== <big>- <u>'''मेङ्-धातुः'''</u></big> =====
<big>'''मयतेरिदन्यतरस्याम्''' (६.४.७०) इत्यनेन मेङ् प्राणिदाने इति धातोः विकल्पेन इकारादेशः भवति ल्यप्-प्रत्यये परे |</big>
<big>विधानपक्षे—</big>
<big>अप + मेङ् + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → अप + मा + य → '''मयतेरिदन्यतरस्याम्''' (६.४.७०) इत्यनेन मेङ्-धातोः इकारादेशः ल्यपि परे → अप + मि + य → '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यनेन ह्रस्व-इकारान्त-धातोः तुक्-आगमः भवति पिति कृति परे → अपि + मि + तुक् + य → अपि + मि + त् + य → अपमित्य</big>
<big>विधान-अपक्षे—</big>
<big>अप + मेङ् + ल्यप् → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → अप + मा + य → अपमाय</big>
====== <big>'''मयतेरिदन्यतरस्याम्''' (६.४.७०)</big> ======
<big>'''मयतेरिदन्यतरस्याम्''' (६.४.७०) = मेङ्-धातोः विकल्पेन इकारादेशः भवति ल्यपि प्रत्यये परे | सिद्धान्तकौमुद्यां मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि | काशिकायां मयतेरिकारादेशो वा भवति ल्यपि परतः | मयतेः षष्ठ्यन्तं, इत् प्रथमान्तम्, अन्यतरस्यां सप्तम्यन्तं (विभक्तिप्रतिरूपकमव्ययम्), त्रिपदमिदं सूत्रम् | '''न ल्यपि''' (६.४.६९) इत्यस्मात् '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''मयतेः इत् ल्यपि अन्यतरस्याम्''' |</big>
====== <big>'''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१)</big> ======
<big>'''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत् अपि भवेत्, पित् अपि भवेत् | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्-पित्-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति | आ + लू + ल्यप् = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''ह्रस्वस्य पिति कृति तुक्''' |</big>
===== <big><u>घु-मा-स्था-गा-पा-जहाति-सां धातूनाम् ईकारादेशः (न भवति)</u></big> =====
<big>साधारणतया हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे, एषां धातूनाम् आकारस्य ईत्वं भवति '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इति सूत्रेण | परन्तु '''न ल्यपि''' (६.४.६९) इत्यनेन इदं कार्यं बाधितं भवति |</big>
<big>प्र + दा + ल्यप् → '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यनेन आकारस्य स्थाने ईकारादेशः हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे → '''न ल्यपि''' (६.४.६९) इत्यनेन घु-संज्ञकधातोः आकारस्य स्थाने ईकारादेशः न भवति ल्यपि परे → प्रदाय</big>
<big>एवमेव—</big>
<big>प्र + धा + ल्यप् →</big>
<big>प्र + मा + ल्यप् →</big>
<big>प्र + स्था + ल्यप् →</big>
<big>प्र + गा + ल्यप् →</big>
<big>प्र + पा + ल्यप् →</big>
<big>प्र + हा + ल्यप् →</big>
<big>अव + सा + ल्यप् →</big>
====== <big>'''घुमास्थागापाजहातिसां हलि''' (६.४.६६)</big> ======
<big>'''घुमास्थागापाजहातिसां हलि''' (६.४.६६) = घु, मा, स्था, गा, पा, हा (ओहाक्), सा (षो) एषां धातूनाम् आकारस्य स्थाने ईकारादेशो भवति हलादि-कित्ङित्-आर्धधातुकप्रत्यये परे | '''धात्वादेः षः सः''' (६.१.६४), '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्याभ्यां षो → सा | घुश्च, माश्च, स्थाश्च, गाश्च, पाश्च, जहातिश्च, साश्च तेषामितरेतरद्वन्द्वः, घुमास्थागापाजहातिसाः, तेषां घुमास्थागापाजहातिसाम् | घुमास्थागापाजहातिसां षष्ठ्यन्तं, हलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''दीङो युडचि क्ङिति''' (६.४.६३) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''आतो लोप इटि च''' (६.४.६४) इत्यस्मात् '''आतः''' इत्यस्य अनुवृत्तिः | '''ईद्यति''' (६.४.६५) इत्यस्मात् '''ईत्''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम् आतः अङ्गस्य ईत् हलि''' '''क्ङिति आर्धधातुके''' |</big>
====== <big>'''न ल्यपि''' (६.४.६९)</big> ======
<big>'''न ल्यपि''' (६.४.६९) = घु, मा, स्था, गा, पा, हा (ओहाक्), सा (षो) एषां धातूनाम् आकारस्य स्थाने ईकारादेशः न भवति ल्यपि परे | काशिकायां ल्यपि प्रत्यये परतो घुमास्थागापाजहातिसां यदुक्तं तद् न भवति | सिद्धान्तकौमुद्यां ल्यपि परे घुमास्थादेरीत्वं न | न अव्ययम्, ल्यपि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''घुमास्थागापाजहातिसां हलि''' (६.४.६६) इत्यस्मात् घु-मा-स्था-गा-पा-जहाति-साम् इत्यस्य अनुवृत्तिः | '''ईद्यति''' (६.४.६५) इत्यस्मात् '''ईत्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''घुमास्थागापाजहातिसाम् अङ्गस्य ईत् न ल्यपि''' |</big>
==== <big><u>इकारान्तधातवः</u></big> ====
<big>सामान्य-इकारान्तधातूनां ल्यपि परे तुगागमः भवति '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इति सूत्रेण |</big>
<big>यथा—</big>
<big>वि + जि + ल्यप् → '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यनेन ह्रस्व-इकारान्त-धातोः तुक्-आगमः भवति पिति कृति परे → वि + जि + तुक् + य → वि + जि + त् + य → विजित्य</big>
<big>एवमेव—</big>
<big>वि + चि + ल्यप् →</big>
<big>'''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनाम् अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत् अपि भवेत्, पित् अपि भवेत् | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्-पित्-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्-पित् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति | आ + लू + ल्यप् = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''ह्रस्वस्य पिति कृति तुक्''' |</big>
<big><u>सम्प्रसारणि-धातवः</u></big>
===== <big>- <u>'''श्वि-धातुः'''</u></big> =====
<big>श्वि-धातुः सम्प्रसारणी अस्ति | ल्यप्-प्रत्ययः यतः कित् अस्ति, अतः ल्यपि परे '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणं भवति |</big>
<big>उत् + श्वि + ल्यप् → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणकार्यम् → उत् + श् + उ + इ + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → उत् + श् + उ + य → '''हलः''' (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → उत् + शू + य → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन श्चुत्वम् → उच् + शूय → '''शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम् → उच्छूय / उच्शूय</big>
====== <big>'''सम्प्रसारणाच्च''' (६.१.१०८)</big> ======
