7---ArdhadhAtukaprakaraNam/18---tavyat, tumun, tRuc: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 4,625:
 
<big>अत्र प्रश्नः उदेति यत्‌ '''यस्य हलः''' (६.४.४९) इति सूत्रेण ’य’-शब्दस्य (यकाराकारयोः) लोपः भवति चेत्‌ लाघवं भवति '''अतो लोपः''' (६.४.४८) इत्यस्य अनावश्यकत्वात्‌ | तदर्थम्‌ '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन यः लोपः अजादेशः उक्तः, सः अजादेशत्वं यशब्दलोपे स्वीकर्तव्यः, अनेन तस्य स्थानिवद्भावः भवति | नो चेत्‌ लेलिख्य + इतव्य इति स्थले यशब्दलोपानन्तरं लेलिख्‌ + इतव्य → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां स्थितस्य लघु-इकः गुणः भविष्यति अतः लेलेखितव्य इति अनिष्टरूपं जायेत | तर्हि अजादेशत्वं यशब्दलोपे स्वीकर्तव्यः | मातृभिः पृष्टं तथा भवितुमर्हति वा इति | ताभिः प्रतिपादितं यत्‌ भाष्यकारैः प्रदर्शितं यत्‌ अनेकैः कारणैः '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति स्थले अजादेशः इत्युक्ते एक एव अच्‌-वर्णः | अच्‌-युक्तहल्वर्णः चेत्‌ अथवा अच्‌-युक्त-अच्‌-वर्णः चेत्‌ अजादेशः स्वीकर्तुं न शक्यते |</big>
 
 
 
<big>भाष्यकारैः प्रमाणत्वेन अनेकानि उदाहरणानि दत्तनि । अत्र एकम्‌—</big>
 
 
<big>भाष्यकारैः प्रमाणत्वेन अनेकानि उदाहरणानि दत्तनि | अत्र एकम्‌—</big>
 
<big>विंशति → “विंशतेः पूरणम्” इति अर्थे विंशति-शब्दात् '''तस्य पूरणे डट्''' (५.२.४८) इत्यनेन डट्-प्रत्ययः → विंशति + डट् → अनुबन्धलोपानन्तरम्‌ → विंशति + अ → अस्मिन् प्रत्यये परे 'विंशति' इत्यस्य '''यचि भम्''' (१.४.१८) इत्यनेन भ-संज्ञा भवति, तदा '''ति विंशतेर्डिति''' (६.४.१४२)  इत्यनेन भसंज्ञकस्य विंशति-शब्दस्य 'ति'-इत्यस्य लोपः → विंश + अ → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः पररूप-एकादेशः → विंश इति शब्दः</big>
 
<big>अत्र ति-लोपः भवति, ’ति’ इत्यत्र तकारः + इकारः, वर्णद्वयस्य लोपः।लोपः| अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन तिलोपः अजादेशः इति स्वीक्रियते चेत् विंशः इति रूपं न लभ्यते यतोहि “विंश + ति + अ” इति भवति | '''अतो गुणे''' (६.१.९७) इत्यस्य प्रसक्तिः तदा नास्ति | “विंश + ति + अ” इति एव तिष्ठति | अथवा अजादेशत्वेन इकारः एव स्वीक्रियते चेत्‌ “विंश + इ + अ” → '''अतो गुणे''' (६.१.९७) → विंशि + अ → विंश्य इति अनिष्टं रूपम्‌ | अतः कथञ्चिदपि अस्यां दशायां यत्र एकमेव अच्‌-वर्णं त्यक्त्वा वर्णद्वयमस्ति, तत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन अजादेशः न स्वीकर्तव्यः |</big>
 
