7---ArdhadhAtukaprakaraNam/18---tavyat, tumun, tRuc: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(34 intermediate revisions by 2 users not shown)
Line 73:
|-
|<big>३३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/384_tRc-tumun-tavyat---yangantadhAtavaH_%2B_yanglugantadhAtavaH_%2B_kyac-kyaS-kyang_2023-10-31.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_yanglugantadhAtavaH_+_kyac-kyaS-kyang_2023-10-31]</big>
|-
|<big>३४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/385_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH_2023-11-07.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH_2023-11-07]</big>
|-
|<big>३५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/386_tRc-tumun-tavyat---samagra-cintanam_%2B_abhyAsaH_2023-11-14.mp3 tRc-tumun-tavyat---samagra-cintanam_+_abhyAsaH_2023-11-14]</big>
|-
|<big>३६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/387_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH_2023-11-21.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH_2023-11-21]</big>
|-
|<big>३८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/388_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH-2_2023-11-28.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH-2_2023-11-28]</big>
|-
|<big>३९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/389_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH-3_2023-12-05.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH-3_2023-12-05]</big>
|-
|<big>४०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/390_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH-4_2023-12-12.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH-4_2023-12-12]</big>
|-
|<big>४१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/391_tRc-tumun-tavyat---yangantadhAtavaH_%2B_%E0%A4%AF%E0%A4%B8%E0%A5%8D%E0%A4%AF-%E0%A4%B9%E0%A4%B2%E0%A4%83-arthaH_%2B_%E0%A4%85%E0%A4%9A%E0%A4%83-%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A5%8C-prasaktiH-5_%2B_rUpAbhyAsaH_2023-12-19.mp3 tRc-tumun-tavyat---yangantadhAtavaH_+_यस्य-हलः-arthaH_+_अचः-परस्मिन्‌-पूर्वविधौ-prasaktiH-5_+_rUpAbhyAsaH_2023-12-19]</big>
|}
 
Line 1,124 ⟶ 1,138:
<big>'''एचोऽयवायावः''' ('''६'''.'''१'''.'''७७''') = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्‌, अव्‌, आय्‌, आव्‌ इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय्‌ च, अव्‌ च, आय्‌ च, आव्‌ च, तेषाम्‌ इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्‌, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः अयवायावः अचि संहितायाम्‌''' |</big>
 
===== <big>'''लघूपधधातवः''' (सेट् धातुः )</big> =====
 
<big>लघूपधधातवः (सेट् धातुः )</big>
 
 
Line 4,079 ⟶ 4,092:
<big><br /></big>
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
<big><br /></big>
Line 4,564 ⟶ 4,577:
 
 
<big><br />अत्र प्रश्नः आगतः यत्‌ '''यस्य हलः''' (६.४.४९) इत्यनेन ‘य’-शब्दस्य लोपानन्तरं यदा '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणः जायमानः, तदा 'इतव्य / इतुम्‌ / इतृ' निमित्तं मत्वा “अल्लोपः स्थानिवत्‌” भवति इत्यस्मात्‌ उपधागुणः यत्र बाधितः तत्र “अल्लोपः स्थानिवत्‌” इत्यस्य कथनेन अल्लोपस्य स्थानिवत्त्वंस्थानिवत्त्वम्‌ अकारे एव वा, सम्पूर्णयशब्दे वा | तत्र मात्रा उच्यते यत्‌ “'''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत्‌ भवति पूर्वविधौ कर्तव्ये”, अत्रैव सूत्रार्थे अस्यां परिस्थितौ समस्या जायते यतोहि ’य’-शब्दस्य लोपः अजादेशः एव नास्ति अतः ’य’-शब्दस्य लोपः प्रसङ्गः इति चेत, “'''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य प्रसक्तिरेव नास्ति |  </big>
 