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात् '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्''' |</big>
====== <big>'''हलः''' (६.४.२)</big> ======
<big>'''हलः''' (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; '''अचश्च''' (१.२.२८), '''अलोऽन्त्यस्य''' (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | '''सम्प्रसारणस्य''' (६.३.१३९) इत्यस्मात् '''सम्प्रसारणस्य''' इत्यस्य अनुवृत्तिः | '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्मात् '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''हलः सम्प्रसारणस्य अङ्गस्य दीर्घः''' |</big>
====== <big>'''स्तोः श्चुना श्चुः''' (८.४.४०)</big> ======
<big>'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | '''यथासंख्यमनुदेशः समानाम्''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स् च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श् च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श् च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम् | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः श्चुना श्चुः संहितायाम्''' |</big>
<big><u>छत्वसन्धिः</u></big>
====== <big>'''शश्छोऽटि''' (८.४.६३)</big> ======
<big>'''शश्छोऽटि''' (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम् | शः षष्ठ्यन्तं, छः प्रथमान्तम्, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''झयो होऽन्यतरस्याम्''' (८.४.६२) इत्यस्मात् '''झयः''' च '''अन्यतरस्त्याम्''' चेत्यनयोः अनुवृत्तिः | '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात् '''पदान्तस्य''' इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन ''''पदान्तात्'''<nowiki/>' | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अट् प्रत्याहारे सर्वे स्वराः, ह्, य्, व्, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात् झयः शः छः अटि संहितायम् अन्यतरस्याम्''' |</big>
<big>धेयं यत् '''शश्छोऽटि''' त्रिपादी सूत्रम् अतः प्रथमं जश्त्वं, श्चुत्वं, चर्त्वम् इत्यादिकं करणीयम् | सामान्यतया चर्त्वम् अन्तिमं फलम् अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक् चर् इति सामान्यम् |</big>
<big>तत् + शिवः → '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद् + शिवः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम् → तज् + शिवः → '''खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच् + शिवः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम् → तच्छिवः / तच्शिवः</big>
====== <big>'''छत्वममीति वाच्यम्'''</big> ======
<big>'''छत्वममीति वाच्यम्''' इति वार्तिकेन इदं कार्यं न केवलम् अटि परे अपि तु अमि परेऽपि | तत् + श्लोकेन → तच्छ्लोकेन |</big>
<big><u>इकारान्त-धातूनाम् आत्वम्</u></big>
===== <big>- <u>'''डुमिञ्-धातुः'''</u></big> =====
<big>मीञ्, डुमिञ्, दीङ् च धातूनाम् उपदेशावस्थायाम् आत्वं भवति ल्यपि परे, '''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) इति सूत्रेण | </big>
<big>प्र + मि + ल्यप् → '''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) इत्यनेन डुमिञ्-धातोः उपदेशावस्थायाम् आत्वम् → प्र + मा + य → प्रमाय</big>
<big>एवमेव—</big>
<big>नि + मि + ल्यप् →</big>
====== <big>'''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०)</big> ======
<big>'''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ्, स्वादौ मिञ्, दिवादौ दीङ् एषां धातूनाम् आकार-अन्तादेशो भवति ल्यपि अथवा एज्-निमित्त-शिद्भिन्न-प्रत्यये परे | सिद्धान्तकौमुद्याम् एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते | मीनातिश्च मिनोतिश्च डीङ् च तेषामितरेतरद्वन्द्वः मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''आत्''', '''एचः''', '''उपदेशे''', '''अशिति''' इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसू</big>त्रं<big>—'''उपदेशे''' '''मीनातिमिनोतिदीङाम् ल्यपि च आत् एचः (एज्-निमित्ते प्रत्यये) अशिति''' |</big>
===== <big><u>क्षि-धातोः दीर्घादेशः</u></big> =====
<big>'''क्षियः''' (६.४.५९) इत्यनेन क्षि क्षये इति धातोः दीर्घादेशो भवति ल्यपि परे |</big>
<big>प्र + क्षि + ल्यप् → '''क्षियः''' (६.४.५९) इत्यनेन क्षि-धातोः दीर्घादेशः ल्यपि परे → प्र + क्षी + य → प्रक्षीय</big>
<big>एवमेव—</big>
<big>उप + क्षि + ल्यप् →</big>
====== <big>'''क्षियः''' (६.४.५९)</big> ======
<big>'''क्षियः''' (६.४.५९) = क्षि क्षये इति धातोः दीर्घादेशो भवति ल्यपि परे | सिद्धान्तकौमुद्यां क्षियो ल्यपि दीर्घः स्यात् | क्षियः षष्ठ्यन्तम्, एकपदमिदं सूत्रम् | '''ल्यपि लघुपूर्वात्''' (६.४.५६) इत्यस्मात् '''ल्यपि''' इत्यस्य अनुवृत्तिः, '''युप्लुवोर्दीर्घश्छन्दसि''' (६.४.५८) इत्यस्मात् '''दीर्घः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''क्षियः अङ्गस्य दीर्घः ल्यपि''' |</big>
==== '''<big><u>ईकारान्तधातवः</u></big>''' ====
<big>सामान्य-ईकारान्त-धातूनां किमपि कार्यं नास्ति | ईकारः दीर्घः इत्यस्य कारणेन '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यस्य प्रसक्तिर्नास्ति |</big>
<big>यथा—</big>
<big>वि + नी + ल्यप् → वि + नी + य → विनीय</big>
<big>एवमेव—</big>
<big>वि + भी + ल्यप् →</big>
===== <big><u>ली-धातोः विकल्पेन आत्वम्</u></big> =====
<big>'''विभाषा लीयतेः''' (६.१.५१) इत्यनेन ली-धातोः विकल्पेन आत्वादेशो भवति एचः विषये च ल्यपि परे |</big>
<big>आत्व-पक्षे—</big>
<big>वि + लीङ् + ल्यप् → '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन ली-धातोः आत्वादेशः ल्यपि परे → वि + ला + य → विलाय</big>
<big>अत्व-विपक्षे—</big>
<big>वि + लीङ् + ल्यप् → वि + ली + य → विलीय</big>
<big>एवमेव—</big>
<big>वि + ली + ल्यप् →</big>
====== <big>'''विभाषा लीयतेः''' (६.१.५१)</big> ======
<big>'''विभाषा लीयतेः''' (६.१.५१) = लीङ्-श्लेषणे च ली-श्लेषणे द्वयोः धात्वोः विकल्पेन आत्वादेशो भवति एचः विषये च ल्यपि परे उपदेशावस्थायाम् | ’एचः विषये’ इत्युक्ते यत्र तादृशः प्रत्ययः परः अस्ति यः ईकारस्य गुणादेशकारणं स्यात्, यथा कोऽपि शित्-प्रत्ययः | विभाषा प्रथमान्तं, लीयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''आत्''', '''एचः''', '''उपदेशे''' इत्येषाम् अनुवृत्तिः | '''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) इत्यस्मात् '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''लीयतेः आत्''' '''एचः (एज्विषये, एच्-निमित्ते) ल्यपि''' '''उपदेशे विभाषा''' |</big>
