9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions
9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH (view source)
Revision as of 09:57, 2 June 2021
, 2 years agono edit summary
No edit summary |
No edit summary |
||
Line 484:
'''H'''. <u>विसर्गसन्धेः पञ्च सोपानानि - सूत्रसहितदृष्टिः</u>
'''१'''. <u>प्रथमं सोपानम्</u>— विसर्गस्य पुरतः कः वर्णः ?
'''विसर्गस्य पुरतः खर्-वर्णः अस्ति चेत्, तर्हि विसर्गस्य स्थाने सकारः भवति |'''
प्रथमं भाट्टसूत्रम् = '''विसर्जनीयस्य सः खरि कखपफे तु विसर्गः'''
* रामः तिष्ठति → रामस्तिष्ठति
Line 495 ⟶ 502:
* गुरुः तिष्ठति → गुरुस्तिष्ठति
* रामः चिन्तयति → रामश्चिन्तयति
सम्प्रति शास्त्रीयरीत्या विसर्गससन्धेः साधनमार्गम् अवलोकयाम | समग्रतया पश्यामः चेत्, शास्त्रपथि पक्षद्वयं वर्तते; द्वयमपि साधु | पदगतसंस्कारपक्षः, वाक्यगतसंस्कारपक्षश्च | पदगतसंस्कारपक्षे प्रत्येकं पदं पृथक्तया साध्यते, अनन्तरमेव सिद्धपदानि वाक्ये स्थाप्यन्ते |
यथा— राम + सु → रामः; पृथक्तया त्यज् + तिप् → त्यजति | अनन्तरमेव 'रामः त्यजति' इति वाक्यस्तरे स्थाप्यते | किन्तु वाक्यगतसंस्कारपक्षे, यावन्तः प्रकृतयः च प्रत्ययाः च सन्ति, ते सर्वे वाक्यस्तरे एव उपस्थाप्यन्ते | यथा— राम + सु + त्यज् + तिप् | तदा वाक्ये एव सर्वं पदनिर्माणकार्यं भवति | कुत्रचित् पक्षद्वयेऽपि फलं समानं; कुत्रचित् फलं समानं नास्ति | वैयाकरणाः वाक्यगतसंस्कारपक्षं मनसि निधाय कार्यं कुर्वन्ति | अतः अत्र तथैव कुर्मः |
राम + सु + स्था + तिप् → रामस् + तिष्ठति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर् + तिष्ठति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशः खरि परे → रामः तिष्ठति → '''विसर्जनीयस्य सः ('''८.३.३४) इत्यनेन विसर्जनीयस्य सकारादेशः खरि परे → रामस्तिष्ठति
राम + सु + चिति + तिप् → '''ससजुषो''' रुः (८.२.६६) → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → रामः + चिन्तयति → '''विसर्जनीयस्य''' सः (८.३.३४) → रामस् + चिन्तयति → '''स्तोः श्चुना श्चुः''' (८.४.४०) → रामश्चिन्तयति
अत्र पदगतसंस्कारपक्षे वाक्यगतसंस्कारपक्षे फलं समानं यतोहि पदगतसंस्कारपक्षे अवसाने अपि '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः, वाक्यगतसंस्कारपक्षे अपि खरि परे '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः | किन्तु अग्रे अपरेषु स्थलेषु द्रक्ष्यामः तथा समानफलं नास्ति |
Line 512 ⟶ 523:
'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च | खर् च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''रो रि''' (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | रः 'पदस्य' इत्यस्य विशेषणम्; '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् पदं यस्य अन्ते रेफः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्''' |
'''विसर्जनीयस्य सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात् '''खरि''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्''' |
अस्मिन् प्रथमे सोपाने कश्चन प्रश्नः उदेति यत् एकवारं यदा पदान्ते सकारः आदिश्यते, तदा किमर्थं न पदान्तस्य सकारस्य, '''ससजुषो''' '''रुः''' (८.२.६६) इति सूत्रेण, पुनः रुत्वं स्यात् ? '''ससजुषो''' '''रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति |
रामः तिष्ठति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) इत्यनेन विसर्जनीयस्य सकारादेशः खरि परे → रामस् + तिष्ठति
