7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,162:
<big>यथा—</big>
 
<big>प्र + स्कन्द्‌मन्थ्‌ + ल्यप्‌ → प्र + स्कद्‌मथ्‌ + य → प्रस्कद्यप्रमथ्य</big>
 
<big>प्र + स्रंस्‌ + ल्यप्‌ → प्र + स्रस्‌ + य → प्रस्रस्य</big>
Line 1,219:
 
<big>प्र + रञ्ज्‌ + ल्यप्‌ →</big>
 
<big>प्र + स्यन्द्‌ + ल्यप्‌ →</big>
 
<big>प्र + भञ्ज्‌ + ल्यप्‌ →</big>
Line 1,269 ⟶ 1,267:
 
<big>'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न, लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
 
 
<big><u>विशेषः—स्कन्द्‌ स्यन्द्‌ इति धातौ</u></big>
 
<big>स्कन्दिँर् (गतिशोषणयोः) च स्यन्दूँ (प्रस्रवणे) चेति भ्वादिगणीय-धातू अनिदितौ स्तः | स्कन्दिँर् इरित्‌ न तु इदित्‌, अतः किति ङिति प्रत्यये परे अनयोः द्वयोः धात्वोः नकारलोपः भवति स्म '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इति सूत्रेन | किन्तु '''क्त्वि स्कन्दिस्यन्दोः''' (६.४.३१) इति सूत्रेण इदं कार्यं निषिध्यते | वस्तुतस्तु अनेन सूत्रेण क्त्वा-प्रत्यये परे नकारलोपः निषिध्यते, तदा स्थानिवद्भावेन ल्यपि परे अपि तथैव निषेधः भवति |  </big>
 
<big>प्र + स्कन्द्‌ + ल्यप्‌ → '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां धातूनाम्‌ उपधा-नकारस्य लोपः भवति किति ङिति प्रत्यये परे → '''क्त्वि स्कन्दिस्यन्दोः''' (६.४.३१) इत्यनेन स्कन्द्-धातोः उपधा-नकार-लोपः न भवति क्त्वा-प्रत्यये परे → स्थानिवद्भावेन ल्यपि परे अपि तथैव निषेधः → प्र + स्कन्द्‌+ य → प्रस्कन्द्य</big>
 
<big>एवमेव—</big>
 
<big>प्र + स्यन्द्‌ + ल्यप्‌ →</big>
 
<big>'''क्त्वि स्कन्दिस्यन्दोः''' (६.४.३१) = स्कन्द्-धातोः स्यन्द्-धातोः च उपधा-नकारस्य लोपः न भवति क्त्वा-प्रत्यये परे | एतौ द्वौ धातू अनिदितौ अपि च क्त्वा-प्रत्ययः कित्‌, अतः '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनयोः धात्वोः क्त्वा-प्रत्यये परे नकारलोपः जायते स्म | तदा प्रकृतसूत्रेण इदं कार्यं निषिध्यते | स्कन्दिश्च स्यन्द्‌ च तयोरितरेतरद्वन्द्वः स्कन्दिस्यन्दौ, तयोः स्कन्दिस्यन्दोः | क्त्वि इति क्त्वा-शब्दस्य सप्तम्यन्तं रूपं, स्कन्दिस्यन्दोः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''नलोपः''' इत्यस्य अनुवृत्तिः | '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः |  '''नाञ्चेः पूजायाम्''' (६.४.३०) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''स्कन्दिस्यन्दोः अङ्गयोः उपधायाः नलोपः क्त्वि न''' |</big>