7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,434:
'''<big>४) <u>सन्‌-प्रत्ययान्तानां ल्यप्‌-विधान-प्रक्रिया</u></big>'''
 
<big>सन्नन्तधातूनाम्‌ अन्ते सदा ह्रस्वः अकारः भवति—नाम एते धातवः सर्वे अदन्ताः । ल्यप्‌-प्रत्ययः आर्धधातुकः, अतः ल्यपि परे एषां सर्वेषां सन्नन्त-धातूनाम्‌ अकारस्य लोपः भवति '''अतो लोपः''' (६.४.४८) इति सूत्रेण ।</big>
 
<big>यथा—</big>
 
<big>आ + जिगमिष + ल्यप्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → आजिगमिष्य</big>
 
<big>एवमेव—</big>
 
<big>प्र + पिपतिष + ल्यप्‌ →</big>
 
<big>'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः अङ्गस्य''' नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्तस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |</big>
 
'''<big><u>अभ्यासः</u></big>'''
 
<big>एषां धातूनां ल्यबन्तरूपाणि कल्पनीयानि—</big>
 
<big>सम्‌ + अकि + ल्यप्‌ →</big>