9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 379:
 
१. <u>रेफान्तानि अव्ययानि</u>
 
 
* प्रातः इच्छति → प्रात इच्छति = दोषः
 
 
 
“प्रात इच्छति" तु '''अतः परस्य विसर्जनीयस्य आचि लोपः''' इति सूत्रम्‌ अनुसृत्य भवति स्म, परन्तु अत्र दोषः |
 
 
* प्रातः इच्छति → प्रातरिच्छति = साधु
 
 
 
अत्र नियमः यत्‌ यत्र रेफान्तानि अव्ययानि सन्ति, तत्र केवलं भाट्टसूत्रेषु प्रथमसूत्रं कार्यं करोति | अन्यत्र सर्वत्र रेफः एव आदिष्टः | अतः रेफान्त-अव्ययानां कृते सूत्राणि २ -५ इत्येषां स्थाने रेफः एव भवति |
 
 
* प्रातः तिष्ठति → प्रातस्तिष्ठति = साधु<br />
इदं उदाहरणं प्रथमसूत्रेण ('''विसर्जनीयस्य सः खरि कखपफे तु विसर्गः''' इत्यनेन) प्रवर्तते; अन्यत्र सर्वत्र रेफः |
 
 
अव्ययस्य अन्ते विसर्गः अस्ति चेत्‌, तस्य अव्ययस्य प्रातिपदिकं ज्ञेयम्‌ | रेफान्तं प्रातिपदिकम्‌ अस्ति चेत्‌, तर्हि तद्‌ अव्ययम्‌ अपवादभूतम्‌ अस्ति इति धेयम्‌ | यथा प्रातः इत्यस्य प्रातिपदिकं प्रातर्‍; पुनः इत्यस्य प्रातिपदिकं पुनर्‍; अन्तः इत्यस्य प्रातिपदिकम्‌ अन्तर् | इमानि अव्ययानि रेफान्तानि अतः अपवादभूतानि | परन्तु प्रातिपदिकं रेफान्तं नास्ति चेत्‌, तर्हि सामान्यैः सूत्रैः क्रमः प्रवर्तते | यथा "अतः" रेफान्तं नास्ति |
 
* अतः इच्छति → "अतरिच्छति" = दोषः
 
* अतः इच्छति → "अतरिच्छति" = दोषः
* अतः इच्छति → अत इच्छति = साधु ('''अतः परस्य विसर्जनीयस्य आचि लोपः''' इति सूत्रम्‌)
 
२. <u>एषः सः</u>
 
teachers
340

edits