9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH: Difference between revisions
9---anye-vyAkaraNa-sambaddha-viShayAH/02---visargasandhiH (view source)
Revision as of 08:07, 7 July 2021
, 2 years agono edit summary
No edit summary |
No edit summary |

Line 27:
''जाह्नवीशिबिरस्य २०११-तमे वर्षे हेगडे-महोदयेन विसर्गसन्धेः विषये सुन्दरतया व्याख्यानं साधितं; तस्मिन् व्याख्याने भाट्टसूत्राणि विवृतानि | हेगडे-महोदयस्य व्याख्यानम् आधारीकृत्य इदं करपत्रं रचितम् | करपत्रस्य लक्ष्यम् एवं यत् भिन्न-स्तरीयजनाः यदा पठन्ति तदा तेषां सर्वेषां विषयावगमनं भवेत् | अतः यत्र यत्र प्रश्नाः अर्हाः तत्र तत्र विस्तार-प्रयासः कृतः |''

विसर्गसन्धिः अत्यन्तं सुकरः | पाणिनिना विसर्गसन्धेः या पद्धतिः प्रदत्ता, सा बहूनां कृते भ्रमजनका, अतः सुखबोधाय श्री महाबलेश्वरभट्टः सूत्रपञ्चकं विरचितवान् | अयं सुलभविधिः अधः विस्तारितो भवति |

A. विसर्गसन्धेः स्वरूपम्

विसर्गसन्धौ, विसर्गस्य गतिः विभिन्न-रीत्या प्रवर्तते | कुत्रचित् विसर्गस्य स्थाने सकारः, कुत्रचित् रेफः, कुत्रचित् उकारः, अपि च कुत्रचित् विसर्गस्य लोपः इति |

यथा रामः तिष्ठति → रामस्तिष्ठति | अत्र विसर्गस्य स्थाने सकारः आगतः |

कस्मिन्नपि उदाहरणे कीदृशं कार्यं भवेत् इति निर्णयार्थं किञ्चित् ज्ञानम् अपेक्षते | तद् ज्ञानं किम् इति अधुना अवलोकयाम |

B. विसर्गात् पूर्वं, विसर्गात् परं च के वर्णाः ?

सर्वप्रथमं, विसर्गात् पूर्वं के के वर्णाः भवितुम् अर्हन्ति ? विसर्गात् पूर्वं स्वराः सम्भवन्ति—अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ इति | विसर्गात् पूर्वं व्यञ्जनं न भवितुम् अर्हति, तत्र केवलं स्वराः सम्भवन्ति |
विसर्गस्य अनन्तरं के के वर्णाः अर्हन्ति ? विसर्गस्य अनन्तरं कोऽपि वर्णः भवितुम् अर्हति | सर्वे स्वराः, सर्वाणि व्यञ्जनानि च |
अत्र वर्गीयव्यञ्जनानि लिखितानि—

वर्गीयव्यञ्जनानि
क ख ग घ ङ
च छ ज झ ञ
ट ठ ड ढ ण
त थ द ध न
प फ ब भ म

(अकारेण सह व्यञ्जनानि लिखितानि, उच्चारणार्थम्)

C. सर्वाणि व्यञ्जनानि गणद्वये विभक्तानि

व्यञ्जनानि केवलं विसर्गात् अग्रे अर्हन्ति; तानि गणद्वये विभक्तानि—

१. प्रथमगणः = '''एकैकवर्गस्य प्रथमसदस्यद्वयम् + स, श, ष'''

क, ख; च, छ; ट, ठ; त, थ; प, फ | स, श, ष |
गणस्य नामकरणम् = खर् वा कर्कशव्यञ्जनानि |
अयं गणः स्मर्तव्यः—१३ वर्णाः सन्ति |

२. द्वितीयगणः = अवशिष्ट-सर्वाणि व्यञ्जनानि

ग घ ङ; ज झ ञ; ड ढ ण; द ध न ; ब भ म | य, व, र, ल, ह |
गणस्य नामकरणम् = हश् वा मृदुव्यञ्जनानि |
यानि व्यञ्जनानि खर् इति गणे न सन्ति, तानि सर्वाणि द्वितीयगणे सन्ति इत्येव ज्ञातव्यम् |

D. द्वयोः गणयोः नामकरणं कथं सञ्जातम् ?

पाणिनिना वर्णानां समूहाः कृताः | एकैकस्य वर्णसमूहस्य नाम प्रत्याहारः | एते प्रत्याहाराः आयोजिताः सन्ति सूत्र-द्वारा | सूत्राणां सामूहिकं नाम अपि अस्ति—माहेश्वराणि सूत्राणि इति |

माहेश्वराणि सूत्राणि— अ इ उण् | ऋ ऌक् | ए ओङ् | ऐ औच् | ह य व रट् | लण् | ञ म ङ ण नम् | झ भञ् | घ ढ धष् | ज ब ग ड दश् | ख फ छ ठ थ च ट तव् | क पय् | श ष सर् | हल् |

एभिः सूत्रैः अवगम्यते खर्-वर्णाः के, अपि च हश्-वर्णाः के इति | इमानि सूत्राणि अधिकृत्य कथं प्रत्याहराः ज्ञायन्ते इति बोधितुम् अन्यत् करपत्रम् अस्ति | तदपि जालस्थाने अस्ति, अतः न बुद्धं चेत्, "[https://samskritavyakaranam.miraheze.org/wiki/02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi '''माहेश्वराणिसूत्राणि''']" इति करपत्रम् अवलोकताम् | तेन शीघ्रमेव ज्ञास्यते |

E. भाट्टसूत्राणि - पञ्चसोपानानि

'''१'''. प्रथमं सोपानम्— विसर्गस्य पुरतः कः वर्णः?

