9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 705:
 
'''४'''. '''चतुर्थं सोपानम्‌'''— विसर्गात्‌ पूर्वम् अत्‌ (ह्रस्वः अकारः) अस्ति वा ?
 
 
 
चतुर्थं भाट्टसूत्रम्‌ = '''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्‌''' |
 
 
* बालः अस्ति → बाल + उ + अस्ति → गुणसन्धिः → बालो + अस्ति → पूर्वरूपसन्धिः → बालोऽस्ति
* बालः धावति → बाल + उ + धावति → गुणसन्धिः → बालो धावति
 
 
 
 
 
 
बाल + सु + अस्‌ + तिप्‌ → बालस्‌ + अस्ति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → बालर्‍ + अस्ति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य अचि परे प्रसक्तिः नास्ति → '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यनेन अति परे ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः → बाल + उ + अस्ति → '''आद्‌गुणः''' (६.१.८७) इत्यनेन अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → बालो अस्ति → '''एङः पदान्तादति''' (६.१.१०९) इत्यनेन पदान्तात्‌ एङ्‌-वर्णात्‌ अति परे पूर्वपरयोः स्थाने पूर्वरूपः एकादेशः → बालोऽस्ति
 
 
 
 
'''अतो रोरप्लुतादप्लुते''' (६.१.११३) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति प्लुतभिन्न-ह्रस्व-अकारे परे | न प्लुतः अप्लुतः, तस्मात्‌ अप्लुतात्‌ तस्मिन्‌ अप्लुते | अतः पञ्चम्यन्तं, रोः षष्ठ्यन्तम्‌, अप्लुतात्‌ पञ्चम्यन्तम्‌, अप्लुते सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''ऋत उत्'''‌ (६.१.१११) इत्यस्मात्‌ '''उत्‌''' इत्यस्य अनुवृत्तिः | '''एङः पदान्तादति''' (६.१.१०९) इत्यस्मात्‌ '''अति''' इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— '''अप्लुतात्‌ अतः रोः उत्‌ अप्लुते अति संहितायाम्'''‌ |
 
 
 
 
 
पूर्वरूपसन्धिः (यान्तवान्तादेशसन्धि-अपवादः)—
 
 
 
'''एङः पदान्तादति''' (६.१.१०९) = पदान्तात्‌ एङ्‌-वर्णात्‌ अति परे पूर्वपरयोः स्थाने पूर्वरूपः एकादेशः स्यात्‌ | पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्‌ | एङः पञ्चम्यन्तं, पदान्तात्‌ पञ्चम्यन्तम्‌, अति सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात्‌ '''पूर्वः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— प'''दान्तात्‌ एङः अति पूर्वपरयोः एकः पूर्वः संहितायाम्‌ |'''
Line 731 ⟶ 743:
 
'''हशि च''' (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यस्मात्‌ '''अप्लुतात्‌, अतः, रोः''' इत्येषाम्‌ अनुवृत्तिः | '''ऋत उत्'''‌ (६.१.१११) इत्यस्मात्‌ उत्‌ इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— '''अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌ |'''
 
 
 
 
 
'''५'''. <u>पञ्चमं सोपानम्</u>‌—विसर्गात्‌ पूर्वम्‌ अत्‌ अस्ति चेत्‌, अग्रे आत्‌ इच्‌ वा अस्ति वा ?
 
 
 
teachers
340

edits