Line 525 ⟶ 540:
शरि परे (शकारः, षकारः, सकारः इत्येषु परेषु) संहितायां विषये विसर्गसन्धिः वैकल्पिकः न तु नित्यः |
* वृष्टिः शीतला → वृष्टिश्शीतला / वृष्टिःशीतला
Line 534 ⟶ 550:
'''विसर्जनीयस्य सः''' (८.३.३४) इत्यनेन शरि परे अपि विसर्गस्य स्थाने सकारादेशः नित्यः यतोहि शर्-प्रत्याहारः खर्-प्रत्याहारे अन्तर्भूतः | किन्तु शरि परे '''विसर्जनीयस्य सः''' (८.३.३४) इति प्रबाध्य '''वा शरि''' (८.३.३६) इत्यनेन विसर्गस्य विकल्पेन विसर्गादेशः |
सर्पः सरति → '''वा शरि''' (८.३.३६) इत्यनेन शरि परे विसर्गस्य विकल्पेन विसर्गादेशः → सर्पःसरति → यस्मिन् पक्षे विसर्गादेशः न भवति, '''विसर्जनीयस्य सः''' (८.३.३४) इत्यनेन खरि परे विसर्जनीयस्य स्थाने सकारादेशः → सर्पस्सरति
वृष्टिः शीतला → '''वा शरि''' (८.३.३६) → वृष्टिःशीतला → '''विसर्जनीयस्य सः''' (८.३.३४) → '''स्तोः श्चुना श्चुः''' (८.४.४०) → वृष्टिश्शीतला
बालकः षष्ठः → '''वा शरि''' (८.३.३६) → बालकःषष्ठः → '''विसर्जनीयस्य सः''' (८.३.३४) → '''ष्टुना ष्टुः''' (८.४.४१) → बालकष्षष्ठः
अन्यत् वैशिष्ट्यम्—
* रामः खादति → राम≍खादति / रामः खादति
* रामः पठति → राम≍पठति / रामः पठति
'''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) = कवर्गे परे पवर्गे च परे विसर्जनीय-विसर्गस्य, जिह्वामूलीयस्य उपध्मानीयस्य च विसर्गादेशो भवति, पक्षे विसर्गः एव तिष्ठति | च-शब्देन पक्षे विसर्ग एव | '''विसर्जनीयस्य सः''' (८.३.३४) इत्यस्य अपवादः | कुश्च पुश्च कुपू, तयोः कुप्वोः इतरेतरद्वन्द्वः | ≍ कश्च ≍ पश्च ≍ क ≍ पौ, इतरेतरद्वन्द्वः | कुप्वोः सप्तम्यन्तं, ≍ क ≍ पौ प्रथमान्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''विसर्जनीयस्य सः''' (८.३.३४) इत्यस्मात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य ≍ क ≍ पौ कुप्वोः च''' |
राम + सु + खाद् + तिप् → रामस् + खादति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर् + खादति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशः खरि परे → रामः खादति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) इति प्रबाध्य '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यनेन जिह्वामूलीय-आदेशः → राम ≍ खादति; पक्षे रामः खादति इत्येव तिष्ठति |
उपरितने सूत्रे 'कवर्गे परे पवर्गे च' इत्युक्तं; तर्हि कवर्गीयः पवर्गीयः वा हश्-वर्णः अस्ति चेदपि एतादृशं भवति किम् ? भाट्टसूत्रे ''''कखपफे तु विसर्गः'''<nowiki/>' इति उक्तं, नाम कवर्गस्य पवर्गस्य च खर्-प्रत्याहारस्थवर्णेषु एव जिह्वामूलीयस्य उपध्मानीयस्य आदेशः भवति किल ? सत्यमेव | '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य कार्यं तदा भवति यदा विसर्गः आगतः | किन्तु अग्रे हश्-वर्णः अस्ति चेत्, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य प्रसक्तिरेव नास्ति अतः विसर्गः न भवति एव | तस्मात् '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य इत्यस्य अवसरः न उदेति—
Line 559 ⟶ 585:
'''हशि च''' (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यस्मात् '''अप्लुतात्, अतः, रोः''' इत्येषाम् अनुवृत्तिः | '''ऋत उत्''' (६.१.१११) इत्यस्मात् '''उत्''' इत्यस्य अनुवृत्तिः | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— | '''अप्लुतात् अतः रोः उत् हशि च संहितायाम्''' |
'''२'''. <u>द्वितीयं सोपानम्</u>— विसर्गात् पूर्वं कः वर्णः ?
|