 
<big>समाधानत्वेन मात्रमातृभिः प्रतिपाद्यते यत्‌ '''यस्य हलः''' (६.४.४९) इत्यनेन ’य’-शब्दस्य लोपो न भवति; यकारस्य एव लोपः | तदा '''अतो लोपः''' (६.४.४८) इत्यनेन अकारस्य लोपः—अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे (प्रथमं '''यस्य हलः''' (६.४.४९) तदा '''अतो लोपः''' (६.४.४८); यदि '''अतो लोपः''' (६.४.४८) प्रथमंइत्यस्य भवतिकार्यं प्रथमं चेत्‌क्रियते, तर्हि '''यस्य हलः''' (६.४.४९) इत्यस्य कार्यप्रसङ्गेप्रसक्तिरेव अकारस्य स्थानिवत्त्वात्‌भविष्यति यकारोत्तरवर्त्यकारस्याभावात्‌ | अपि च '''यस्यअचः हलःपरस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्मिन्‌ स्थानिवद्भावः निषेधार्थ न तु विधानार्थं भवति अतः '''अतो लोपः''' (६.४.४९४८) इत्यस्यइत्यनेन प्रसक्तिर्बाधिता)अकारलोपविधानं साधयितुं न शक्यते अकारस्य स्थानिवद्भावेन |) '''यस्य हलः''' (६.४.४९) इत्यनेन यकारस्य एव लपःलोपः, इयम्‌ आश्चर्यस्य वार्ता यतोहि '''यस्य हलः''' (६.४.४९) इत्यस्य काशिका-व्याख्यायां लिखितमस्ति यत्‌ “हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति”; सिद्धान्तकौमुद्याञ्च “यस्येति संघातग्रहणम् | हलः“हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके |“ तदुत्तरे माता उक्तवतीवदति यत्‌ तेद्वयोः यङन्तप्रक्रियार्थंग्रन्थयोः ’य-शब्दः’ चिन्तितवन्तःइत्यस्य अर्थः एवं नास्ति यत्‌ यकार-अकारयोः लोपो भवति, अग्रेउभयग्रन्थे अधोभगे’संघातग्रहणम्‌’ इत्यस्य उक्तत्वात्‌ | ’संघातग्रहणम्‌’ इत्यस्य सम्पूर्णबोधनार्थम्‌ अग्रे पठितव्यम्‌ |</big>
 
<big>समाधानत्वेन मात्र प्रतिपाद्यते यत्‌ '''यस्य हलः''' (६.४.४९) इत्यनेन ’य’-शब्दस्य लोपो न भवति; यकारस्य एव लोपः | तदा '''अतो लोपः''' (६.४.४८) इत्यनेन अकारस्य लोपः—अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे (प्रथमं '''यस्य हलः''' (६.४.४९) तदा '''अतो लोपः''' (६.४.४८); '''अतो लोपः''' (६.४.४८) प्रथमं भवति चेत्‌, '''यस्य हलः''' (६.४.४९) इत्यस्य कार्यप्रसङ्गे अकारस्य स्थानिवत्त्वात्‌ '''यस्य हलः''' (६.४.४९) इत्यस्य प्रसक्तिर्बाधिता) | '''यस्य हलः''' (६.४.४९) इत्यनेन यकारस्य एव लपः, इयम्‌ आश्चर्यस्य वार्ता यतोहि '''यस्य हलः''' (६.४.४९) इत्यस्य काशिका-व्याख्यायां लिखितमस्ति यत्‌ “हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति”; सिद्धान्तकौमुद्याञ्च “यस्येति संघातग्रहणम् | हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके |“ तदुत्तरे माता उक्तवती यत्‌ ते यङन्तप्रक्रियार्थं न चिन्तितवन्तः, अग्रे अधोभगे पठितव्यम्‌ |</big>
 
Line 4,576 ⟶ 4,589:
 
 
<big>यथोक्तं माता वदति यत्‌ '''यस्य हलः''' (६.४.४९) इत्यनेन ’य’-शब्दस्य (यकराकारयोः) लोपः यदि स्यात्‌ तर्हि '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य प्रसक्तिरेव नाभविष्यत्‌ यतोहि अचः एव स्थानिवत्त्वं विधीयते, तत्र च अकारः स्थानी नास्ति अपि तु ’य’-शव्दः एव स्थानी | तस्यां दशायां स्थानिवत्त्वं न भवति |</big>
 
 
 
