7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions
7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah (view source)
Revision as of 23:58, 12 March 2024
, 2 months agono edit summary
No edit summary |
No edit summary |
||
Line 1,252:
'''<big>३) णिजन्तधातूनां ल्यप्-विधान-प्रक्रिया</big>'''
<big>णिच्-प्रत्ययः द्विविधः—स्वार्थिकः णिच्-प्रत्ययः, प्रेरणार्थकः णिच्-प्रत्ययः च | चुरादिगणे यः णिच्-प्रत्ययः विधीयते, तस्य संयोजनेन यः धातुः निष्पद्यते सः ’स्वार्थे’ भवति | '''हेतुमति च''' (३.१.२६) इति सूत्रेण यः णिच्-प्रत्ययः विधीयते, तस्य संयोजनेन यः धातुः निष्पद्यते सः ’प्रेरणार्थे’ भवति | उभयत्र—स्वार्थे च प्रेरणार्थे च—’णिजन्त-धातुः’ इत्युच्यते |</big> ▼
▲<big>णिच्-प्रत्ययः द्विविधः—स्वार्थिकः णिच्-प्रत्ययः, प्रेरणार्थकः णिच्-प्रत्ययः च | चुरादिगणे यः णिच्-प्रत्ययः विधीयते, तस्य संयोजनेन यः धातुः निष्पद्यते सः ’स्वार्थे’ भवति | '''हेतुमति च''' (३.१.२६) इति सूत्रेण यः णिच्-प्रत्ययः विधीयते, तस्य संयोजनेन यः धातुः निष्पद्यते सः ’प्रेरणार्थे’ भवति | उभयत्र—स्वार्थे च प्रेरणार्थे च—’णिजन्त-धातुः’ इत्युच्यते |</big>
<big>यथा—</big>
<big>स्वार्थे—</big>
Line 1,267 ⟶ 1,273:
<big>भक्ष् + णिच् → भक्षि</big>
<big>प्रेरणार्थे—</big>
Line 1,279 ⟶ 1,287:
<big>श्रु + णिच् → श्रावि</big>
<big>णिजन्तधातौ णिच्-प्रत्ययात् पूर्वं हल्-वर्णः अस्ति चेत् अपि च तस्मात् हल्-वर्णात् पूर्वं लघु-अच्-वर्णः अस्ति चेत्, तर्हि ल्यपि परे णेः स्थाने अय्-आदेशः भवति '''ल्यपि लघुपूर्वात्''' (६.४.५६) इति सूत्रेण | '''ल्यपि लघुपूर्वात्''' (६.४.५६) = लघु-अच्-वर्णात् णेः अय्-आदेशो भवति ल्यपि परे |</big>
<big>णिचः पूर्वं लघुस्वरः, अतः ल्यपि अयादेशः—</big>
Line 1,288 ⟶ 1,300:
<big>निर् + गमि + ल्यप् → निर् + गम् + अय् + य → निर्गमय्य</big>
<big>वि + रचि + ल्यप् → वि + रच् + अय् + य → विरचय्य</big>
<big>एवमेव—</big>
Line 1,299 ⟶ 1,313:
<big>वि + गणि + ल्यप् →</big>
<big>'''ल्यपि लघुपूर्वात्''' (६.४.५६) = लघु-अच्-वर्णात् णेः अय्-आदेशो भवति ल्यपि परे | '''णेरनिटि''' (६.४.५१) इत्यस्य अपवादः | लघुः पूर्वः यस्मात् सः लघुपूर्वः, तस्मात् लघुपूर्वात् | ल्यपि सप्तम्यन्तं, लघुपूर्वात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''णेरनिटि''' (६.४.५१) इत्यस्मात् '''णेः''' इत्यस्य अनुवृत्तिः | '''अयामन्ताल्वाय्येत्न्विष्णुषु''' (६.४.५५) इत्यस्मात् '''अय्''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य''' '''लघुपूर्वात् णेः अय् ल्यपि''' |</big>
<big><u>णिचः पूर्वं लघुस्वरः नास्ति चेत् ल्यपि अयादेशः न भवति</u>—</big>
<big>प्र + ताडि + ल्यप् → '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपः → प्र + ताड् + य → प्रताड्य</big>
<big>एवमेव—</big>
Line 1,312 ⟶ 1,333:
<big>उप + नि + मन्त्र् + ल्यप् →</big>
<big>'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अतो लोपः''' (६.४.४८) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |</big>
<big><u>आप्-धातोः विकल्पेन अयादेशः</u></big>
<big>णिजन्त-आप्-धातोः यद्यपि लघु-स्वरः नास्ति, तथापि तस्य ल्यपि परे णेः विकल्पेन अयादेशः भवति '''विभाषापः''' (६.४.५७) इति सूत्रेण |</big> ▼
▲<big>णिजन्त-आप्-धातोः यद्यपि लघु-स्वरः नास्ति, तथापि तस्य ल्यपि परे णेः विकल्पेन अयादेशः भवति '''विभाषापः''' (६.४.५७) इति सूत्रेण |</big>
<big>अय्-आदेश-पक्षे—</big>
<big>प्र + आपि + ल्यप् → '''विभाषापः''' (६.४.५७) इत्यनेन → प्र + आप् + अय् + य → प्रापय्य</big>
<big>अय्-आदेश-विपक्षे—</big>
<big>प्र + आपि + ल्यप् → '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपः → प्र + आप् + य → प्राप्य</big>
<big>'''विभाषापः''' (६.४.५७) = णिजन्त-आप्-धातोः णेः अय्-आदेशः विकलेन भवति ल्यपि परे | सिद्धान्तकौमुद्याम् आप्नोतेर्णेरयादेशो वा स्यात् ल्यपि | विभाषा प्रथमान्तम्, आपः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''णेरनिटि''' (६.४.५१) इत्यस्मात् '''णेः''' इत्यस्य अनुवृत्तिः | '''अयामन्ताल्वाय्येत्न्विष्णुषु''' (६.४.५५) इत्यस्मात् '''अय्''' इत्यस्य अनुवृत्तिः | '''ल्यपि लघुपूर्वात्''' (६.४.५६) इत्यस्मात् '''ल्यपि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य''' '''आपः णेः अय् ल्यपि विभाषा''' |</big>
<big><u>चुरादिगणे प्रेरणार्थे वैशिष्ट्यम्</u></big>
<big>चुरादिगणे णिच्-प्रत्ययः स्वार्थे विधीयते एव चुर् + णिच् → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्, द्वितीयः णिच्-प्रत्ययः विधीयते चोरि + णिच् | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदम्—</big>
<big>'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''अतो लोपः''' (६.४.४८) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |</big>
<big>णिच्-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे कश्चन णिजन्तधातुः अस्ति चेत्, प्रेरणार्थे यदा द्वितीयः णिच्-प्रत्ययः विधीयते, तदा प्रथमणिचः (स्वार्थिकणिचः) लोपो भवति | अतः एकस्मिन् धातौ णिच् केवलं एकैव वारं सम्भवति | द्वितीयवारं णिचः विधानं भवति किन्तु '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथमस्य लोपो भवति | अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं समानम् |</big>
<big>चुर् → '''पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच् → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच् → चोरि + णिच् → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर् + इ → चोरि प्रेरणार्थे</big>
|