 
<big>अत्र ति-लोपः भवति, ’ति’ इत्यत्र तकारः + इकारः, वर्णद्वयस्य लोपः। अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन तिलोपः अजादेशः इति स्वीक्रियते चेत् विंशः इति रूपं न लभ्यते यतोहि “विंश + ति + अ” इति भवति । '''अतो गुणे''' (६.१.९७) इत्यस्य प्रसक्तिः तदा नास्ति । “विंश + ति + अ” इति एव तिष्ठति । अथवा अजादेशत्वेन इकारः एव स्वीक्रियते चेत्‌ “विंश + इ + अ” → '''अतो गुणे''' (६.१.९७) → विंशि + अ → विंश्य इति अनिष्टं रूपम्‌ । अतः कथञ्चिदपि अस्यां दशायां यत्र एकमेव अच्‌-वर्णं त्यक्त्वा वर्णद्वयमस्ति, तत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन अजादेशः न स्वीकर्तव्यः ।</big>
 
 
<big>अन्यत्‌ उदाहरणाम्‌—</big>
 
<big>'''स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः''' (६.४.१५६) = स्थूल-दूर-युव-ह्रस्व-क्षिप्र-क्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ठ-इमन्-ईयस् इत्येषु प्रत्ययेषु परेषु, पूर्वस्य च गुणो भवति |</big>
 
<big>स्थूल + इष्ठन् → '''स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः''' (६.४.१५६) इत्यनेन यणादिः लुप्यते → ल (ल् + अ) इत्यस्य लोपः → स्थू + इष्ठन् → तदा तेन एव सूत्रेण गुणः → स्थो + इष्ठ → '''एचोऽयवायावः'''  (६.१.७८) → स्थविष्ठः इति रूपम् |</big>
 
<big>अत्र अजादेशत्वं लशब्दलोपे स्वीक्रियते चेत् तस्य स्थानिवद्भावः भवति | तर्हि स्थो + इष्ठ → गुणादेशः तु भवति '''स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः''' (६.४.१५६) इति सूत्रेण | परन्तु स्थो + इष्ठ → अधुना स्थानिवद्भावः भवति ल इति एकादेशस्य | अतः स्थो + ल + इष्ठ → '''एचोऽयवायावः'''  (६.१.७८) इत्यस्य कार्यं न भवति अतः ’स्थविष्ठ’ इति रूपं न लभ्यते | अतः यत्र एकमेव अच्‌-वर्णं त्यक्त्वा वर्णद्वयमस्ति, तत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन अजादेशः च स्थानिवद्भावश्च न स्वीकर्तव्यः |</big>
<big>'''स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः''' (६.४.१५६) = स्थूल-दूर-युव-ह्रस्व-क्षिप्र-क्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ठ-इमन्-ईयस् इत्येषु प्रत्ययेषु परेषु, पूर्वस्य च गुणो भवति ।</big>
 
 
 
<big>स्थूल + इष्ठन् → '''स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः''' (६.४.१५६) इत्यनेन यणादिः लुप्यते → ल (ल् + अ) इत्यस्य लोपः → स्थू + इष्ठन् → तदा तेन एव सूत्रेण गुणः → स्थो + इष्ठ → '''एचोऽयवायावः'''  (६.१.७८) → स्थविष्ठः इति रूपम् ।</big>
 
 
 
<big>अत्र अजादेशत्वं लशब्दलोपे स्वीक्रियते चेत् तस्य स्थानिवद्भावः भवति । तर्हि स्थो + इष्ठ → गुणादेशः तु भवति '''स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः''' (६.४.१५६) इति सूत्रेण । परन्तु स्थो + इष्ठ → अधुना स्थानिवद्भावः भवति ल इति एकादेशस्य । अतः स्थो + ल + इष्ठ → '''एचोऽयवायावः'''  (६.१.७८) इत्यस्य कार्यं न भवति अतः ’स्थविष्ठ’ इति रूपं न लभ्यते । अतः यत्र एकमेव अच्‌-वर्णं त्यक्त्वा वर्णद्वयमस्ति, तत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन अजादेशः च स्थानिवद्भावश्च न स्वीकर्तव्यः ।</big>