<big><u>ईकारान्त-धातूनाम् आत्वम्</u></big>
===== <big>- <u>'''दीङ्, मीञ्-धातू'''</u></big> =====
<big>दीङ्, मीञ्, डुमिञ् च धातूनाम् उपदेशावस्थायाम् आत्वं भवति ल्यपि परे, '''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) इति सूत्रेण | </big>
<big>उप + दीङ् + ल्यप् → '''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) इत्यनेन दीङ्-धातोः उपदेशावस्थायाम् आत्वम् → उप + दा + य → उपदाय</big>
<big>एवमेव—</big>
<big>प्र + मीञ् + ल्यप् →</big>
====== <big>'''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०)</big> ======
<big>'''मीनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) = क्र्यादौ मीञ्, स्वादौ मिञ्, दिवादौ दीङ् एषां धातूनाम् आकार-अन्तादेशो भवति ल्यपि अथवा एज्-निमित्त-शिद्भिन्न-प्रत्यये परे | सिद्धान्तकौमुद्याम् एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते | मीनातिश्च मिनोतिश्च डीङ् च तेषामितरेतरद्वन्द्वः मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात् '''आत्''', '''एचः''', '''उपदेशे''', '''अशिति''' इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं—'''उपदेशे''' '''मीनातिमिनोतिदीङाम् ल्यपि च आत् एचः (एज्-निमित्ते प्रत्यये) अशिति''' |</big>
==== <big><u>'''उकारान्तधातवः'''</u></big> ====
<big>सामान्य-उकारान्तधातूनां ल्यपि परे तुगागमः भवति '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इति सूत्रेण |</big>
<big>यथा—</big>
<big>आ + हु + ल्यप् → '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यनेन ह्रस्व-उकारान्त-धातोः तुक्-आगमः भवति पिति कृति परे → आ + हु + तुक् + य → आ + हु + त् + य → आहुत्य</big>
<big>एवमेव—</big>
<big>प्र + द्रु + ल्यप् →</big>
====== <big>'''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१)</big> ======
<big>'''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनं अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत् अपि भवेत्, पित् अपि भवेत् | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्-पित्-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्-तिप् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति | आ + लू + ल्यप् = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''ह्रस्वस्य पिति कृति तुक्''' |</big>
===== <big><u>वेदे यु-प्लु धात्वोः दीर्घत्वं ल्यपि</u></big> =====
<big>वेदस्य विषये यु-प्लु इति द्वयोः धात्वोः दीर्घादेशः भवति ल्यपि परे, '''युप्लुवोर्दीर्घश्छन्दसि''' (६.४.५८) इति सूत्रेण | दान्त्यनुपूर्वं वियूय | यत्रा नो दक्षिणा परिप्लूय |</big>
====== <big>'''युप्लुवोर्दीर्घश्छन्दसि''' (६.४.५८)</big> ======
<big>'''युप्लुवोर्दीर्घश्छन्दसि''' (६.४.५८) = यु-प्लु इत्येतयोर्ल्यपि परतश्छन्दसि विषये दीर्घो भवति | यु-प्लुवोः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, छन्दसि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''ल्यपि लघुपूर्वात्''' (६.४.५६) इत्यस्मात् '''ल्यपि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''युप्लुवोः अङ्गयोः दीर्घः ल्यपि छन्दसि''' |</big>
==== '''<big><u>ऊकारान्तधातवः</u></big>''' ====
<big>सामान्य-ऊकारान्त-धातूनां किमपि कार्यं नास्ति | ऊकारः दीर्घः इत्यस्य कारणेन '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यस्य प्रसक्तिर्नास्ति |</big>
<big>यथा—</big>
<big>वि + धू + ल्यप् → वि + धू + य → विधूय</big>
<big>एवमेव—</big>
<big>सम् + भू + ल्यप् →</big>
===== <big><u>ब्रू-धातोः वच्-आदेशः</u></big> =====
<big>सर्वेषु आर्धधातुक-प्रत्ययेषु परेषु ब्रू-धातोः वच्-आदेशः भवति |</big>
<big>यथा—</big>
<big>प्र + ब्रू + ल्यप् → '''ब्रुवो वचिः''' (२.४.५३) इत्यनेन आर्धधातुकप्रत्यये परे ब्रू-धातोः वच्-आदेशः → प्र + वच् + य → '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यनेन सम्प्रसारणम् → प्र + उ अ च् + य → '''सम्प्रसारणाच्च''' (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → प्र + उच् + य → प्रोच्य</big>
====== <big>'''ब्रुवो वचिः''' (२.४.५३)</big> ======
<big>'''ब्रुवो वचिः''' (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ब्रुवः वचिः''' '''आर्धधातुके''' |</big>
====== <big>'''वचिस्वपियजादीनां किति''' (६.१.१५)</big> ======
<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''ष्यङः सम्प्रसारणम्''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |</big>
====== <big>'''सम्प्रसारणाच्च''' (६.१.१०८)</big> ======
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको यणचि''' (६.१.७७) इत्यस्मात् '''अचि''', '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात् '''पूर्वः''' इत्यनयोः अनुवृत्तिः भवतः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम्''' |</big>
<big><u>'''ऋकारान्तधातवः'''</u></big>
<big>सामान्य-ऋकारान्तधातूनां ल्यपि परे तुगागमः भवति '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इति सूत्रेण |</big>
<big>यथा—</big>
<big>वि + हृ + ल्यप् → '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यनेन ह्रस्व-उकारान्त-धातोः तुक्-आगमः भवति पिति कृति परे → वि + हृ + तुक् + य → वि + हृ + त् + य → विहृत्य</big>
<big>एवमेव—</big>
<big>प्र + हृ + ल्यप् →</big>
<big>उप + कृ + ल्यप् →</big>
<big>आ + वृ + ल्यप् →</big>
====== <big>'''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१)</big> ======
