9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 281:
 
पञ्चमं भाट्टसूत्रम्‌ = '''अतः परस्य विसर्जनीयस्य आचि लोपः''' [आति इचि च] | अतः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तम्‌, आचि सप्तम्यन्तं, लोपः प्रथमान्तम् इति | आच्‌ इत्युक्तौ आत्‌ इच्‌ च | पाणिनिः एवं दीर्घस्वरं स्वीकृत्य प्रत्याहारं न करोति | पाणिनिः "आचि" व्यक्तीकर्तुम्‌ इच्छेत्‌‌ तर्हि "आति इचि च" इति लिखेत्‌ | पाणिनीयक्रमः अनुसरणीयः अस्ति चेत्‌, एवं वक्तव्यं भवति | किन्तु अयं भाट्टकक्रमः, पाणिनीयक्रमः न इति दर्शयितुम्‌ अयं विलक्षणः प्रत्याहारः "आच्" कृतः | तर्हि यत्र आचि‌ लिखितम्‌ अस्ति, तत्र "आति इचि" इति बोध्यम्‌ | सारांशः— विसर्गात्‌ पूर्वम्‌ अत्‌ अस्ति चेत्‌, अपि च विसर्गस्य पुरतः आत्‌ इच्‌‌ वा अस्ति चेत्‌, विसर्गस्य लोपः भवति |
 
 
* बालः इच्छति → बाल इच्छति*
 
* तथैव रामः आगच्छति → राम आगच्छति*