'''विसर्गस्य पुरतः खर्-वर्णः अस्ति चेत्, तर्हि विसर्गस्य स्थाने सकारः भवति |'''

त, थ, स इत्येषु वर्णेषु परेषु सकारः
च, छ, श इत्येषु वर्णेषु परेषु शकारः (सकारः आयाति, तदा स् → श् श्चुत्वसन्धिः इत्यनेन)
ट, ठ, ष इत्येषु वर्णेषु परेषु षकारः (सकारः आयाति, तदा स् → ष् ष्टुत्वसन्धिः इत्यनेन)

मुखे च, छ, श इत्येषाम् उच्चारणस्थानं तुल्यम् अस्ति, अतः सकारस्य स्थाने शकारः आयाति | तथैव ट, ठ, ष इत्येषाम् उच्चारणस्थानं तुल्यम् अस्ति, अतः सकारस्य स्थाने षकारः आयातीति |

क, ख वर्णयोः परयोः विसर्गः | यथावत् तिष्ठति |
प, फ वर्णयोः परयोः विसर्गः | यथावत् तिष्ठति |

प्रथमं भाट्टसूत्रम् = '''विसर्जनीयस्य सः खरि कखपफे तु विसर्गः |''' विसर्जनीयस्य षष्ठ्यन्तं, सः प्रथमान्तं, खरि सप्तम्यन्तं, कखपफे सप्तम्यन्तम् | विसर्जनीयः इत्युक्ते विसर्गः | सः इत्युक्ते सकारः | कखपफे इति कश्च, खश्च, पश्च, फश्च, एषां वर्णानां समाहारः, कखपफं; तस्मिन् कखपफे; समाहारद्वन्द्वसमासः |

व्याकरणसूत्रेषु षष्ठीविभक्तिः इत्युक्ते 'स्थाने', प्रथमाविभक्तिः इत्युक्ते 'आगच्छति' (आदेशः आगमः वा), सप्तमीविभक्तिः इत्युत्के 'पूर्वकार्यं', पञ्चमीविभक्तिः इत्युक्ते 'परकार्यम्' | अत्र कार्यम् इत्युक्ते विसर्गस्य स्थाने सकारादयः वर्णादेशाः | तर्हि सूत्रस्य सारांशः एवम्— विसर्गात् अग्रे खर्-वर्णः अस्ति चेत्, विसर्गस्य स्थाने सकारः; परन्तु विसर्गात् अग्रे कखपफ इति वर्णाः सन्ति चेत्, विसर्गः एव तिष्ठति |

अभ्यासः—

* रामः तिष्ठति → रामस्तिष्ठति
* रामः चिन्तयति → रामश्चिन्तयति
* रामः खादति → रामः खादति
* रामः पतति → रामः पतति

अतः सर्वप्रथमं द्रष्टव्यं यत् विसर्गस्य पुरतः खर्-वर्णः अस्ति न वा | अस्ति चेत्, विसर्गस्य स्थाने सकारादेशः भवति | इति प्रथमं सोपानम् |

विशेषः— ककारे खकारे च जिह्वामूलीयः, पकारे फकारे च उपध्मानीयः विकल्पेन भवतः |

रामः खादति → राम≍खादति, रामः खादति वा | इत्युक्ते विकल्पेन विसर्गस्य अर्धोच्चारणम् |
रामः पठति → राम≍पठति, रामः पठति वा | इत्युक्ते विकल्पेन विसर्गस्य अर्धोच्चारणम् |

अधुना नूतनम् उदाहरणम्—

* हरिः खादति →
* हरिः चिन्तयति →

अत्र "हरिः खादति" इत्यस्मिन् वृत्तान्ते किं कार्यं भवति ? पूर्वम् इकारः अस्ति इति कारणतः क्रमः भिन्नः स्यात् इति मा चिन्तयतु | प्रथमं सोपानम् आरोढव्यम् | विसर्गस्य पुरतः कः वर्णः अस्ति ? खकारः खरि (खर्-गणे) अस्ति किल | तर्हि किं करणीयम् ? '''कखपफे''' इत्यनेन विसर्गः तिष्ठति | हरिः खादति → हरिः खादति | तथैव हरिः चिन्तयति → '''विसर्जनीयस्य सः खरि''' इत्यनेन → हरिश्चिन्तयति | यदा खर्-वर्णः परे अस्ति, तदा पूर्वं किम् अस्ति इति न द्रष्टव्यम् | प्रथमे सोपाने खर्-वर्णः विसर्गस्य पुरतः अस्ति चेत्, विसर्गात् प्राक् किम् अस्ति इति मा पश्यतु |

धेयं यत् शरि परे (शकारः, षकारः, सकारः इत्येषु परेषु) संहितायां विषये विसर्गसन्धिः वैकल्पिकः; अन्यथा खरि परे नित्य एव |

* वृष्टिः शीतला → वृष्टिश्शीतला / वृष्टिःशीतला
* बालकः षष्ठः → बालकष्षष्ठः / बालकःषष्ठः
* सर्पः सरति → सर्पस्सरति / सर्पःसरति

'''२'''. द्वितीयं सोपानम्— विसर्गात् पूर्वं कः वर्णः ?

* हरिः धावति →

अत्र विसर्गस्य पुरतः खर्-वर्णः अस्ति वा ? नास्ति किल, अतः अस्मिन् उदाहरणे प्रथमसोपानस्य कार्यं नास्ति | द्वितीयसोपाने विसर्गात् पूर्वं किमस्ति इति द्रष्टव्यम् | 'हरिः धावति', अत्र विसर्गात् प्राक् कः वर्णः अस्ति ? इकारः | इकारः इच्-प्रत्याहारे अस्ति, अतः इच्-वर्णः इति वदामः | माहेश्वर-सूत्राणाम् अन्यतमः प्रत्याहारः अयम् इच् | इचि अकारम् आकारं च विहाय सर्वे स्वराः अन्तर्भूताः | विसर्गात् पूर्वम् इच्-वर्णः अस्ति चेत्, तर्हि विसर्गस्य स्थाने रेफः भवति इति नियमः अत्र |

द्वितीयं भाट्टसूत्रम् = '''इचः परस्य विसर्जनीयस्य रेफः अखरि''' | इचः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तं, रेफः प्रथमान्तम्, अखरि सप्तम्यन्तम् इति | सारांशः— इच्-वर्णात् अग्रे यः विसर्गः अस्ति तस्य स्थाने रेफः भवति, विसर्गात् अग्रे अखर्-वर्णः अस्ति चेत् | इच् इत्युक्तौ अकारम् आकारं वर्जयित्वा सर्वे स्वराः | अखरि नाम अग्रे खर्-वर्णः न भवेत् इत्यर्थः | परे खर्-वर्णः अस्ति चेत्, प्रथमसोपानम् आरोढव्यम् इति आशयः | विसर्गात् अग्रे खर्-वर्णः नास्ति चेत्, अपि च विसर्गात् पूर्वं इच्-वर्णः अस्ति चेत्, तर्हि विसर्गस्य स्थाने रेफः भवति—इति द्वितीयसोपानम् |