<big>'''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) = ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे | काशिकायां पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति | अनेन येषां धातूनं अन्तिमवर्णः ह्रस्व-इकारः, ह्रस्व-उकारः, ह्रस्व-ऋकारः, अथवा ह्रस्व-अकारः, एषां ह्रस्व-वर्णानां तुगागमो भवति पिति कृति परे | प्रत्ययः कृत् अपि भवेत्, पित् अपि भवेत् | अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति | कृ + क्त → कृत (अत्र ऋकारस्य तुगागमः न भवति) | एवमेव कूतम्, हृतम् | अकृत्-पित्-प्रत्यये परे अपि तुगागमः न भवति | तद्धिते सति पटुतरः, पटुतमः (तरप्, तमप्) | प्रत्ययः कृत्-तिप् अस्ति चेदपि धात्वन्ते ह्रस्वस्वरः नास्ति चेत् तुगागमः न भवति | आ + लू + ल्यप् = आलूय (ऊकारस्य तुगागमः न भवति) | एवमेव सम् + भू + ल्यप् → सम्भूय | ह्रस्वस्य षष्ठ्यन्तं, पिति सप्तम्यन्तं, कृति सप्तम्यन्तं, तुक् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''ह्रस्वस्य पिति कृति तुक्''' |</big>
==== <big><u>'''ॠकरान्तधातवः'''</u></big> ====
<big>दीर्घ-ॠकारान्तधातूनां ह्रस्व-इकारादेशः भवति किति ङिति प्रत्यये परे, '''ॠत इद्धातोः''' (७.१.१००) इति सूत्रेण | तदा '''उरण् रपरः''' (१.१.५१) इत्यनेन ॠकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | अन्ते '''हलि च''' (८.२.७७) इत्यनेन रेफान्तानां धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे |</big>
<big>यथा—</big>
<big>उत् + तॄ + ल्यप् → '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन दीर्घ-ॠकारान्तधातूनां ह्रस्व-इकारादेशः भवति किति ङिति प्रत्यये परे → उत् + ति + य → '''उरण् रपरः''' (१.१.५१) इत्यनेन ॠकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति → उत् + तिर् + य → '''हलि च''' (८.२.७७) इत्यनेन रेफान्तानां धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे → उत् + तीर् + य → उत्तीर्य</big>
<big>एवमेव—</big>
<big>वि + जॄ + ल्यप् →</big>
<big>वि + झॄ + ल्यप् →</big>
<big>वि + कॄ + ल्यप् →</big>
<big>सम् + गॄ + ल्यप् →</big>
<big>आ + स्तॄ + ल्यप् →</big>
<big>वि + शॄ + ल्यप् →</big>
<big>वि + दॄ + ल्यप् →</big>
<big>वि + नॄ + ल्यप् →</big>
<big>सम् + ॠ + ल्यप् →</big>
====== <big>'''ॠत इद्धातोः''' (७.१.१००)</big> ======
<big>'''ॠत इद्धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) | कित्-ङित् भिन्नप्रत्ययः परे चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''ॠतः''' इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ॠतः धातोः अङ्गस्य इत्''' |</big>
====== <big>'''उरण् रपरः''' (१.१.५१)</big> ======
<big>'''उरण् रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात् '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''उः स्थाने अण् रपरः''' |</big>
====== <big>'''हलि च''' (८.२.७७)</big> ======
<big>'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति हलि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषां ग्रहणम् | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''र्वोः धातोः उपधायाः इकः दीर्घः हलि''' |</big>
=== '''<big>२) <u>भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तम् हलन्तधातूनां ल्यप्-विधान-प्रक्रिया</u></big>''' ===
<big>भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तम् हलन्तधातूनां ल्यप्-विधान-प्रक्रियायां मूले विभागद्वयं वर्तते—सामान्यहलन्तधातवः, विशिष्टहलन्तधातवः च ।</big>
==== <big><u>सामान्यहलन्तधातवः</u></big> ====
<big>सामान्यहलन्तधातूनां क्षेत्रे किमपि कार्यं न भवति । येषां उपधायाम् इक्-प्रत्याहारस्थवर्णः अस्ति, तेषां गुणकार्यं प्रसक्तम् अस्ति '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रेण, तदा '''क्क्ङिति च''' (१.१.५) इत्यनेन कित्-प्रत्यये ल्यपि परे गुणनिषेधः वृद्धिनिषेधश्च भवति | </big>
<big>यथा—</big>
<big>प्र + पठ् + ल्यप् → प्रपठ्य</big>
<big>वि + भिद् + ल्यप् → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं प्रसक्तम् → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → विभिद्य</big>
<big>वि + लिख् + ल्यप् → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यं प्रसक्तम् → '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः → विलिख्य</big>
<big>एवमेव—</big>
<big>प्र + पच् + ल्यप् →</big>
<big>प्र + मिल् + ल्यप् →</big>
<big>प्र + वृध् + ल्यप् →</big>
<big>प्र + बुध् + ल्यप् →</big>
<big>प्र + मिद् + ल्यप् →</big>
<big>प्र + स्खल् + ल्यप् →</big>
<big>प्र + बुक्क् + ल्यप् →</big>
<big>प्र + शुध् + ल्यप् →</big>
<big>प्र + कृष् + ल्यप् →</big>
<big>प्र + चित् + ल्यप् →</big>
<big>प्र + शीक् + ल्यप् →</big>
==== <big><u>विशिष्टहलन्तधातवः</u></big> ====
<big>एषां कृते विविधकार्याणि भवन्ति, धातुम् अनुसृत्य धातुश्रेणीम् अनुसृत्य च—</big>
===== <big>- '''<u>अस्-धातुः</u>'''</big> =====
<big>अस्-धातोः भू-आदेशः भवति सर्वेषु आर्धधातुकेषु प्रत्ययेषु परेषु, '''अस्तेर्भूः''' (२.४.५२) इति सूत्रेण |</big>
<big>सम् + अस् + ल्यप् → '''अस्तेर्भूः''' (२.४.५२) इत्यनेन आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशः → सम् + भू + य → सम्भूय</big>
====== <big>'''अस्तेर्भूः''' (२.४.५२)</big> ======
<big>'''अस्तेर्भूः''' (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशो भवति | '''अनेकाल्शित् सर्वस्य''' (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अस्तेः भूः आर्धधातुके''' |</big>
===== <big>- '''<u>चक्ष्-धातुः</u>'''</big> =====
<big>'''चक्षिङ्'''-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि च '''पूर्वत्रासिद्धम्''' (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति '''ख्शाञः शस्य यो वा वक्तव्यः''' | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे '''चक्षिङ्'''-धातोः स्थाने '''ख्याञ्, ख्शाञ्''' इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |</big>
<big>एकवारं ख्याञ्—</big>
<big>वि + चक्ष् + ल्यप् → '''चक्षिङः ख्याञ्''' (२.४.५४) इत्यनेन चक्षिङः ख्याञादेशः आर्धधातुके → भाष्यकारस्य वक्तव्येन आदेशः 'ख्या' न अपि तु 'ख्शा' → वि + ख्शा + य → '''ख्शाञः शस्य यो वा वक्तव्यः''' इति वार्तिकेन शकारस्य विकल्पेन यकारादेशः → वि + ख्या + य → विख्याय</big>
<big>अपरस्मिन् पक्षे ख्शाञ्— </big>
<big>वि + चक्ष् + ल्यप् → '''चक्षिङः ख्याञ्''' (२.४.५४) इत्यनेन चक्षिङः ख्याञादेशः आर्धधातुके → भाष्यकारस्य वक्तव्येन आदेशः 'ख्या' न अपि तु 'ख्शा' → वि + ख्शा + य → '''खरि च''' (८.४.५५) इत्यनेन झलः खरि परे चर्त्वादेशः → वि + क्शा + य → विक्शाय</big>
