9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 954:
 
 
* हरिः रमते → हरिर्रमते = दोषः
 
 
Line 965:
 
'पुनः' रेफान्तम्‌ अव्ययम्‌ अतः अत्रापि रेफो भवति; रेफस्य रेफे परे रेफलोपः पूर्वदीर्घत्वं च इति धेयम्‌ |
 
 
* तथैव पुनः रमते → रेफान्तम्‌ अव्ययम् अतः विसर्गसन्धौ रेफादेशः → पुनर्‍ + रमते → पुना + रमते → पुनारमते |
 
 
 
शास्त्रीयप्रक्रिया—
 
 
प्रथमाविभक्तौ एकवचने हरि + सु + रम्‌ + ते → इत्‌-संज्ञक-उकारस्य लोपः → हरिस्‌ + रमते → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु + रमते → इत्‌-संज्ञक-उकारस्य लोपः → हरिर्‍ + रमते → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत्‌ तिष्ठति → हरिर्‍ + रमते → '''रो रि ('''८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → हरि + रमते → रेफः रेफलोपस्य निमित्तम्‌ अतः '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यनेन रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे स्थितस्य अकारस्य दीर्घत्वम्‌ → हरीरमते
teachers
340

edits