आभ्यासः—

* रामैः धाव्यते →

चिन्तनम्— सर्वप्रथमं विसर्गात् अग्रे खर्-वर्णः अस्ति वा ? नास्ति किल, यतः धकारः हशि अस्ति न तु खरि | तर्हि द्वितीयसोपानं गन्तव्यम्— विसर्गात् प्राक् कः वर्णः अस्ति ? ऐकारः किल, स च ऐकारः इच्-वर्णः अस्ति वा ? आं, यतः अ-भिन्नाः सर्वे स्वराः इच्-वर्णाः सन्ति | अतः विसर्गस्य स्थाने रेफ-आदेशो भवति | रामैः धाव्यते → रामैर्धाव्यते |

गुरोः अनुग्रहः →

विसर्गस्य पुरतः खर्-वर्णः अस्ति वा ? न, किल | अकारः स्वरः अस्ति; सर्वे खर्-वर्णाः व्यञ्जनानि एव | तर्हि खर्-अभावे द्वितीयसोपानं गन्तव्यम्— विसर्गात् प्राक् यः ओकारः सः इच्-वर्णः अस्ति वा ? अकारभिन्नत्वात् इच् अस्ति किल | तर्हि द्वितीयसोपानस्य अनुगुणं विसर्गस्य स्थाने रेफः क्रियताम् | गुरोः अनुग्रहः → गुरोरनुग्रहः |

एवं च एतावता सोपानद्वयम् अस्माभिः परिशीलितम् | यदा कदापि विसर्गसन्धेः अवसरः उदेति, तदा सर्वप्रथमं प्रथमसोपानम् आरोढव्यम् | नाम विसर्गात् अग्रे खर्-वर्णः अस्ति वा इति प्रष्टव्यम् | "आम्" इति उत्तरे प्राप्ते विसर्ग-स्थाने सकारादेशः अपेक्षितः | तद् अकृत्वा साक्षात् द्वितीयसोपानं गच्छामश्चेत्, तर्हि "हरिः चिन्तयति" दृष्ट्वा "हरिर्चिन्तयति" इति अशुद्धं फलं प्राप्स्यामः | अत्र किमर्थं रेफः न करणीयः ? यतः प्रथमसोपाने कार्यं समाप्तम् | अतः द्वितीयसोपानं प्रति न गन्तव्यम् | प्रथमसोपाने यदा कार्यं न भवति, तदा एव द्वितीयसोपानम् आरोढव्यम् इति क्रमः | अतः आदौ प्रथमसोपानम् अवश्यं द्रष्टव्यम्; द्वितीयसोपानं प्रति न धावनीयम् इति | प्रथमसोपाने कार्यं नास्ति चेत्, द्वितीयसोपाने विसर्गात् प्राक् इच्-वर्णः प्राप्यते चेत्, विसर्ग-स्थाने रेफादेशः भवति इति क्रमः |

अधुना नूतनम् उदाहरणम्—

* बालाः तिष्ठन्ति →

विसर्गात् प्राक् आकारं दृष्ट्वा एवं मा चिन्तयतु यत् अस्माकं क्रमः कथञ्चित् भिन्नः स्यात् | विसर्गस्य पुरतः खर्-वर्णः अस्ति वा ? आं किल, अतः किं भवति ? बालाः तिष्ठन्ति → बालास्तिष्ठन्ति | प्रथमसोपानानुगुणं सकारादेशो भवति |

परन्तु "बालाः" अस्ति चेत्, अपि च विसर्गस्य पुरतः खर्-वर्णः नास्ति चेत्, तर्हि किं भवति ? विसर्गात् पूर्वम् इच्-वर्णः अस्ति वा ? नास्ति किल, आकारः इचि नास्ति | अतः यत्र विसर्गस्य पुरतः खर्-वर्णः नास्ति अपि च विसर्गात् पूर्वम् आकारः अस्ति, तत्र तृतीयसोपानं गन्तव्यम् |

३. तृतीयं सोपानम्— विसर्गात् पूर्वम् आकारः अस्ति वा ?

* बालाः धावन्ति →

अत्र विसर्गस्य पुरतः खर्-वर्णः नास्ति | परन्तु विसर्गात् पूर्वम् इच् अपि नास्ति | पूर्वम् आकारः अस्ति |

अस्मिन् क्रमे पाणिनिना अकारं पृथक्, आकारं च पृथक् कृतम् | विभजनस्य सौकर्येण व्यक्तीकरणार्थम् एका व्यवस्था साधिता, तपरकरणं नाम्ना | अनेन तकारं योजयामः चेत्, तत्तत् कालस्य वर्णः एव व्यक्तः भवति | यथा 'ह्रस्वः अकारः' इत्यस्मिन् अर्थे 'अत्'; 'दीर्घः आकारः' इत्यस्मिन् अर्थे 'आत्' | एवं च सङ्क्षिप्तत्वेन व्यक्तीकरणं भवति | (नो चेत् पाणिनीयव्याकरणे 'अकारः' इत्येव वदामश्चेत्, सः अकारः अष्टादशानां वर्णानां प्रतिनिधिः भवति— ह्रस्वः अकारः, दीर्घः आकारः प्लुतः आ३-कारः; उदात्तः, अनुदात्तः, स्वरितः; अनुनासिकः, अननुनासिकः इति भेदेन | एषु अष्टादशसु कः वर्णः इष्टः इति स्पष्टीकरणार्थम् इतोऽपि वक्तव्यं भवति, अतः अत्, आत् इति पद्धतेः आवश्यकता |)

अधुना विसर्गात् पूर्वम् आत् (दीर्घः आकारः) अस्ति वा ? अस्त्येव किल | 'बालाः' इत्यस्मिन् पदे विसर्गात् पूर्वं दीर्घः आकारः ('आत्') अस्ति | '''विसर्गस्य पुरतः खर्-वर्णः नास्ति चेत्, अपि च विसर्गात् पूर्वम् आत् अस्ति चेत्, तर्हि विसर्गस्य लोपः भवति |'''

* बालाः धावन्ति → बाला धावन्ति

तृतीयं भाट्टसूत्रम् = '''आतः परस्य विसर्जनीयस्य लोपः अखरि''' | आतः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तं, लोपः प्रथमान्तम्, अखरि सप्तम्यन्तम् | सारांशः— परे खर्-वर्णः नास्ति चेत्, पूर्वम् आत् अस्ति चेत्, तर्हि विसर्गस्य लोपः भवति |

* बालाः इच्छन्ति →

विसर्गात् अग्रे खर्-वर्णः अस्ति वा ? नास्ति किल, इकारः खरि नास्ति | विसर्गात् प्राक् आत् अस्ति वा ? आम्, अस्ति किल | तर्हि विसर्ग-लोपः क्रियताम् | बालाः इच्छन्ति → बाला इच्छन्ति |*