<big>लेलिख्य + इतव्य इति स्थले '''अतो लोपः''' (६.४.४८) इत्यनेन एव अकारस्य लोपः भवति न तु '''यस्य हलः''' (६.४.४९) इत्येनन, प्रमाणार्थं '''यस्य हलः''' (६.४.४९) इत्यस्य पदमञ्जरी-व्याख्यायां माता प्रदर्शितवती यत्‌ “अवश्यं '''चातो लोप''' एवात्रैष्टव्यः, अन्यथा पापचक इत्यादौ '''अत उपधायाः''' इति वृद्धिः स्यात्, स्थानिवद्भावान्न भवति | तस्मात्सङ्घातस्य ग्रहणम्, अवयवशस्तु लोप इति, तदेव युक्तम् |“ पच्‌ + यङ्‌ → पापच्य + ण्वुल्‌ → '''यस्य हलः''' (६.४.४९) → पापच्‌ + ण्वुल्‌ → अकारसहितयकारस्य लोपेन '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य अप्रसक्तिः; स्थानिवत्त्वाभावात्‌ '''अत उपधायाः''' इत्यनेन वृद्धिः → पापाचक इति अनिष्टरूपम्‌ | यदि क्रमेण '''यस्य हलः''' (६.४.४९) इत्यनेन यकारस्य लोपः क्रियते अपि च '''अतो लोपः''' (६.४.४८) इत्यनेन अकारस्य लोपः, तदा '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य स्थानिवत्त्वात्‌ '''अत उपधायाः''' इत्यनेन वृद्धित्वं नास्ति, तस्मात्‌ ’पापचक’ इति इष्टं रूपं जायते |</big>
 
 
 
<big>अधुना काशिकायां किं लिखितमिति पश्येम—</big>
 
 
 
<big>“हल उत्तरस्य यशब्दस्यार्धधातुके लोपो भवति | बेभिदिता | बेभिदितुम् | बेभिदितव्यम् | यस्येति सङ्घातग्रहणमेतत् | तत्र ’अलोऽन्त्यस्य’ (१.१.५२) इत्येतद्‌ न भवति, ’अतो लोपः’ (६.४.४८) इत्यनेनैव तस्य सिद्धत्वात् | हल इति वा पञ्चमीनिर्देशः, तत्र ’आदेः परस्य’ (६.४.४९) इति यकारोऽनेन लुप्यते | सङ्घातग्रहणं किम् ? ईर्ष्यिता | मव्यिता | हल इति किम्? लोलूयिता | पोपूयिता |”</big>
 
 
 
<big>अत्र काशिकायां “यशब्दस्यार्धधातुके लोपो भवति” इति तु लिखितमस्ति, किन्तु तदा लिखितमस्ति “यस्येति सङ्घातग्रहणमेतत्” | सङ्घातग्रहणम्‌ इत्युक्ते यत्‌ यकारस्य लोपः एव भवति न तु अकारस्य, किन्तु तदा यकारलोपः प्रसक्तः यदा स च यकारः अकारसहितः | अकारः नास्ति चेत्‌, यकारलोपः न जायते | अतः विशेषतः उक्तं यत्‌ “यस्येति सङ्घातग्रहणमेतत्” | नो चेत्‌ यदि “यशब्दस्य लोपः” इत्यस्य सामान्यः अर्थः अभिविष्यत्‌ तर्हि “यस्येति सङ्घातग्रहणमेतत्” इति वदनस्य आवश्यकता नासीत्‌—“यशब्दस्य लोपः” इत्यस्य वदनेन सर्वेषां बोधः तु भवत्येव यत्‌ द्वयोः वर्णयोः लोपः जायमानः; तदानीम्‌ अतिरिक्तं वक्तव्यमस्ति यदा सामान्यः अर्थः नास्ति |</big>
 
 
 
