7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,081:
<big>प्र + ऋणु + ल्यप्‌ → प्र + ऋण्‌ + य → '''वा ल्यपि''' (६.४.३८) इत्यनेन अनुनासिकलोपः ल्यपि → प्र + ऋ + य → '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) इत्यनेन ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे प्र + ऋ + ‌त्‌ + य → '''उपसर्गादृति धातौ''' (६.१.९१) इत्यनेन अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः → प्रा + ‌त्‌ + य → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः → प्रार्‌ + ‌त्‌ + य → प्रार्त्य</big>
 
<big>प्रक्रियायाः सूत्राणां बलाबलचिन्तनम्‌— '''वा ल्यपि''' (६.४.३८), '''उपसर्गादृति धातौ''' (६.१.९१) इयनयोः युगपत्‌ प्रसक्तिः; द्वयोः मध्ये '''वा ल्यपि''' (६.४.३८) परसूत्रम्‌, अङ्गकार्यञ्च अतः तस्य प्राप्तिः | तदा '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१), '''उपसर्गादृति धातौ''' (६.१.९१) इत्यनयोः युगपत्‌ प्रसक्तिः; द्वयोः मध्ये '''उपसर्गादृति धातौ''' (६.१.९१) परसूत्रं, नित्यसूत्रं च, किन्तु अन्तरङ्गत्वात्‌ '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) इत्यस्य प्राप्तिः | '''उपसर्गादृति धातौ''' (६.१.९१) इत्यस्य कृते बहिरङ्गत्वम्‌ अस्ति निमित्तत्वात्‌ उपसर्गः अपेक्षितः यः भिन्नपदम्‌ अस्ति; '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७१) इत्यस्मिन्‌ प्रत्ययः निमित्तम्‌ अस्ति—प्रत्ययः भिन्नपदं नास्ति किन्तु उपसर्गः पदमस्ति, अतः '''उपसर्गादृति धातौ''' (६.१.९१) इत्यस्य बहिरङ्गत्वात्‌ अनन्तरं प्राप्तिः तस्य |</big>