अत्र कश्चन प्रश्नः उदेति यत् 'बाला इच्छन्ति' इत्यस्मिन् गुणसन्धेः प्रसक्तिः अस्ति वा ? आं, गुणसन्धिः स्यात् (आ + इ → ए इति), परन्तु पाणिनेः अष्टाध्यायाम् एका विशिष्टा व्यवस्था अस्ति येन गुणसिन्धेः विधायकं सूत्रं चिन्तयति यत् इदानीमपि विसर्गः अस्ति (वस्तुतस्तु विसर्गलोपप्रक्रियायां विसर्गस्य स्थाने रु → र् → यकारो भवति; तस्य यकारलोपं न पश्यति '''आद्गुणः''' (६.१.८७) इति गुणविधायकं सूत्रम्; सम्पूर्णक्रमं द्रष्टुम् इच्छति चेत् [https://samskritavyakaranam.miraheze.org/wiki/05_-_हल्%E2%80%8C-सन्धिः_-_सूत्रसहिता_दृष्टिः '''अस्मिन् करपत्रे'''] यवलोपसन्धि-विषये दृश्यताम्) | 'बाला इच्छन्ति' इत्यस्मिन् विसर्ग-लोपः जातः इति वयं जानीमः, किन्तु गुणसन्धि-विधायकं सूत्रम् आगत्य चिन्तयति यत् "अहो ! विसर्गः अधुना अपि अस्ति"; अतः अनेन कारणेन गुणसन्धिः अत्र न प्रवर्तते | (अष्टाध्यायी भागद्वये विभक्ता सपादसप्ताध्यायी, त्रिपादी इति | यत् किमपि कार्यं साधितं त्रिपाद्यां, तत् कार्यं न दृश्यते सपादसप्ताध्याय्यां स्थितैः सूत्रैः | सवर्णदीर्घसन्धिः, गुणसन्धिः, वृद्धिसन्धिः, एते सन्धयः साध्यन्ते सपादसप्ताध्याय्याम् अपि च विसर्गस्य लोपः साध्यते त्रिपाद्याम् अतः स्वरसन्धयः 'विसर्गलोपः न जातः' इति चिन्तयन्तः, स्वस्य कार्यं न कुर्वन्ति |)

<nowiki>*</nowiki>अत्र वस्तुतस्तु अन्यः विकल्पः अस्ति 'बालायिच्छन्ति' | '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७), '''लोपः शाकल्यस्य''' (८.३.१९) इति सूत्राभ्याम् | अयं विकल्पः केवलम् अचि परे न तु हशि, अपि च विरलतया उपयुज्यते इति कृत्वा भाट्टसूत्रे न अन्तर्गतम् |

अधुना कीदृशं विसर्गसन्धि-कार्यम् अवशिष्टम् ? प्रथमसोपाने विसर्गात् अग्रे किम् इति दृष्टम्; द्वितीयसोपाने विसर्गात् प्राक् इच् अस्ति चेत् किं भवति इति दृष्टं; तृतीयसोपाने विसर्गात् प्राक् आत् अस्ति चेत् किं भवति इति दृष्टम्; अधुना विसर्गात् प्राक् अत् अस्ति चेत् किं भवति इति द्रष्टव्यम् | अत्र भागद्वयम् अस्ति यतः विसर्गात् प्राक् अत् अस्ति चेत्, तर्हि अधुना पुनः अग्रे अवलोकनीयम् अस्माभिः | अग्रे अत् हश् वा अस्ति चेत् एका गतिः; अग्रे आत् इच् वा चेत् अपरा गतिः |

'''४'''. चतुर्थं सोपानम्— विसर्गात् पूर्वम् अत् (ह्रस्वः अकारः) अस्ति वा ?

* बालः धावति →

विसर्गात् प्राक् अत् अस्ति चेत्, तर्हि मार्गद्वयं भवति | इदं चतुर्थं सोपानं प्रथममार्गः अस्ति |

विसर्गात् प्राक् अत् अस्ति, विर्गस्य पुरतः अपि अत् अस्ति चेत्, तर्हि विसर्गस्य स्थाने उकारः भवति |

* बालः अस्ति → बाल + उ + अस्ति → गुणसन्धिः → बालो + अस्ति → पूर्वरूपसन्धिः* → बालोऽस्ति

विसर्गात् प्राक् अत् अस्ति, विर्गस्य पुरतः हश् (खर्-भिन्नः हल्-वर्णः) अस्ति चेत्, तर्हि विसर्गस्य स्थाने उकारः भवति |

* बालः धावति → बाल + उ + धावति → गुणसन्धिः → बालो धावति

<nowiki>*</nowiki>पदान्ते ओकारः अस्ति चेत्, अपि च अग्रिमपदस्य प्रथमवर्णः अकारः अस्ति चेत्, तर्हि ओकारकारयोः स्थाने ओकारादेशो भवति |

चतुर्थं भाट्टसूत्रम् = '''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्''' | अतः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तम्, अति सप्तम्यन्तं, हशि सप्तम्यन्तम्, उत्वम् प्रथमान्तम् इति | सारांशः— विसर्गात् पूर्वम् अत् अस्ति चेत्, अपि च विसर्गस्य पुरतः अत् हश् वा अस्ति चेत्, तर्हि विसर्गस्य स्थाने उकारादेशो भवति | हश्-वर्णो नाम खर्-भिन्नो हल्-वर्णः इति स्मर्तव्यम् |

* यथा बालः हसति → बाल + उ + हसति → गुणसन्धिः → बालो हसति

धेयं यत् उकारस्य आगमनं त्रिपाद्यां न विहितम्, अतः गुणसन्धि-विधायक-सूत्रं स्वस्य अवसरं दृष्ट्वा कार्यं करोति एव | पदस्य मध्ये सन्धिः नित्यम्, अतः अत्र गुणसन्धिः करणीय एव |

एतावता विसर्गात् प्राक् अत् अस्ति अपि च— विसर्गस्य पुरतः खर्-वर्णः चेत् तर्हि प्रथमसोपानं, विसर्गस्य पुरतः अत् हश् वा अस्ति चेत् तर्हि चतुर्थसोपानम्— इति सोपानद्वयेन वयं विसर्गस्य का गतिः इति जानीमः | अधुना किम् अवशिष्टम् ? विसर्गात् प्राक् अत् अस्ति, विसर्गस्य पुरतः आत् इच् वा चेत्, तर्हि पञ्चमं सोपानम् द्रष्टव्यम् | (इदं पञ्चमं सोपानम् "विसर्गात् प्राक् अत् अस्ति चेत्, परे खर् नास्ति चेत्" इत्यस्य द्वितीयमार्गः |)

५. पञ्चमं सोपानम्—विसर्गात् पूर्वम् अत् अस्ति चेत्, अग्रे आत् इच् वा अस्ति वा ?

