7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,267:
 
<big>'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न, लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
 
 
 
<big><u>विशेषः—स्कन्द्‌ स्यन्द्‌ इति धातौ</u></big>
 
 
 
<big>स्कन्दिँर् (गतिशोषणयोः) च स्यन्दूँ (प्रस्रवणे) चेति भ्वादिगणीय-धातू अनिदितौ स्तः | स्कन्दिँर् इरित्‌ न तु इदित्‌, अतः किति ङिति प्रत्यये परे अनयोः द्वयोः धात्वोः नकारलोपः भवति स्म '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इति सूत्रेन | किन्तु '''क्त्वि स्कन्दिस्यन्दोः''' (६.४.३१) इति सूत्रेण इदं कार्यं निषिध्यते | वस्तुतस्तु अनेन सूत्रेण क्त्वा-प्रत्यये परे नकारलोपः निषिध्यते, तदा स्थानिवद्भावेन ल्यपि परे अपि तथैव निषेधः भवति |  </big>
page_and_link_managers, Administrators
5,094

edits