<big>प्रश्नः उदेति यत्‌ काशिकाकारस्य च अपरेषां व्याख्याकाराणाञ्च मनसि कुतः विचारः आगतः “यस्येति सङ्घातग्रहणमेतत्” ? '''यस्य हलः''' (६.४.४९) इति सूत्रे तदर्थमेव ’यस्य’ इत्युक्तं न तु ’यः’ | नो चेत्‌ '''’यः हलः’''' इति सूत्ररूपं स्यात्‌ तेन यकारस्य एव लोपः इति स्पष्टतया सूचितः अभविष्यत्‌ | किन्तु तदा “अकारसहितयकारः भवेत्‌” इति तादृशी सूचना न प्राप्येत | ’यस्य’ इत्यस्य कथनेन प्रथमाविभक्तौ ’यः’; ’यः’ इत्यस्य प्रथमाविभक्तौ ’य्‌’ इत्येव, नाम यकारः एव | किन्तु अनेन इष्टकार्यं सर्वत्र न सिध्यति; अधोभागे प्रदर्श्यते | अपि च यथोक्तम्‌ उपरि, ’यस्य’ इत्यस्य कथनेन य-शब्दः इति अर्थः न भवितुमर्हति यतोहि तथा अस्ति चेत्‌, '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन  अजादेशस्य अभावात्‌ स्थानिवद्भावः न भविष्यति, यस्मात्‌ गुणकार्यस्य सिद्धत्वात्‌ अनिष्टं रूपम्‌ आयास्यति | अतः ’यः’ नोक्तम्‌ इति कृत्वा केवलं सामान्ययकारलोपः अपि नास्ति, ’यस्य’ इति उक्तम्‌ चेदपि यशब्दलोपः असम्भवः, अनेन पर्यवसितं यत्‌ ’यस्य’ इत्यस्य कथनेन तादृशस्य यकारस्य लोपः यः यकारः अकारयुक्तः—इति इष्टः अर्थः इति कृत्वा व्याख्याकारैः उक्तं “यस्येति सङ्घातग्रहणमेतत्” |</big>
 
 
 
<big>अग्रे “तत्र ’अलोऽन्त्यस्य’ (१.१.५२) इत्येतद्‌ न भवति, ’अतो लोपः’ (६.४.४८) इत्यनेनैव तस्य सिद्धत्वात् |” '''यस्य हलः''' (६.४.४९)  इति सूत्रे ‘यस्य’ इति षष्ठ्यन्तं पदं; तदर्थं सूत्रे '''यस्य लोपः''' इत्यस्य कथनेन '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन यकारोत्तरवर्तिनः अकारस्य एव लोपः भवति स्म | किन्तु अस्य आवश्यकता नास्ति यतोहि '''अतो लोपः''' (६.४.४८) इत्यनेन अकारलोपः सेत्स्यति | अतः उक्तं यत्‌ '''अतो लोपः''' (६.४.४८) इत्यनेनैव तस्य (अकारलोपस्य) सिद्धत्वात् '''अलोऽन्त्यस्य''' (१.१.५२) इत्येतद्‌ न भवति |</big>
 
 
 
<big>तदा काशिकायां दत्तमस्ति यत्‌ “हल इति वा पञ्चमीनिर्देशः, तत्र ’आदेः परस्य’ (६.४.४९) इति यकारोऽनेन लुप्यते |” अत्र उच्यते यत्‌ यतोहि ’हलः’ इति कार्यस्य निमित्तं पञ्चमीविभक्तौ, तदर्थं लोपः यः विधीयते सः केवलम्‌ अग्रिमभागस्य प्रथमवर्णस्य स्थाने भवति | अत्र बोध्यं यत्‌ ’वा’ इत्यस्य कथनेन ’सूत्रार्थविकल्पः’ इत्यस्य इङ्गितं नास्ति, इति मात्रा उक्तम्‌ | अत्र केवलं '''यस्य हलः''' (६.४.४९) इत्यस्य यः एकः एव अर्थः (यत्‌ यकारस्य एव लोपः न तु य-शब्दस्य), तस्य प्रतिपादनार्थम्‌ इतोऽपि एकः मार्गः अयम्‌ |</big>
 
 
<big>'''आदेः परस्य''' (६.४.४९) = पञ्चमीनिर्दिष्टात्‌ निमित्तात्‌ विद्यमानशब्दः, उक्तः आदेशः तस्य शब्दस्य प्रथमवर्णस्य एव स्थाने भवति | परस्य यद्विहितं तत्तस्यादेर्बोध्यम् इति सिद्धान्तकौमुदी | परिभाषासूत्रम्‌ एतत्‌ | इदं सूत्रं '''तस्मादित्त्युत्तरस्य''' (१.१.६७) इति नियमयति | '''तस्मादित्त्युत्तरस्य''' (१.१.६७) इत्यनेन यावत्‌ अस्ति परं तत्सर्वम्‌ इति सूचयति; '''आदेः परस्य''' (६.४.४९) इत्यनेन उच्यते यत्‌ केवलं परभागस्य प्रथमवर्णस्य कार्यम्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्मात्‌ '''अलः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''परस्य आदेः अलः''' '''स्थाने''' |</big>
 
