7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 258:
 
<big>'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |</big>
 
 
 
<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्‌, स्वप्‌, यज्‌, वप्‌, वह्‌, वस्‌, वद्‌, वेञ्‌, ह्वेञ्‌, श्वि, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम्‌ | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |</big>