7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,071:
 
 
<big>यः धातुः ऋकारादिः, तस्मात्‌ पूर्वं तादृशः उपसर्गः अस्ति यस्य अन्ते अकारः अस्ति चेत्‌, द्वयोः वर्णयोः स्थाने एकः वृद्धेः एकादेशः भवति '''उपसर्गादृति धातौ''' (६.१.९१) इति सूत्रेण |</big>
 
 
<big>यथा—</big>
 
<big>प्र + ऋणु + ल्यप्‌ → प्र + ऋण्‌ + य → '''उपसर्गादृति धातौ''' (६.१.९१) इत्यनेन अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः → प्रार्ण्‌ + य → '''वा ल्यपि''' (६.४.३८) इत्यनेन अनुनासिकलोपः ल्यपि → प्रार्‌ + य → '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) इत्यनेन ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे → प्रार्त्‌ + य → प्रार्त्य</big>
 
 
 
<big>'''उपसर्गादृति धातौ''' (६.१.९१) = अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः भवति | उपसर्गात् पञ्चम्यन्तम्‌, ऋति सप्तम्यन्तं, धातौ सप्तम्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''आद्गुणः''' (६.१.८७) इत्यस्मात्‌ '''आत्''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८८) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४) इत्यस्य अधिकारः | '''यस्मिन् विधिस्तदादावल्ग्रहणे''' इति परिभाषया तदादिविधिना तादृशधातुः यस्य आदौ ऋकारः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्— '''आत् उपसर्गात् ऋति धातौ पूर्वपरयोः एकः वृद्धिः''' |</big>