====== <big>'''चक्षिङः ख्याञ्''' (२.४.५४)</big> ======
<big>'''चक्षिङः ख्याञ्''' (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''चक्षिङः ख्याञ् आर्धधातुके''' |</big>
====== <big>'''खरि च''' (८.४.५५)</big> ======
<big>'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात् '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां चर् खरि च''' '''संहितायाम् '''|</big>
===== <big>- '''<u>अज्-धातुः</u>'''</big> =====
<big>अज्-धातोः वी इति आदेशः भवति आर्धधातुक-प्रत्यये परे, घञ् च अप् च वर्जयित्वा, '''अजेर्व्यघञपोः''' (२.४.५६) इति सूरेण |</big>
<big>सम् + अज् + ल्यप् → '''अजेर्व्यघञपोः''' (२.४.५६) इत्यनेन अज्-धातोः वी आदेशः आर्धधातुक-प्रत्यये परे → सम् + वी + य → '''मोऽनुस्वारः''' (८.३.२३) इत्यनेन पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः हलि परे → संवीय</big>
====== <big>'''अजेर्व्यघञपोः''' (२.४.५६)</big> ======
<big>'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अजेः वी आर्धधातुके अघञपोः''' |</big>
====== <big>'''मोऽनुस्वारः''' (८.३.२३)</big> ======
<big>'''मोऽनुस्वारः''' (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''हलि सर्वेषाम्''' (८.३.२२) इत्यस्मात् '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' |</big>
===== <big>- '''<u>कृप्-धातुः</u>'''</big> =====
<big>'''कृपो रो लः''' (८.२.१८) इति सूत्रेण, आहत्य कृप्-धातोः रेफस्य लकारादेशः; कृप्-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलं; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् |</big>
<big>प्र + कृप् + ल्यप् → प्र + कॢप् + य → प्रकॢप्य</big>
====== <big>'''कृपो रो लः''' (८.२.१८)</big> ======
<big>'''कृपो रो लः''' (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— '''कृपः उः कृपः रः लः''' |</big>
===== <big><u>जन्, सन्, खन् इति धातवः</u></big> =====
<big>'''ये विभाषा''' (६.४.४३) इत्यनेन जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्-प्रत्यये परे |</big>
<big>आत्वपक्षे—</big>
<big>प्र + जन् + ल्यप् → '''ये विभाषा''' (६.४.४३) इत्यनेन नकारस्य आत्वम् → प्र + जा + य → प्रजाय</big>
<big>आत्वापक्षे—</big>
<big>प्र + जन् + ल्यप् → प्र + जन् + य → प्रजन्य</big>
<big>एवमेव—</big>
<big>प्र + सन् + ल्यप् →</big>
<big>प्र + खन् + ल्यप् →</big>
====== <big>'''ये विभाषा''' (६.४.४३)</big> ======
<big>'''ये विभाषा''' (६.४.४३) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशो भवति यकारादि-कित्ङित्-प्रत्यये परे | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः | ये सप्तम्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम् | '''जनसनखनां सञ्झलोः''' (६.४.४२) इत्यस्मात् '''जनसनखनाम्''' इत्यस्य अनुवृत्तिः | '''विड्वनोरनुनासिकस्यात्''' (६.४.४१) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः | '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''क्ङिति''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''जनसनखनां अङ्गस्य आत् ये क्ङिति विभाषा''' |</big>
==== <big><u>अनुनासिकान्त-धातवः</u></big> ====
<big>अनुनासिकान्त-अनुदात्तोपदेश-धातूनां, वन्-धातोः, अनुनासिकान्त-तनोत्यादि-धातूनां च ल्यपि परे अनुनासिकलोपो भवति '''वा ल्यपि''' (६.४.३८) इति सूत्रेण | अस्मिन् सूत्रे यः विकल्पः विधीयते तस्य नाम ’व्यवस्थितविभाषा’, यस्य अर्थः अयं यत् ये पञ्चदश धातवः अस्मिन् सूत्रे उक्ताः, तेषु ये मकारान्ताः तेषां ’वा’ अनुनासिकलोपः, अवशिष्टानां च धातूनां नित्यम् अनुनासिकलोपः |</big>
<big>'''वा ल्यपि''' (६.४.३८) इति सूत्रेण ये पञ्चदश धातवः उक्ताः, तेषु अनुदात्तोपदेशः (अनिट्) मकारान्तः धातवः चत्वारः—गम्, नम्, यम्, रम् इति |</big>
===== <big><u>चत्वारः मकारान्तधातवः</u></big> =====
<big>अनुनासिकलोपपक्षे—</big>
<big>आ + गम् + ल्यप् → '''वा ल्यपि''' (६.४.३८) इत्यनेन अनुनासिकलोपः वा ल्यपि → आ + ग + य → '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यनेन ह्रस्व-अकारान्त-धातोः तुक्-आगमः भवति पिति कृति परे → आ + ग + तुक् + य → आ + ग + त् + य → आगत्य</big>
<big>अनुनासिकलोपविपक्षे—</big>
<big>आ + गम् + ल्यप् → आ + गम् + य → आगम्य</big>
<big>एवमेव—</big>
<big>प्र + नम् + ल्यप् →</big>
<big>प्र + यम् + ल्यप् →</big>
<big>प्र + रम् + ल्यप् →</big>
===== <big><u>अवशिष्टाः एकादश धातवः</u></big> =====
<big>अवाशिष्टाः एकादश धातवः सन्ति— वन्, हन्, मन्, तन्, क्षिण्, क्षण्, ऋण्, तृण्, घृण्, वन्, मन् इति |</big>
<big>प्र + वन् + ल्यप् → प्र + वन् + य → '''वा ल्यपि''' (६.४.३८) इत्यनेन अनुनासिकलोपः ल्यपि → प्र + व + य → '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यनेन ह्रस्व-अकारान्त-धातोः तुक्-आगमः भवति पिति कृति परे → प्र + व + तुक् + य → प्र + व + त् + य → प्रवत्य</big>
<big>एवमेव—</big>
<big>आ + हन् + ल्यप् →</big>
<big>प्र + मन् + ल्यप् →</big>
<big>प्र + तनु + ल्यप् →</big>
<big>प्र + क्षिणु + ल्यप् →</big>
<big>प्र + क्षणु + ल्यप् →</big>
<big>सम् + ऋणु + ल्यप् →</big>
<big>प्र + तृणु + ल्यप् →</big>
<big>प्र + घृणु + ल्यप् →</big>
<big>प्र + वनु + ल्यप् →</big>
<big>प्र + मनु + ल्यप् →</big>
====== <big>'''वा ल्यपि''' (६.४.३८)</big> ======
<big>'''वा ल्यपि''' (६.४.३८) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो वा भवति ल्यपि परे | सिद्धान्तकौमुद्याम् अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि | अस्मिन् सूत्रे यः विकल्पः विधीयते तस्य नाम ’व्यवस्थितविभाषा’, यस्य अर्थः अयं यत् ये पञ्चदश धातवः अस्मिन् सूत्रे उक्ताः, तेषु ये मकारान्ताः तेषां ’वा’ अनुनासिकलोपः, अवशिष्टानां च धातूनां नित्यम् अनुनासिकलोपः | ल्यपि सप्तम्यन्तं, च अवययं, द्विपदमिदं सूत्रम् | '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''अनुदात्तोपदेशवनतितनोत्यादीनाम''', '''अनुनासिक''', '''लोपः''' इत्येषाम् अनुवृत्तिः | एषां पदानामपि अत्र पदविभागः च विभक्तिश्च सूच्यते—अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनाम् | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्); '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः | अनुवृत्ति-सहितसूत्रम्— '''अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गस्य लोपः वा ल्यपि''' |</big>
