9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 518:
 
अत्र पदगतसंस्कारपक्षे वाक्यगतसंस्कारपक्षे फलं समानं यतोहि पदगतसंस्कारपक्षे अवसाने अपि '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः, वाक्यगतसंस्कारपक्षे अपि खरि परे '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः | किन्तु अग्रे अपरेषु स्थलेषु द्रक्ष्यामः तथा समानफलं नास्ति |
 
 
'''ससजुषो रुः''' (८.२.६६) = पदान्त-सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |
 
 
 
Line 545 ⟶ 547:
* बालकः षष्ठः → बालकष्षष्ठः / बालकःषष्ठः
* सर्पः सरति → सर्पस्सरति / सर्पःसरति<br />
 
 
 
'''वा शरि''' (८.३.३६) = विसर्गस्य विकल्पेन विसर्गादेशो भवति शरि परे | शरि विसर्गस्य विसर्गो वा स्यात्‌ | '''विसर्जनीयस्य सः''' (८.३.३४) इति सूत्रस्य अपवादः | वा अव्ययपदं, शरि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''शर्परे विसर्जनीयः''' (८.३.३५) इत्यस्मात्‌ '''विसर्जनीयः''' इत्यस्य अनुवृत्तिः | '''विसर्जनीयस्य सः''' (८.३.३४) इत्यस्मात्‌ '''विसर्जनीयस्य इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य विसर्जनीयः वा शरि संहितायाम्‌''' |
 
 
 
teachers
340

edits