7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,067:
 
<big>अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनाम्‌ अन्ते स्थितस्य अनुनासिकस्य लोपो भवति ल्यपि परे; स च अनुनासिकवर्णः मकारः अस्ति चेत्‌ तस्य लोपः वैकल्पिकः, मकारः नास्ति चेत्‌ तस्य लोपः नित्यः |</big>
 
 
<big><u>सम्प्रसारणि-हलन्तधातवः</u></big>
 
<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) इति सूत्रेण वच्यादि इति एकादशानां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे । '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१६) इति सूत्रेण ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
 
<big>हलन्तानां सम्प्रसारणिनां धातूनां सम्प्रसारणम्‌—</big>
 
<big>प्र + वच्‌ + ल्यप्‌ → प्र + उच्‌ + य → प्रोच्य</big>
 
<big>प्र + स्वप्‌ + ल्यप्‌ → प्र + सप्‌ + य → प्रसुप्य</big>
 
<big>प्र + यज्‌ + ल्यप्‌ → प्र + इज्‌ + य → प्रेज्य</big>
 
<big>एवमेव—</big>
 
<big>प्र + वप्‌ + ल्यप्‌ →</big>
 
<big>प्र + वह्‌ + ल्यप्‌ →</big>
 
<big>प्र + वस्‌ + ल्यप्‌ →</big>
 
<big>प्र + वद्‌ + ल्यप्‌ →</big>
 
<big>प्र + ग्रह्‌ + ल्यप्‌ →</big>
 
<big>प्र + व्यध्‌ + ल्यप्‌ →</big>
 
<big>प्र + वश्‌ + ल्यप्‌ →</big>
 
<big>प्र + व्यच्‌ + ल्यप्‌ →</big>
 
<big>प्र + व्रश्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + प्रच्छ्‌ + ल्यप्‌ →</big>
 
<big>प्र + भ्रस्ज्‌ + ल्यप्‌ →</big>
 
<big>सम्प्रसारणं नाम किम्‌ इति चेत्‌—</big>
 
<big>'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |</big>
 
<big>सम्प्रसारण-विधायके द्वे सूत्रे—</big>
 
<big>'''वचिस्वपियजादीनां किति''' (६.१.१५) = वच्‌, स्वप्‌, यज्‌, वप्‌, वह्‌, वस्‌, वद्‌, वेञ्‌, ह्वेञ्‌, श्वि, व्येञ्‌ इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम्‌ | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''वचिस्वपियजादीनां सम्प्रसारणं किति''' |</big>
 
<big>'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१६) = ग्रह्‌, ज्या, वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | काशिकायां ग्रह उपादाने , ज्या वयोहानौ, वेञो वयिः, व्यध ताडने, वश कान्तौ, व्यच व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायाम्, भ्रस्ज पाके इत्येतेषां धातूनां ङिति प्रत्यये परतश्चकारात् किति च सम्प्रसारणं भवति । ग्रहिश्च ज्याश्च वयिश्च व्यधिश्च वष्टिश्च विचतिश्च वृश्चतिश्च पृच्छतिश्च भृज्जतिश्च तेषामितरेतरद्वन्द्बो ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतयः तेषां ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनाम्‌ । ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनाम् षष्ठ्यन्तं, ङिति सप्तम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ । '''ष्यङः सम्प्रसारणम्‌''' '''पुत्रपत्योस्तत्पुरुषे''' (६.१.१३) इत्यस्मात्‌ '''सम्प्रसारणम्‌''' इत्यस्य अनुवृत्तिः | '''वचिस्वपियजादीनां किति''' (६.१.१५) इत्यस्मात्‌ '''किति''' इत्यस्य अनुवृत्तिः |  अनुवृत्ति-सहितसूत्रम्‌— '''ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां सम्प्रसारणं किति ङिति च''' |</big>
 
<big><u>अनिदितः धातवः</u></big>
 
<big>येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे, '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इति सूत्रेण |</big>
 
<big>यथा—</big>
 
<big>प्र + स्कन्द्‌ + ल्यप्‌ → प्र + स्कद्‌ + य → प्रस्कद्य</big>
 
<big>प्र + स्रंस्‌ + ल्यप्‌ → प्र + स्रस्‌ + य → प्रस्रस्य</big>
 
<big>प्र + ध्वंस्‌ + ल्यप्‌ → प्र + ध्वस्‌ + य → प्रध्वस्य</big>
 
<big>एवमेव—</big>
 
<big>प्र + भ्रंस्‌ + ल्यप्‌ →</big>
 
<big>प्र + भ्रंश्‌ + ल्यप्‌ →</big>
 
<big>प्र + स्रम्भ्‌ + ल्यप्‌ →</big>
 
<big>प्र + मन्थ्‌ + ल्यप्‌ →</big>
 
<big>प्र + ग्रन्थ्‌ + ल्यप्‌ →</big>
 
<big>प्र + श्रन्थ्‌ + ल्यप्‌ →</big>
 
<big>प्र + कुन्थ्‌ + ल्यप्‌ →</big>
 
<big>प्र + शुन्ध्‌ + ल्यप्‌ →</big>
 
<big>प्र + कुञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + क्रुञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + लुञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + म्रुञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + म्लुञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + ग्लुञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + वञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + चञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + त्वञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + तञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + श्रम्भ्‌ + ल्यप्‌ →</big>
 
<big>प्र + दम्भ्‌ + ल्यप्‌ →</big>
 
<big>प्र + षृम्भ्‌ + ल्यप्‌ →</big>
 
<big>प्र + शंस्‌ + ल्यप्‌ →</big>
 
<big>प्र + कुंस्‌ + ल्यप्‌ →</big>
 
<big>प्र + रञ्ज्‌ + ल्यप्‌ →</big>
 
<big>प्र + स्यन्द्‌ + ल्यप्‌ →</big>
 
<big>प्र + भञ्ज्‌ + ल्यप्‌ →</big>
 
<big>प्र + भन्द्‌ + ल्यप्‌ →</big>
 
<big>प्र + अञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + अञ्ज्‌ + ल्यप्‌ →</big>
 
<big>प्र + उन्द्‌ + ल्यप्‌ →</big>
 
<big>प्र + इन्ध्‌ + ल्यप्‌ →</big>
 
<big>प्र + त्रुम्प्‌ + ल्यप्‌ →</big>
 
<big>प्र + त्रुम्फ्‌ + ल्यप्‌ →</big>
 
<big>प्र + तृम्फ्‌ + ल्यप्‌ →</big>
 
<big>प्र + तुम्फ्‌ + ल्यप्‌ →</big>
 
<big>प्र + दृम्फ्‌ + ल्यप्‌ →</big>
 
<big>प्र + ॠम्फ्‌ + ल्यप्‌ →</big>
 
<big>प्र + गुम्फ्‌ + ल्यप्‌ →</big>
 
<big>प्र + उम्भ्‌ + ल्यप्‌ →</big>
 
<big>प्र + शुम्भ्‌ + ल्यप्‌ →</big>
 
<big>प्र + तुम्प्‌ + ल्यप्‌ →</big>
 
<big>प्र + तृन्ह्‌ + ल्यप्‌ →</big>
 
<big>प्र + बुन्द्‌ + ल्यप्‌ →</big>
 
<big>प्र + षञ्च्‌ + ल्यप्‌ →</big>
 
<big>प्र + ष्वञ्ज्‌ + ल्यप्‌ →</big>
 
<big>प्र + दंश्‌ + ल्यप्‌ →</big>
 
<big>प्र + स्यन्दू + ल्यप्‌ →</big>
 
<big>'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न, लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>