<big>अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन् धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्, रम्, नम्, गम्, हन्, मन्), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति ल्यपि परे; स च अनुनासिकवर्णः मकारः अस्ति चेत् तस्य लोपः वैकल्पिकः, मकारः नास्ति चेत् तस्य लोपः नित्यः |</big>
<big>यः धातुः ऋकारादिः, तस्मात् पूर्वं तादृशः उपसर्गः अस्ति यस्य अन्ते अकारः अस्ति चेत्, द्वयोः वर्णयोः स्थाने एकः वृद्धेः एकादेशः भवति '''उपसर्गादृति धातौ''' (६.१.९१) इति सूत्रेण |</big>
<big>यथा—</big>
<big>प्र + ऋणु + ल्यप् → प्र + ऋण् + य → '''वा ल्यपि''' (६.४.३८) इत्यनेन अनुनासिकलोपः ल्यपि → प्र + ऋ + य → '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यनेन ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे प्र + ऋ + त् + य → '''उपसर्गादृति धातौ''' (६.१.९१) इत्यनेन अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः → प्रा + त् + य → '''उरण् रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः → प्रार् + त् + य → प्रार्त्य</big>
<big>प्रक्रियायाः सूत्राणां बलाबलचिन्तनम्— '''वा ल्यपि''' (६.४.३८), '''उपसर्गादृति धातौ''' (६.१.९१) इयनयोः युगपत् प्रसक्तिः; द्वयोः मध्ये '''वा ल्यपि''' (६.४.३८) परसूत्रम्, अङ्गकार्यञ्च अतः तस्य प्राप्तिः | तदा '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१), '''उपसर्गादृति धातौ''' (६.१.९१) इत्यनयोः युगपत् प्रसक्तिः; द्वयोः मध्ये '''उपसर्गादृति धातौ''' (६.१.९१) परसूत्रं, नित्यसूत्रं च, किन्तु अन्तरङ्गत्वात् '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यस्य प्राप्तिः | '''उपसर्गादृति धातौ''' (६.१.९१) इत्यस्य कृते बहिरङ्गत्वम् अस्ति—निमित्तत्वात् उपसर्गः अपेक्षितः यः भिन्नपदम् अस्ति | '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यस्मिन् प्रत्ययः निमित्तम् अस्ति—प्रत्ययः भिन्नपदं नास्ति किन्तु उपसर्गः पदमस्ति, अतः '''उपसर्गादृति धातौ''' (६.१.९१) इत्यस्य बहिरङ्गत्वात् अनन्तरं प्राप्तिः तस्य |</big>
====== <big>'''उपसर्गादृति धातौ''' (६.१.९१)</big> ======
<big>'''उपसर्गादृति धातौ''' (६.१.९१) = अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः भवति | उपसर्गात् पञ्चम्यन्तम्, ऋति सप्तम्यन्तं, धातौ सप्तम्यन्तम्, त्रिपदमिदं सूत्रम् | '''आद्गुणः''' (६.१.८७) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८८) इत्यस्मात् '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४) इत्यस्य अधिकारः | '''यस्मिन् विधिस्तदादावल्ग्रहणे''' इति परिभाषया तदादिविधिना तादृशधातुः यस्य आदौ ऋकारः स्यात् | अनुवृत्ति-सहितसूत्रम्— '''आत् उपसर्गात् ऋति धातौ पूर्वपरयोः एकः वृद्धिः''' |</big>
==== <big><u>सम्प्रसारणि-हलन्तधातवः</u></big> ====
<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) इति सूत्रेण वच्यादि इति एकादशानां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे । '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इति सूत्रेण ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
<big>हलन्तानां सम्प्रसारणिनां धातूनां सम्प्रसारणम्—</big>
<big>प्र + वच् + ल्यप् → प्र + उच् + य → प्रोच्य</big>
<big>प्र + स्वप् + ल्यप् → प्र + सुप् + य → प्रसुप्य</big>
<big>प्र + यज् + ल्यप् → प्र + इज् + य → प्रेज्य</big>
<big>एवमेव—</big>
<big>प्र + वप् + ल्यप् →</big>
<big>प्र + वह् + ल्यप् →</big>
<big>प्र + वस् + ल्यप् →</big>
<big>प्र + वद् + ल्यप् →</big>
<big>प्र + ग्रह् + ल्यप् →</big>
<big>प्र + व्यध् + ल्यप् →</big>
<big>प्र + वश् + ल्यप् →</big>
<big>प्र + व्यच् + ल्यप् →</big>
<big>प्र + व्रश्च् + ल्यप् →</big>
<big>प्र + प्रच्छ् + ल्यप् →</big>
<big>प्र + भ्रस्ज् + ल्यप् →</big>
<big>सम्प्रसारणं नाम किम् इति चेत्—</big>
====== <big>'''इग्यणः सम्प्रसारणम्''' (१.१.४५)</big> ======
<big>'''इग्यणः सम्प्रसारणम्''' (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— '''यणः इक् सम्प्रसारणम्''' |</big>
<big>सम्प्रसारण-विधायके द्वे सूत्रे—</big>
====== <big>'''वचिस्वपियजादीनां किति''' (६.१.१५)</big> ======
<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''ष्यङः सम्प्रसारणम्''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |</big>
====== <big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६)</big> ======
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | काशिकायां ग्रह उपादाने , ज्या वयोहानौ, वेञो वयिः, व्यध ताडने, वश कान्तौ, व्यच व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायाम्, भ्रस्ज पाके इत्येतेषां धातूनां ङिति प्रत्यये परतश्चकारात् किति च सम्प्रसारणं भवति । ग्रहिश्च ज्याश्च वयिश्च व्यधिश्च वष्टिश्च विचतिश्च वृश्चतिश्च पृच्छतिश्च भृज्जतिश्च तेषामितरेतरद्वन्द्बो ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतयः तेषां ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनाम् । ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनाम् षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम् । '''ष्यङः सम्प्रसारणम्''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात् '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात् '''किति''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां सम्प्रसारणं किति ङिति च''' |</big>
==== <big><u>अनिदितः धातवः</u></big> ====
<big>येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे, '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इति सूत्रेण |</big>
<big>यथा—</big>
<big>प्र + मन्थ् + ल्यप् → प्र + मथ् + य → प्रमथ्य</big>
<big>प्र + स्रंस् + ल्यप् → प्र + स्रस् + य → प्रस्रस्य</big>
<big>प्र + ध्वंस् + ल्यप् → प्र + ध्वस् + य → प्रध्वस्य</big>
<big>केचन धातवः एकस्मात् अधिक-धातुगणेषु सन्ति, तदनुसृत्य च मूलधातुरूपे इत्-सज्ञकवर्णाः भिन्नाः भवितुमर्हन्ति । उदाहरणार्थं त्रयः मन्थ्-रूपि-धातवः सन्ति । एकः मन्थ्-धातुः (मन्थँ) भ्वादिगणे अस्ति, अन्यः मन्थ्-धातुः (मन्थँ) क्र्यादिगणे अस्ति; एतौ द्वौ धातू अनिदितौ स्तः । अतः तयोः ल्यपि परे रूपम् उपरि प्रदर्शितम्—प्रमथ्य । तृतीयः मन्थ्-धातुः (मथिँ) अपि भ्वादिगणे अस्ति किन्तु अयं धातुः इदित् अस्ति, अतः तस्य ल्यपि परे रूपम् अस्ति ’प्रमन्थ्य’ ।</big>