 
 
<big>अग्रे काशिकायाम्‌ उक्तं यत्‌ “सङ्घातग्रहणं किम् ? ईर्ष्यिता | मव्यिता |” अत्र ईर्ष्य्-धातुः, मव्य्-धातुः योगः तृच्‌-प्रत्ययः | ईर्ष्य् + इतृ → यदि '''यस्य हलः''' (६.४.४९) इत्यनेन हल्वर्णात्‌ आर्धधातुके परे यकारलोपः भवति तर्हि यकारस्य अत्रापि लोपः भविष्यति यः अनिष्टः | तस्य निवारणार्थम्‌ उक्तं “'''यस्येति सङ्घातग्रहणमेतत्'''” इति | अनेन अवगम्यते यत्‌ यः यकारः अकारसहितः तस्य एव लोपः भवति हलः आर्धधातुके |  </big>
 
 
 
<big>काशिकायाः अन्तिमः अंशः अस्ति, “हल इति किम् ? लोलूयिता | पोपूयिता |” अनेन बोध्यं यत्‌ यकारात्‌ प्राक्‌ हल्‌ वर्णः नास्ति चेत्‌, यकारलोपो न भवतीति | लोलूय + इतृ | पोपूय + इतृ |</big>
 
 
<big>अत्र प्रश्नः उदेति यत्‌ '''यस्य हलः''' (६.४.४९) इति सूत्रेण ’य’-शब्दस्य (यकाराकारयोः) लोपः भवति चेत्‌ लाघवं भवति '''अतो लोपः''' (६.४.४८) इत्यस्य अनावश्यकत्वात्‌ | तदर्थम्‌ '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन यः लोपः अजादेशः उक्तः, तस्य अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम्‌, अनेन तस्य स्थानिवद्भावः अपि भविष्यति, लाघवमपि भविष्यति | नो चेत्‌ लेलिख्य + इतव्य इति स्थले यशब्दलोपानन्तरं लेलिख्‌ + इतव्य → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां स्थितस्य लघु-इकः गुणः भविष्यति अतः लेलेखितव्य इति अनिष्टरूपं जायेत | तर्हि अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम्‌ | मातृभिः पृष्टं तथा भवितुमर्हति वा इति | ताभिः प्रतिपादितं यत्‌ भाष्यकारैः प्रदर्शितं यत्‌ अनेकैः कारणैः '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति स्थले अजादेशः इत्युक्ते एक एव अच्‌-वर्णस्यः यः आदेशः | अच्‌-युक्तहल्वर्णः चेत्‌ अथवा अच्‌-युक्त-अच्‌-वर्णः चेत्‌ अजादेशः स्वीकर्तुं न शक्यते |</big>
 
 
 
<big>भाष्यकारैः प्रमाणत्वेन अनेकानि उदाहरणानि दत्तनि | अत्र एकम्‌—</big>
 
 
 
<big>विंशति → “विंशतेः पूरणम्” इति अर्थे विंशति-शब्दात् '''तस्य पूरणे डट्''' (५.२.४८) इत्यनेन डट्-प्रत्ययः → विंशति + डट् → अनुबन्धलोपानन्तरम्‌ → विंशति + अ → अस्मिन् प्रत्यये परे 'विंशति' इत्यस्य '''यचि भम्''' (१.४.१८) इत्यनेन भ-संज्ञा भवति, तदा '''ति विंशतेर्डिति''' (६.४.१४२)  इत्यनेन भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः → विंश + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः पररूप-एकादेशः → विंश इति शब्दः</big>
 
 
 
<big>अत्र ति-लोपः भवति, ’ति’ इत्यत्र तकारः + इकारः, वर्णद्वयस्य लोपः| अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन तिलोपः अजादेशः इति स्वीक्रियते चेत् विंशः इति रूपं न लभ्यते यतोहि “विंश + ति + अ” इति भवति | '''अतो गुणे''' (६.१.९७) इत्यस्य प्रसक्तिः तदा नास्ति | “विंश + ति + अ” इति एव तिष्ठति | अथवा अजादेशत्वेन इकारः एव स्वीक्रियते चेत्‌ “विंश + इ + अ” → '''अतो गुणे''' (६.१.९७) → विंशि + अ → विंश्य इति अनिष्टं रूपम्‌ | अतः कथञ्चिदपि अस्यां दशायां यत्र एकमेव अच्‌-वर्णं त्यक्त्वा वर्णद्वयमस्ति, तत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन अजादेशः न स्वीकर्तव्यः |</big>
 