* बालः इच्छति →

विसर्गात् प्राक् अत् अस्ति अपि च विर्गस्य पुरतः आत् वा इच् वा अस्ति चेत्, तर्हि विसर्गस्य लोपः भवति | इत्युक्तौ विसर्गात् प्राक ह्रस्वः अकारः, अपि च विसर्गस्य पुरतः दीर्घः आकारः, अन्ये केऽपि स्वराश्च (ह्रस्वम् अकारं विहाय) वा, तर्हि विसर्गस्य लोपः भवति |

पञ्चमं भाट्टसूत्रम् = '''अतः परस्य विसर्जनीयस्य आचि लोपः''' [आति इचि च] | अतः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तम्, आचि सप्तम्यन्तं, लोपः प्रथमान्तम् इति | आच् इत्युक्तौ आत् इच् च | पाणिनिः एवं दीर्घस्वरं स्वीकृत्य प्रत्याहारं न करोति | पाणिनिः "आचि" व्यक्तीकर्तुम् इच्छेत् तर्हि "आति इचि च" इति लिखेत् | पाणिनीयक्रमः अनुसरणीयः अस्ति चेत्, एवं वक्तव्यं भवति | किन्तु अयं भाट्टकक्रमः, पाणिनीयक्रमः न इति दर्शयितुम् अयं विलक्षणः प्रत्याहारः "आच्" कृतः | तर्हि यत्र आचि लिखितम् अस्ति, तत्र "आति इचि" इति बोध्यम् | सारांशः— विसर्गात् पूर्वम् अत् अस्ति चेत्, अपि च विसर्गस्य पुरतः आत् इच् वा अस्ति चेत्, विसर्गस्य लोपः भवति |

* बालः इच्छति → बाल इच्छति*

* तथैव रामः आगच्छति → राम आगच्छति*

<nowiki>*</nowiki>अत्र वस्तुतस्तु अन्यः विकल्पः अस्ति 'बालयिच्छति', 'रामयागच्छति' | '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७), '''लोपः शाकल्यस्य''' (८.३.१९) इति सूत्राभ्याम् | अयं विकल्पः विरलतया उपयुज्यते इति कृत्वा भाट्टसूत्रे न अन्तर्गतम् |

अतः अखरि, विसर्गात् पूर्वम् अत् अस्ति चेत्, इतोऽपि कार्यं भवति यतोहि पुनः अग्रे द्रष्टव्यं भवति इदं ज्ञातुं यत् विसर्गस्य पुरतः अत् / हश् वा, आत् / इच् वा इति | तदनुसृत्य चतुर्थसोपानस्य पञ्चमसोपानस्य च भेदः साधितः | चतुर्थसोपाने उकारादेशः, पञ्चमसोपाने लोपः इति धेयम् |

'''F'''. आहत्य भट्टमहोदयस्य सूत्रपञ्चकम् इदम्—

'''१. विसर्जनीयस्य सः खरि कखपफे तु विसर्गः |'''
'''२. इचः परस्य विसर्जनीयस्य रेफः अखरि |'''
'''३. आतः परस्य विसर्जनीयस्य लोपः अखरि |'''
'''४. अतः परस्य विसर्जनीयस्य अति हशि च उत्वम् |'''
'''५. अतः परस्य विसर्जनीयस्य आचि लोपः |'''

यत्र कुत्रापि विसर्गो भवति, तत्र विसर्गसन्धिः कीदृशो भवेत् इति एभिः पञ्चभिः सूत्रैः शीघ्रमेव सुलभतया च निर्णेतुं शक्यते | धेयं यत् विसर्गलोपः स्थलद्वये विहितः | पूर्वम् आत्, परम् अखर् इति चेत् लोपः; पूर्वम् अत्, परं आच् इति चेत् लोपः | अतः तृतीयसोपाने पञ्चमसोपाने च लोपो भवति इति क्रमः |

G. अधुना अपवादत्रयं वक्तव्यम्—

१. रेफान्तानि अव्ययानि

* प्रातः इच्छति → प्रात इच्छति = दोषः

“प्रात इच्छति" तु '''अतः परस्य विसर्जनीयस्य आचि लोपः''' इति सूत्रम् अनुसृत्य भवति स्म, परन्तु अत्र दोषः |

* प्रातः इच्छति → प्रातरिच्छति = साधु

अत्र नियमः यत् यत्र रेफान्तानि अव्ययानि सन्ति, तत्र केवलं भाट्टसूत्रेषु प्रथमसूत्रं कार्यं करोति | अन्यत्र सर्वत्र रेफः एव आदिष्टः | अतः रेफान्त-अव्ययानां कृते सूत्राणि २ -५ इत्येषां स्थाने रेफः एव भवति |

* प्रातः तिष्ठति → प्रातस्तिष्ठति = साधु

इदं उदाहरणं प्रथमसूत्रेण ('''विसर्जनीयस्य सः खरि कखपफे तु विसर्गः''' इत्यनेन) प्रवर्तते; अन्यत्र सर्वत्र रेफः |

अव्ययस्य अन्ते विसर्गः अस्ति चेत्, तस्य अव्ययस्य प्रातिपदिकं ज्ञेयम् | रेफान्तं प्रातिपदिकम् अस्ति चेत्, तर्हि तद् अव्ययम् अपवादभूतम् अस्ति इति धेयम् | यथा प्रातः इत्यस्य प्रातिपदिकं प्रातर्; पुनः इत्यस्य प्रातिपदिकं पुनर्; अन्तः इत्यस्य प्रातिपदिकम् अन्तर् | इमानि अव्ययानि रेफान्तानि अतः अपवादभूतानि | परन्तु प्रातिपदिकं रेफान्तं नास्ति चेत्, तर्हि सामान्यैः सूत्रैः क्रमः प्रवर्तते | यथा "अतः" रेफान्तं नास्ति |

* अतः इच्छति → "अतरिच्छति" = दोषः
* अतः इच्छति → अत इच्छति = साधु ('''अतः परस्य विसर्जनीयस्य आचि लोपः''' इति सूत्रम्)