<big>अधः मूलधातुरूपम् अनुसृत्य ल्यपि परे रूपं कल्पनीयम्—</big>
<big>प्र + भ्रंस् (भ्रन्सुँ) + ल्यप् →</big>
<big>प्र + भ्रंश् (भ्रन्शुँ) + ल्यप् →</big>
<big>प्र + स्रम्भ् (स्रन्भुँ) + ल्यप् →</big>
<big>प्र + ग्रन्थ् (ग्रन्थँ, ग्रथिँ) + ल्यप् →</big>
<big>प्र + श्रन्थ् (श्रन्थँ, श्रथिँ) + ल्यप् →</big>
<big>प्र + कुन्थ् (कुन्थँ, कुथिँ) + ल्यप् →</big>
<big>प्र + शुन्ध् (शुन्धँ) + ल्यप् →</big>
<big>प्र + कुञ्च् (कुन्चँ) + ल्यप् →</big>
<big>प्र + क्रुञ्च् (क्रुन्चँ) + ल्यप् →</big>
<big>प्र + लुञ्च् (लुन्चँ) + ल्यप् →</big>
<big>प्र + म्रुञ्च् (म्रुन्चुँ) + ल्यप् →</big>
<big>प्र + म्लुञ्च् (म्लुन्चुँ) + ल्यप् →</big>
<big>प्र + ग्लुञ्च् (ग्लुन्चुँ) + ल्यप् →</big>
<big>प्र + वञ्च् (वन्चुँ) + ल्यप् →</big>
<big>प्र + चञ्च् (चन्चुँ) + ल्यप् →</big>
<big>प्र + त्वञ्च् (त्वन्चुँ) + ल्यप् →</big>
<big>प्र + तञ्च् (तन्चुँ, तन्चूँ) + ल्यप् →</big>
<big>प्र + श्रम्भ् (श्रन्भुँ) + ल्यप् →</big>
<big>प्र + दम्भ् (दन्भुँ) + ल्यप् →</big>
<big>प्र + सृम्भ् (षृन्भुँ) + ल्यप् →</big>
<big>प्र + शंस् (शन्सुँ, शसिँ) + ल्यप् →</big>
<big>प्र + कुंस् (कुसिँ) + ल्यप् →</big>
<big>प्र + रञ्ज् (रन्जँ) + ल्यप् →</big>
<big>प्र + भञ्ज् (भन्जोँ, भजिँ) + ल्यप् →</big>
<big>प्र + भन्द् (भदिँ) + ल्यप् →</big>
<big>सम् + अञ्च् (अन्चुँ, अचिँ) + ल्यप् →</big>
<big>सम् + अञ्ज् (अन्जूँ, अजिँ) + ल्यप् →</big>
<big>सम् + उन्द् (उन्दीँ) + ल्यप् →</big>
<big>सम् + इन्ध् (ञिइन्धीँ) + ल्यप् →</big>
<big>प्र + त्रुम्प् (त्रुन्पँ) + ल्यप् →</big>
<big>प्र + त्रुम्फ् (त्रुन्फँ) + ल्यप् →</big>
<big>प्र + तृम्फ् (तृन्फँ) + ल्यप् →</big>
<big>प्र + तुम्फ् (तुन्फँ) + ल्यप् →</big>
<big>प्र + दृम्फ् (दृन्फँ) + ल्यप् →</big>
<big>प्र + गुम्फ् (गुन्फँ) + ल्यप् →</big>
<big>सम् + उम्भ् (उन्भँ) + ल्यप् →</big>
<big>प्र + शुम्भ् (शुन्भँ) + ल्यप् →</big>
<big>प्र + तुम्प् (तुन्पँ) + ल्यप् →</big>
<big>प्र + तृंह् (तृन्हूँ) + ल्यप् →</big>
<big>प्र + बुन्द् (उँबुन्दिँर्) + ल्यप् →</big>
<big>प्र + सञ्ज् (षन्जँ) + ल्यप् →</big>
<big>प्र + स्वञ्ज् (ष्वन्जँ) + ल्यप् →</big>
<big>प्र + दंश् (दन्शँ, दशिँ) + ल्यप् →</big>
====== <big>'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४)</big> ======
<big>'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न, लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
===== <big><u>विशेषः—स्कन्द् स्यन्द् इति धातू</u></big> =====
<big>स्कन्दिँर् (गतिशोषणयोः) च स्यन्दूँ (प्रस्रवणे) चेति भ्वादिगणीय-धातू अनिदितौ स्तः | स्कन्दिँर् इरित् न तु इदित्, अतः किति ङिति प्रत्यये परे अनयोः द्वयोः धात्वोः नकारलोपः भवति स्म '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इति सूत्रेन | किन्तु '''क्त्वि स्कन्दिस्यन्दोः''' (६.४.३१) इति सूत्रेण इदं कार्यं निषिध्यते | वस्तुतस्तु अनेन सूत्रेण क्त्वा-प्रत्यये परे नकारलोपः निषिध्यते, तदा स्थानिवद्भावेन ल्यपि परे अपि तथैव निषेधः भवति | </big>
<big>प्र + स्कन्द् + ल्यप् → '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां धातूनाम् उपधा-नकारस्य लोपः भवति किति ङिति प्रत्यये परे → '''क्त्वि स्कन्दिस्यन्दोः''' (६.४.३१) इत्यनेन स्कन्द्-धातोः उपधा-नकार-लोपः न भवति क्त्वा-प्रत्यये परे → स्थानिवद्भावेन ल्यपि परे अपि तथैव निषेधः → प्र + स्कन्द्+ य → प्रस्कन्द्य</big>
<big>एवमेव—</big>
<big>प्र + स्यन्द् + ल्यप् →</big>
====== <big>'''क्त्वि स्कन्दिस्यन्दोः''' (६.४.३१)</big> ======
<big>'''क्त्वि स्कन्दिस्यन्दोः''' (६.४.३१) = स्कन्द्-धातोः स्यन्द्-धातोः च उपधा-नकारस्य लोपः न भवति क्त्वा-प्रत्यये परे | एतौ द्वौ धातू अनिदितौ अपि च क्त्वा-प्रत्ययः कित्, अतः '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनयोः धात्वोः क्त्वा-प्रत्यये परे नकारलोपः जायते स्म | तदा प्रकृतसूत्रेण इदं कार्यं निषिध्यते | स्कन्दिश्च स्यन्द् च तयोरितरेतरद्वन्द्वः स्कन्दिस्यन्दौ, तयोः स्कन्दिस्यन्दोः | क्त्वि इति क्त्वा-शब्दस्य सप्तम्यन्तं रूपं, स्कन्दिस्यन्दोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''नलोपः''' इत्यस्य अनुवृत्तिः | '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यस्मात् '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''नाञ्चेः पूजायाम्''' (६.४.३०) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''स्कन्दिस्यन्दोः अङ्गयोः उपधायाः नलोपः क्त्वि न''' |</big>
=== '''<big>३) णिजन्तधातूनां ल्यप्-विधान-प्रक्रिया</big>''' ===
<big>णिच्-प्रत्ययः द्विविधः—स्वार्थिकः णिच्-प्रत्ययः, प्रेरणार्थकः णिच्-प्रत्ययः च | चुरादिगणे यः णिच्-प्रत्ययः विधीयते, तस्य संयोजनेन यः धातुः निष्पद्यते सः ’स्वार्थे’ भवति | '''हेतुमति च''' (३.१.२६) इति सूत्रेण यः णिच्-प्रत्ययः विधीयते, तस्य संयोजनेन यः धातुः निष्पद्यते सः ’प्रेरणार्थे’ भवति | उभयत्र—स्वार्थे च प्रेरणार्थे च—’णिजन्त-धातुः’ इत्युच्यते |</big>
<big>यथा—</big>
<big>स्वार्थे—</big>
<big>चुर् + णिच् → चोरि</big>
<big>कथ् + णिच् → कथि</big>
<big>गण् + णिच् → गणि</big>
<big>चिन्त् + णिच् → चिन्ति</big>
<big>भक्ष् + णिच् → भक्षि</big>
<big>प्रेरणार्थे—</big>
<big>पठ् + णिच् → पाठि</big>
<big>लिख् + णिच् → लेखि</big>
<big>गम् + णिच् → गमि</big>
<big>कृ + णिच् → कारि</big>
<big>श्रु + णिच् → श्रावि</big>
<big>णिजन्तधातौ णिच्-प्रत्ययात् पूर्वं हल्-वर्णः अस्ति चेत् अपि च तस्मात् हल्-वर्णात् पूर्वं लघु-अच्-वर्णः अस्ति चेत्, तर्हि ल्यपि परे णेः स्थाने अय्-आदेशः भवति '''ल्यपि लघुपूर्वात्''' (६.४.५६) इति सूत्रेण | '''ल्यपि लघुपूर्वात्''' (६.४.५६) इत्यनेन लघु-अच्-वर्णात् णेः अय्-आदेशो भवति ल्यपि परे |</big>
<big>णिचः पूर्वं लघुस्वरः, अतः ल्यपि अयादेशः—</big>
<big>प्र + कटि + ल्यप् → '''ल्यपि लघुपूर्वात्''' (६.४.५६) इत्यनेन लघु-अच्-वर्णात् णेः अय्-आदेशः ल्यपि परे → प्र + कट् + अय् + य → प्रकटय्य</big>