 
 
<big>अन्यत्‌ उदाहरणाम्‌—</big>
 
 
 
<big>'''स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः''' (६.४.१५६) = स्थूल-दूर-युव-ह्रस्व-क्षिप्र-क्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ठ-इमन्-ईयस् इत्येषु प्रत्ययेषु परेषु, पूर्वस्य च गुणो भवति |</big>
 
 
<big>स्थूल + इष्ठन् → '''स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः''' (६.४.१५६) इत्यनेन यणादिः लुप्यते → ल (ल् + अ) इत्यस्य लोपः → स्थू + इष्ठन् → तदा तेन एव सूत्रेण गुणः → स्थो + इष्ठ → '''एचोऽयवायावः'''  (६.१.७८) → स्थविष्ठः इति रूपम् |</big>
 
 
 
<big>अत्र अजादेशत्वं लशब्दलोपे स्वीक्रियते चेत् तस्य स्थानिवद्भावः भवति | तर्हि स्थो + इष्ठ → गुणादेशः तु भवति '''स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः''' (६.४.१५६) इति सूत्रेण | परन्तु स्थो + इष्ठ → अधुना स्थानिवद्भावः भवति ल इति एकादेशस्य | अतः स्थो + ल + इष्ठ → '''एचोऽयवायावः'''  (६.१.७८) इत्यस्य कार्यं न भवति अतः ’स्थविष्ठ’ इति रूपं न लभ्यते | अतः यत्र एकमेव अच्‌-वर्णं त्यक्त्वा वर्णद्वयमस्ति, तत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन अजादेशः च स्थानिवद्भावश्च न स्वीकर्तव्यः |</big>
 
<big>लेलिख्य + इतव्य इति स्थले '''अतो लोपः''' (६.४.४८) इत्यनेन एव अकारस्य लोपः भवति न तु '''यस्य हलः''' (६.४.४९) इत्येनन, प्रमाणार्थं '''यस्य हलः''' (६.४.४९) इत्यस्य पदमञ्जरी-व्याख्यायां माता प्रदर्शितवती यत्‌ “अवश्यं '''चातो लोप''' एवात्रैष्टव्यः, अन्यथा पापचक इत्यादौ '''अत उपधायाः''' इति वृद्धिः स्यात्, स्थानिवद्भावान्न भवति | तस्मात्सङ्घातस्य ग्रहणम्, अवयवशस्तु लोप इति, तदेव युक्तम् |“ पच्‌ + यङ्‌ → पापच्य + ण्वुल्‌ → '''यस्य हलः''' (६.४.४९) → पापच्‌ + ण्वुल्‌ → अकारसहितयकारस्य लोपेन '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य अप्रसक्तिः; स्थानिवत्त्वाभावात्‌ '''अत उपधायाः''' इत्यनेन वृद्धिः → पापाचक इति अनिष्टरूपम्‌ | यदि क्रमेण '''यस्य हलः''' (६.४.४९) इत्यनेन यकारस्य लोपः क्रियते अपि च '''अतो लोपः''' (६.४.४८) इत्यनेन अकारस्य लोपः, तदा '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यस्य स्थानिवत्त्वात्‌ '''अत उपधायाः''' इत्यनेन वृद्धित्वं नास्ति, तस्मात्‌ ’पापचक’ इति इष्टं रूपं जायते |</big>
 
 
 
<big>आहत्य '''यस्य हलः''' (६.४.४९) इति सूत्रेण आर्धधातुकप्रत्यये परे हलुत्तरस्य ’य’-शब्दस्य लोपो नास्ति अपि तु यकारस्य एव | तदा '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | अनेन च '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्येनेनइत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, यस्मात्‌ लेलिख्य + इतव्य इति स्थले अनिष्टं गुणकार्यं न भवति, इष्टं रूपञ्च लेलिखितव्य जायते |</big>
 
 
page_and_link_managers, Administrators
5,152

edits