२. एषः सः

* सः तिष्ठति → सस्तिष्ठति = दोषः

एषः सः इति द्वि पदे विशेषे | तयोः कृते चतुर्थसूत्रेण अति उत्वं भवति | अन्यत्र सर्वत्र लोप एव |

* सः तिष्ठति → स तिष्ठति = साधु

अतः पञ्चमे सोपाने यथा बालः इत्यादयः लघु-अकारान्तशब्दाः, एषः-सः इति द्वयोरपि अत्र विसर्गलोपः

* एषः इच्छति → एष इच्छति*
* एषः आगच्छति → एष आगच्छति*

<nowiki>*</nowiki>यथा पञ्चमे सोपाने, अत्रापि अन्यः विकल्पः अस्ति 'एषयिच्छति', 'एषयागच्छति' | '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७), '''लोपः शाकल्यस्य''' (८.३.१९) इति सूत्राभ्याम् | अयं विकल्पः विरलतया उपयुज्यते |
धेयं यत् एषः सः इति द्वयोः पदयोः कृते '''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्''' इति सूत्रेण अति उत्वं भवति, परन्तु हशि उत्वं न भवति अपि तु लोप एव |

* सः गच्छति → सो गच्छति = दोषः
* सः गच्छति → स गच्छति = साधु

अत् परे अस्ति चेत्, तर्हि अति उत्वं भवति—

* सः अपि → सोऽपि = साधु

'सः एषः' इति यथा, तथा 'यः' नास्ति | 'यः' इति शब्दस्य यथासामान्यं भाट्टसूत्रेषु सूत्र-१,४,५ इत्येषां साधारणरूपाणि | यस्तिष्ठति | यो गच्छति | य इच्छति |

३. रेफः + रेफः = पूर्वदीर्घत्वं रेफलोपः च

* हरिः रमते → हरिर्रमते = दोषः

रेफस्य रेफे परे पूर्वदीर्घत्वं रेफलोपः च | उदाहरणे, पूर्वं यः इकारः अस्ति, तस्य दीर्घत्वं भवति | इ → ई इति |

* हरिः रमते → '''इचः परस्य विसर्जनीयस्य रेफः अखरि''' इत्यनेन → हरिर् + रमते → रेफस्य लोपः, पूर्वदीर्घत्वम् → हरी + रमते → हरीरमते |

* तथैव पुनः रमते → रेफान्तम् अव्ययम् अतः विसर्गसन्धौ रेफादेशः → पुनर् + रमते → पुना + रमते → पुनारमते |

पुनः रेफान्तम् अव्ययम् अतः अत्रापि रेफः आयाति; रेफस्य रेफे परे रेफलोपः पूर्वदीर्घत्वं च इति धेयम् |

इति विसर्गसन्धेः समग्रं चिन्तनम् समाप्तम् | इदं च लौकिकं चिन्तनं, व्यावहारिकं चिन्तन्तम् | सम्प्रति यावत् परिशीलितं व्यवहारे, तत् शास्त्रीयरीत्या कथं सिध्यति इति जानीयाम |

'''H'''. विसर्गसन्धेः पञ्च सोपानानि - सूत्रसहितदृष्टिः

'''१'''. प्रथमं सोपानम्— विसर्गस्य पुरतः कः वर्णः ?

'''विसर्गस्य पुरतः खर्-वर्णः अस्ति चेत्, तर्हि विसर्गस्य स्थाने सकारः भवति |'''

प्रथमं भाट्टसूत्रम् = '''विसर्जनीयस्य सः खरि कखपफे तु विसर्गः'''

* रामः तिष्ठति → रामस्तिष्ठति
* मुनिः तिष्ठति → मुनिस्तिष्ठति
* गुरुः तिष्ठति → गुरुस्तिष्ठति
* रामः चिन्तयति → रामश्चिन्तयति

सम्प्रति शास्त्रीयरीत्या विसर्गससन्धेः साधनमार्गम् अवलोकयाम | समग्रतया पश्यामः चेत्, शास्त्रपथि पक्षद्वयं वर्तते; द्वयमपि साधु | पदगतसंस्कारपक्षः, वाक्यगतसंस्कारपक्षश्च | पदगतसंस्कारपक्षे प्रत्येकं पदं पृथक्तया साध्यते, अनन्तरमेव सिद्धपदानि वाक्ये स्थाप्यन्ते |

यथा— राम + सु → रामः; पृथक्तया त्यज् + तिप् → त्यजति | अनन्तरमेव 'रामः त्यजति' इति वाक्यस्तरे स्थाप्यते | किन्तु वाक्यगतसंस्कारपक्षे, यावन्तः प्रकृतयः च प्रत्ययाः च सन्ति, ते सर्वे वाक्यस्तरे एव उपस्थाप्यन्ते | यथा— राम + सु + त्यज् + तिप् | तदा वाक्ये एव सर्वं पदनिर्माणकार्यं भवति | कुत्रचित् पक्षद्वयेऽपि फलं समानं; कुत्रचित् फलं समानं नास्ति | वैयाकरणाः वाक्यगतसंस्कारपक्षं मनसि निधाय कार्यं कुर्वन्ति | अतः अत्र तथैव कुर्मः |

राम + सु + स्था + तिप् → रामस् + तिष्ठति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर् + तिष्ठति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशः खरि परे → रामः तिष्ठति → '''विसर्जनीयस्य सः ('''८.३.३४) इत्यनेन विसर्जनीयस्य सकारादेशः खरि परे → रामस्तिष्ठति
राम + सु + चिति + तिप् → '''ससजुषो''' रुः (८.२.६६) → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → रामः + चिन्तयति → '''विसर्जनीयस्य''' सः (८.३.३४) → रामस् + चिन्तयति → '''स्तोः श्चुना श्चुः''' (८.४.४०) → रामश्चिन्तयति

अत्र पदगतसंस्कारपक्षे वाक्यगतसंस्कारपक्षे फलं समानं यतोहि पदगतसंस्कारपक्षे अवसाने अपि '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः, वाक्यगतसंस्कारपक्षे अपि खरि परे '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः | किन्तु अग्रे अपरेषु स्थलेषु द्रक्ष्यामः तथा समानफलं नास्ति |

'''ससजुषो रुः''' (८.२.६६) = पदान्त-सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |

'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च | खर् च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''रो रि''' (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | रः 'पदस्य' इत्यस्य विशेषणम्; '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम् पदं यस्य अन्ते रेफः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्''' |

'''विसर्जनीयस्य सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात् '''खरि''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्''' |

