9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 754:
पञ्चमं भाट्टसूत्रम्‌ = '''अतः परस्य विसर्जनीयस्य आचि लोपः''' [आति इचि च] |
 
 
* बालः इच्छति → बाल इच्छति / बालयिच्छति
 
* रामः आगच्छति → राम आगच्छति / रामयागच्छति|
* बालः इच्छति → बाल इच्छति / बालयिच्छति
 
 
* रामः आगच्छति → राम आगच्छति / रामयागच्छति|
 
 
 
यथोक्तं, वैयाकरणाः वाक्यगतसंस्कारपक्षं पालयन्ति | अतः अत्र शास्त्रीयक्रमः अयम्—
 
 
 
एकवचने बाल + सु + इष्‌ + तिप्‌ → बालस्‌* + इच्छति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → बाल + रु + इच्छति → अनुबन्धलोपे* → बालर्‍ + इच्छति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → बालय्‌ + इच्छति → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' → बाल इच्छति / बालयिच्छति
 
 
 
Line 770 ⟶ 777:
 
<nowiki>*</nowiki>'''उपदेशेऽजनुनासिक इत्''' (१.३.२), '''तस्य लोपः''' (१.३.९)
 
 
 
'''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) = भो-भगो-अघो-अवर्ण-पूर्वस्य रु-शब्दस्य रेफस्य यकारादेशो भवति अशि परे | भो-भगो-अघो इत्येवं पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परे | प्रथमे पदे सन्ध्यभावः सौत्रप्रयोगः | भोश्च भगोश्च अघोश्च अश्च तेषामितरेतरद्वन्द्वः, भोभगोअघोआः | भोभगोअघोआः पूर्वे यस्मात्‌ स भोभगोअघोअपूर्वः बहुव्रीहिः, तस्य भोभगोअघोअपूर्वस्य | भोभगोअघोअपूर्वस्य षष्ठ्यन्तं, यः प्रथमान्तम्‌, अशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''रोः सुपि''' (८.३.१६) इत्यस्मात्‌ '''रोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''भोभगोअघोअपूर्वस्य रोः यः अशि संहितायाम्‌''' |
 
 
 
Line 781 ⟶ 791:
 
१. <u>रेफान्तानि अव्ययानि</u>
 
 
 
प्रातः, पुनः | अस्मिन्‌ स्थले उपरि किमुक्तम्‌ ? अव्ययस्य अन्ते विसर्गः अस्ति चेत्‌, तस्य अव्ययस्य प्रातिपदिकं ज्ञेयम्‌ | यथा प्रातः इत्यस्य प्रातिपदिकं प्रातर्‍; पुनः इत्यस्य प्रातिपदिकं पुनर्‍; अन्तः इत्यस्य प्रातिपदिकम्‌ अन्तर् | अत्रोक्तं यत्‌ यत्र रेफान्तानि अव्ययानि सन्ति, तत्र केवलं भाट्टसूत्रेषु प्रथमसूत्रं कार्यं करोति | अन्यत्र सर्वत्र रेफः एव आदिष्टः | अतः रेफान्त-अव्ययानां कृते सूत्राणि २ -५ इत्येषां स्थाने रेफः एव भवति |
teachers
340

edits