7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 330:
 
<big>-   ज्या धातुः</big>
 
 
 
<big>ज्या-धातुः सम्प्रसारणी अस्ति | ल्यप्‌-प्रत्ययः यतः कित्‌ अस्ति, अतः ल्यपि परे '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इत्यनेन सम्प्रसारणं भवेत्‌ | परन्तु '''ज्यश्च''' (६.१.४२) इत्यनेन ल्यपि परे ज्या-धातोः सम्प्रसारणं न भवति |</big>
 
 
 
<big>प्र + ज्या + ल्यप्‌ → '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम्‌ → '''ज्यश्च''' (६.१.४२) इत्यनेन ल्यपि परे ज्या-धातोः सम्प्रसारणं निषिद्धम्‌ → प्रज्याय</big>
 
 
 
<big>एवमेव—</big>
 
<big>उप + ज्या + ल्यप्‌ →</big>
 
 
 
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः; '''ष्यङः सम्प्रसारणम्‌ पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम्‌''' |</big>
 
 
 
<big>'''ज्यश्च''' (६.१.४२) = ज्या-धातोः सम्प्रसारणं न भवति ल्यपि परे | काशिकायां व्ये ज्या वयोहानौ इत्यस्य धातोर्ल्यपि परतः संप्रसारणं न भवति | ज्यः षष्ट्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सम्प्रसारणम् ह्वः''' (६.१.३२) इत्यस्मात्‌ '''सम्प्रसारणम्''' इत्यस्य अनुवृत्तिः, '''न सम्प्रसारणे सम्प्रसारणम्‌''' (६.१.३७) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः, '''ल्यपि च''' (६.१.४१) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ज्यः च ल्यपि न सम्प्रसारणम्''' |</big>