7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 69:
 
 
<big>'''समासेऽनञ्पूर्वे क्त्वो ल्यप्''' (७.१.३७) = यस्मिन्‌ समासे पूर्वपदं नञ्‌-भिन्न-अव्ययं भवति, तस्मिन्‌ धातोः परस्य क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः भवति | सिद्धान्तकौमुद्याम्‌—अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् |  न नञ्‌ अनञ्‌, अनञ्‌ पूर्वं यस्मिन्‌ स अनञ्‌पूर्वः, तस्मिन्‌ | अनञ्‌ इत्यनेन पर्युदासप्रतिषेधः | नञ्‌-भिन्नं नञ्‌-सदृशं पदम्‌, इत्युक्ते अव्ययं स्यात्‌ किन्तु नञ्‌ इति अव्ययं न स्यात्‌ | समासे सप्तम्यन्तम्‌, अनञ्पूर्वे सप्तम्यन्तं, क्त्वः षष्ट्यन्तं, ल्यप्‌ प्रथमान्त्म्‌, अनेकपदमिदं सूत्रम्‌ |  अनुवृत्ति-सहितसूत्रम्‌—सूत्रं स्वयं सम्पूर्णम्‌— '''समासे अनञ्पूर्वे क्त्वः ल्यप्‌'''  |</big>