<big>निर् + गमि + ल्यप् → निर् + गम् + अय् + य → निर्गमय्य</big>
<big>वि + रचि + ल्यप् → वि + रच् + अय् + य → विरचय्य</big>
<big>एवमेव—</big>
<big>प्र + शमि + ल्यप् →</big>
<big>सम् + दमि + ल्यप् →</big>
<big>प्र + कथि + ल्यप् →</big>
<big>वि + गणि + ल्यप् →</big>
====== <big>'''ल्यपि लघुपूर्वात्''' (६.४.५६)</big> ======
<big>'''ल्यपि लघुपूर्वात्''' (६.४.५६) = लघु-अच्-वर्णात् णेः अय्-आदेशो भवति ल्यपि परे | '''णेरनिटि''' (६.४.५१) इत्यस्य अपवादः | लघुः पूर्वः यस्मात् सः लघुपूर्वः, तस्मात् लघुपूर्वात् | ल्यपि सप्तम्यन्तं, लघुपूर्वात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''णेरनिटि''' (६.४.५१) इत्यस्मात् '''णेः''' इत्यस्य अनुवृत्तिः | '''अयामन्ताल्वाय्येत्न्विष्णुषु''' (६.४.५५) इत्यस्मात् '''अय्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य''' '''लघुपूर्वात् णेः अय् ल्यपि''' |</big>
===== <big><u>णिचः पूर्वं लघुस्वरः नास्ति चेत् ल्यपि अयादेशः न भवति</u>—</big> =====
<big>प्र + ताडि + ल्यप् → '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपः → प्र + ताड् + य → प्रताड्य</big>
<big>एवमेव—</big>
<big>प्र + चोरि + ल्यप् →</big>
<big>उप + नि + मन्त्रि + ल्यप् →</big>
====== <big>'''णेरनिटि''' (६.४.५१)</big> ======
<big>'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अतो लोपः''' (६.४.४८) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |</big>
===== <big><u>आप्-धातोः विकल्पेन अयादेशः</u></big> =====
<big>णिजन्त-आप्-धातोः यद्यपि लघु-स्वरः नास्ति, तथापि तस्य ल्यपि परे णेः विकल्पेन अयादेशः भवति '''विभाषापः''' (६.४.५७) इति सूत्रेण |</big>
<big>अय्-आदेश-पक्षे—</big>
<big>प्र + आपि + ल्यप् → '''विभाषापः''' (६.४.५७) इत्यनेन → प्र + आप् + अय् + य → प्रापय्य</big>
<big>अय्-आदेश-विपक्षे—</big>
<big>प्र + आपि + ल्यप् → '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपः → प्र + आप् + य → प्राप्य</big>
====== <big>'''विभाषापः''' (६.४.५७)</big> ======
<big>'''विभाषापः''' (६.४.५७) = णिजन्त-आप्-धातोः णेः अय्-आदेशः विकलेन भवति ल्यपि परे | सिद्धान्तकौमुद्याम् आप्नोतेर्णेरयादेशो वा स्यात् ल्यपि | विभाषा प्रथमान्तम्, आपः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''णेरनिटि''' (६.४.५१) इत्यस्मात् '''णेः''' इत्यस्य अनुवृत्तिः | '''अयामन्ताल्वाय्येत्न्विष्णुषु''' (६.४.५५) इत्यस्मात् '''अय्''' इत्यस्य अनुवृत्तिः | '''ल्यपि लघुपूर्वात्''' (६.४.५६) इत्यस्मात् '''ल्यपि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य''' '''आपः णेः अय् ल्यपि विभाषा''' |</big>
===== <u><big>'''णेरनिटि''' (६.४.५१) इत्यस्य व्यवहारः—चुरादिगणे प्रेरणार्थे वैशिष्ट्यम्</big></u> =====
<big>चुरादिगणे णिच्-प्रत्ययः स्वार्थे विधीयते एव चुर् + णिच् → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्, द्वितीयः णिच्-प्रत्ययः विधीयते चोरि + णिच् | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदम्—</big>
====== <big>'''णेरनिटि''' (६.४.५१)</big> ======
<big>'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अतो लोपः''' (६.४.४८) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |</big>
<big>णिच्-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे कश्चन णिजन्तधातुः अस्ति चेत्, प्रेरणार्थे यदा द्वितीयः णिच्-प्रत्ययः विधीयते, तदा प्रथमणिचः (स्वार्थिकणिचः) लोपो भवति | अतः एकस्मिन् धातौ णिच् केवलं एकैव वारं सम्भवति | द्वितीयवारं णिचः विधानं भवति किन्तु '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथमस्य लोपो भवति | अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं समानम् |</big>
<big>चुर् → '''पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच् → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच् → चोरि + णिच् → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर् + इ → चोरि प्रेरणार्थे</big>
=== '''<big>४) <u>सन्-प्रत्ययान्तानां ल्यप्-विधान-प्रक्रिया</u></big>''' ===
<big>सन्नन्तधातूनाम् अन्ते सदा ह्रस्वः अकारः भवति—नाम एते धातवः सर्वे अदन्ताः । ल्यप्-प्रत्ययः आर्धधातुकः, अतः ल्यपि परे एषां सर्वेषां सन्नन्त-धातूनाम् अकारस्य लोपः भवति '''अतो लोपः''' (६.४.४८) इति सूत्रेण ।</big>
<big>यथा—</big>
<big>आ + जिगमिष + ल्यप् → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → आजिगमिष्य</big>
<big>एवमेव—</big>
<big>प्र + पिपठिष + ल्यप् →</big>
<big>प्र + चिकीर्ष + ल्यप् →</big>
<big>प्र + मुमुक्ष + ल्यप् →</big>
<big>प्र + युयुत्स + ल्यप् →</big>
====== <big>'''अतो लोपः''' (६.४.४८)</big> ======
<big>'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः अङ्गस्य''' नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |</big>
=== '''<big><u>अभ्यासः</u></big>''' ===
<big>एषां धातूनां ल्यबन्तरूपाणि कल्पनीयानि—</big>
<big>परि + अट (अट्) + ल्यप् →</big>
<big>सम् + अकि (अक्) + ल्यप् →</big>
<big>सम् + ऋजि (ऋज्) + ल्यप् →</big>
<big>सम् + ग्रुचु (ग्रुच्) + ल्यप् →</big>
<big>वि + तनु (तन्) + ल्यप् →</big>
<big>सम् + दिवु (दिव्) + ल्यप् →</big>
<big>वि + क्लेश (क्लेश्) + ल्यप् →</big>
<big>प्र + यमि (यमि) + ल्यप् → </big>
<big>प्र + क्वण (क्वण्) + ल्यप् → </big>
<big>प्र + जॄ + ल्यप् →</big>
<big>वि + कृष (कृष्) + ल्यप् →</big>
<big>सम् + अक्षू (अक्ष्) + ल्यप् →</big>
<big>प्र + चिन्ति (चिन्ति) + ल्यप् →</big>
<big>प्र + गृ + ल्यप् →</big>
<big>प्र + ध्वंस् + ल्यप् →</big>
<big>प्र + यम् + ल्यप् →</big>
<big>नि + मि + ल्यप् →</big>
<big>प्र + ञिष्वपँ (स्वप्) + ल्यप् →</big>
<big>उत् + डीङ् (डी) + ल्यप् →</big>
<big>प्र + चल (चल्) + ल्यप् →</big>
<big>वि + चिरि (चिरि) + ल्यप् →</big>
<big>सम् + जुषी (जुष्) + ल्यप् →</big>
<big>सम् + इ + ल्यप् →</big>
<big>वि + ग्रह (ग्रह्) + ल्यप् →</big>
<big>वि + धे + ल्यप् →</big>
<big>सम् + असँ (अस्) + ल्यप् →</big>
<big>सम् + अर्द (अर्द्) + ल्यप् →</big>
<big>वि + उष (उष्) + ल्यप् →</big>
<big>प्र + लेखि (लेखि) + ल्यप् →</big>
<big>Swarup - April 2024</big>
|