अस्मिन् प्रथमे सोपाने कश्चन प्रश्नः उदेति यत् एकवारं यदा पदान्ते सकारः आदिश्यते, तदा किमर्थं न पदान्तस्य सकारस्य, '''ससजुषो''' '''रुः''' (८.२.६६) इति सूत्रेण, पुनः रुत्वं स्यात् ? '''ससजुषो''' '''रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति |

रामः तिष्ठति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) इत्यनेन विसर्जनीयस्य सकारादेशः खरि परे → रामस् + तिष्ठति

अत्र सकारः पदान्ते, अतः '''ससजुषो''' '''रुः''' (८.२.६६) इत्यनेन सकारस्य स्थाने रु-आदेशः भवति स्म | किन्तु '''विसर्जनीयस्य सः''' (८.३.३४) त्रिपादिसूत्रं; तदपेक्षया '''ससजुषो रुः''' (८.२.६६) इति पूर्वसूत्रम् | अतः '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यनेन विसर्जनीयस्य सकारादेशः इति कार्यमसिद्धम् '''ससजुषो रुः''' (८.२.६६) इति सूत्रस्य दृष्ट्या | तदर्थं ससजुषो रुः (८.२.६६) 'रामः तिष्ठति' इत्येव पश्यति, न तु रामस् + तिष्ठति | अतः रामस् + तिष्ठति → रामस्तिष्ठति इत्येव भवति |

शरि परे (शकारः, षकारः, सकारः इत्येषु परेषु) संहितायां विषये विसर्गसन्धिः वैकल्पिकः न तु नित्यः |

* वृष्टिः शीतला → वृष्टिश्शीतला / वृष्टिःशीतला
* बालकः षष्ठः → बालकष्षष्ठः / बालकःषष्ठः
* सर्पः सरति → सर्पस्सरति / सर्पःसरति

'''वा शरि''' (८.३.३६) = विसर्गस्य विकल्पेन विसर्गादेशो भवति शरि परे | शरि विसर्गस्य विसर्गो वा स्यात् | '''विसर्जनीयस्य सः''' (८.३.३४) इति सूत्रस्य अपवादः | वा अव्ययपदं, शरि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''शर्परे विसर्जनीयः''' (८.३.३५) इत्यस्मात् '''विसर्जनीयः''' इत्यस्य अनुवृत्तिः | '''विसर्जनीयस्य सः''' (८.३.३४) इत्यस्मात् '''विसर्जनीयस्य इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य विसर्जनीयः वा शरि संहितायाम्''' |

'''विसर्जनीयस्य सः''' (८.३.३४) इत्यनेन शरि परे अपि विसर्गस्य स्थाने सकारादेशः नित्यः यतोहि शर्-प्रत्याहारः खर्-प्रत्याहारे अन्तर्भूतः | किन्तु शरि परे '''विसर्जनीयस्य सः''' (८.३.३४) इति प्रबाध्य '''वा शरि''' (८.३.३६) इत्यनेन विसर्गस्य विकल्पेन विसर्गादेशः |

सर्पः सरति → '''वा शरि''' (८.३.३६) इत्यनेन शरि परे विसर्गस्य विकल्पेन विसर्गादेशः → सर्पःसरति → यस्मिन् पक्षे विसर्गादेशः न भवति, '''विसर्जनीयस्य सः''' (८.३.३४) इत्यनेन खरि परे विसर्जनीयस्य स्थाने सकारादेशः → सर्पस्सरति

वृष्टिः शीतला → '''वा शरि''' (८.३.३६) → वृष्टिःशीतला → '''विसर्जनीयस्य सः''' (८.३.३४) → '''स्तोः श्चुना श्चुः''' (८.४.४०) → वृष्टिश्शीतला

बालकः षष्ठः → '''वा शरि''' (८.३.३६) → बालकःषष्ठः → '''विसर्जनीयस्य सः''' (८.३.३४) → '''ष्टुना ष्टुः''' (८.४.४१) → बालकष्षष्ठः

अन्यत् वैशिष्ट्यम्—

* रामः खादति → राम≍खादति / रामः खादति
* रामः पठति → राम≍पठति / रामः पठति

'''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) = कवर्गे परे पवर्गे च परे विसर्जनीय-विसर्गस्य, जिह्वामूलीयस्य उपध्मानीयस्य च विसर्गादेशो भवति, पक्षे विसर्गः एव तिष्ठति | च-शब्देन पक्षे विसर्ग एव | '''विसर्जनीयस्य सः''' (८.३.३४) इत्यस्य अपवादः | कुश्च पुश्च कुपू, तयोः कुप्वोः इतरेतरद्वन्द्वः | ≍ कश्च ≍ पश्च ≍ क ≍ पौ, इतरेतरद्वन्द्वः | कुप्वोः सप्तम्यन्तं, ≍ क ≍ पौ प्रथमान्तं, च अव्ययं, त्रिपदमिदं सूत्रम् | '''विसर्जनीयस्य सः''' (८.३.३४) इत्यस्मात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य ≍ क ≍ पौ कुप्वोः च''' |

राम + सु + खाद् + तिप् → रामस् + खादति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर् + खादति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशः खरि परे → रामः खादति → '''विसर्जनीयस्य''' '''सः''' (८.३.३४) इति प्रबाध्य '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यनेन जिह्वामूलीय-आदेशः → राम ≍ खादति; पक्षे रामः खादति इत्येव तिष्ठति |

उपरितने सूत्रे 'कवर्गे परे पवर्गे च' इत्युक्तं; तर्हि कवर्गीयः पवर्गीयः वा हश्-वर्णः अस्ति चेदपि एतादृशं भवति किम् ? भाट्टसूत्रे '<nowiki/>'''कखपफे तु विसर्गः'''<nowiki/>' इति उक्तं, नाम कवर्गस्य पवर्गस्य च खर्-प्रत्याहारस्थवर्णेषु एव जिह्वामूलीयस्य उपध्मानीयस्य आदेशः भवति किल ? सत्यमेव | '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य कार्यं तदा भवति यदा विसर्गः आगतः | किन्तु अग्रे हश्-वर्णः अस्ति चेत्, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य प्रसक्तिरेव नास्ति अतः विसर्गः न भवति एव | तस्मात् '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य इत्यस्य अवसरः न उदेति—

राम + सु + गम् + तिप् → रामस् + गच्छति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर् + गच्छति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य प्रसक्तिः नास्ति अतः '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य अवसरः नास्ति → '''हशि च''' (६.१.११४) इत्यनेन अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः हशि परे → राम + उ + गच्छति → रामो गच्छति

'''हशि च''' (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यस्मात् '''अप्लुतात्, अतः, रोः''' इत्येषाम् अनुवृत्तिः | '''ऋत उत्''' (६.१.१११) इत्यस्मात् '''उत्''' इत्यस्य अनुवृत्तिः | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— | '''अप्लुतात् अतः रोः उत् हशि च संहितायाम्''' |

'''२'''. द्वितीयं सोपानम्— विसर्गात् पूर्वं कः वर्णः ?

द्वितीयं भाट्टसूत्रम् = '''इचः परस्य विसर्जनीयस्य रेफः अखरि'''

* हरिः धावति → हरिर्धावति

अत्र 'विसर्गस्य स्थाने रेफादेशः' इति प्रदर्शितमस्ति भाट्टसूत्रे | वस्तुतस्तु रेफादेशः संस्कृतभाषायां कुत्रापि नास्ति | रेफविधायकसूत्रमेव नास्ति | 'हरिः धावति' इति स्थितौ बालानां सुखबोधाय महाबलेश्वरभट्टः एतादृशसूत्रं विरचितवान् | अस्माकं कृते च अतीव व्यावहारिकं, समीचीनमेव | अनेन मार्गः सुलभः जातः | अधुना किन्तु अस्माभिः मार्गः बुद्धः; सम्प्रति वस्तुस्थितिः का इति अवलोकयाम |

यथोक्तं शास्त्रीयपथि पक्षद्वयं वर्तते; द्वयमपि साधु | वाक्यगतसंस्कारपक्षः, पदगतसंस्कारपक्षश्च | अस्मिन् सोपाने किन्तु द्वयोः पक्षयोः मध्ये फलभेदो वर्तते | वाक्यगतसंस्कारपक्षे हरिर्धावति इति भवति; पदगतसंस्कारपक्षे हरिः धावति इत्येव भवति |

वाक्यगतसंस्कारपक्षे, यावन्तः प्रकृतयः च प्रत्ययाः च सन्ति, ते सर्वे वाक्यस्तरे एव उपस्थाप्यन्ते | यथा— हरि + सु + धाव् + तिप् |

किन्तु पदगतसंस्कारपक्षे हरि + सु → '''ससजुषो''' '''रुः''' (८.२.६६) → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → हरिः इति पृथक्तया निर्मीयते | अत्र विसर्गः आयाति यतोहि हरि-शब्दः एकाकी | एकाकी इति कृत्वा अग्रे किमपि नास्ति, नाम अवसाने | अवसानावस्थायां सकारस्य स्थाने यः रु-आदेशः, तस्य अनुबन्धलोपानन्तरं रु-सम्बद्ध-रेफस्य स्थाने विसर्गः | (वाक्यगतसंस्कारपक्षे अवसानं नास्ति अतः विसर्गादेशः न सम्भवति |)

अधुना वाक्यगतसंस्कारपक्षम् अवलोकयाम | अस्मिन् क्रमे विसर्गः न आगच्छति एव—

प्रथमाविभक्तौ एकवचने हरि + सु + धाव् + तिप् → इत्-संज्ञक-उकारस्य लोपः → हरिस् + धावति → '''ससजुषो''' रुः (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु + धावति → इत्-संज्ञक-उकारस्य लोपः → हरिर् + धावति → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत् तिष्ठति → हरिर् + धावति → हरिर्धावति

अस्मिन् पक्षे हरिस् इति सुबन्तपदं भवति; ततः सकारस्थाने रु-आदेशः, अनुबन्धलोपे सति रेफः तिष्ठति | अतः अयं रेफः मूले सकारः न तु विसर्गः | सकारः → रु-आदेशः → अनुबन्धलोपे रेफः |

पदगतसंस्कारे पदस्तरे संरचना—

हरि + सु इति पृथक्तया निर्मीयते, धाव् + तिप् इति पृथक्तया निर्मीयते |

हरि + सु → इत्-संज्ञक-उकारस्य लोपः → हरिस् → '''ससजुषो''' '''रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु → इत्-संज्ञक-उकारस्य लोपः → हरिर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसानावस्थायां विसर्गादेशः → हरिः

एवमेव धाव् + तिप् इति पृथक्तया निर्मीयते—

धाव् + ति → धाव् + शप् + ति → धावति

तदा निर्मितपदद्वयं वाक्ये स्थाप्यते—

हरिः + धावति → संहितायां विषयेऽपि कस्यचिदपि सूत्रस्य प्रसक्तिर्नास्ति → हरिः धावति

अतः वाक्यगतसंस्कारपक्षे 'हरिर्धावति'; पदगतसंस्कारपक्षे 'हरिः धावति' | विसर्गात् रेफादेशविधायकसूत्रं नास्त्येव | वैयाकराणानां पक्षो भवति वाक्यगतसंस्कारपक्षः | अस्मिन् पक्षे संहिता इति विषयः भवति एव | नाम, वाक्य-स्तरे मन्दं मन्दं वदामः चेदपि पदानाम् अव्यवहितस्थितिः | अनया दृष्ट्या 'रामो विद्यालयं गच्छति' इति वाक्यं, मन्दं वदामः चेदपि 'रामो विद्यालयं गच्छति' इत्येव वक्तव्यम् | संहिता इति विषयः भवति केवलं पदगतसंस्कारपक्षे, यदा पदं स्म्पूर्णरीत्या निर्मामः वाक्ये स्थापनात् पूर्वम् |

'''३'''. तृतीयं सोपानम्— विसर्गात् पूर्वम् आकारः अस्ति वा ?

तृतीयं भाट्टसूत्रम् = '''आतः परस्य विसर्जनीयस्य लोपः अखरि''' |

* बालाः धावन्ति → बाला धावन्ति
* बालाः इच्छन्ति → बाला इच्छन्ति / बालायिच्छन्ति

सामान्यतया वैयाकरणाः वाक्यगतसंस्कारपक्षं पालयन्ति | अतः अत्र शास्त्रीयक्रमः अयम्—

(बहुवचने बाल + जस् → बाल + अस् →) बालास्* + इच्छन्ति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → बाला + रु + इच्छन्ति → अनुबन्धलोपे** → बालार् + इच्छन्ति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन आकारोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → बालाय् + इच्छन्ति → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' → बाला इच्छन्ति / बालायिच्छन्ति

<nowiki>*</nowiki>बाल + जस् + इष् + झि → अनुबन्धलोपे ('''चुटू''' (१.३.७), '''तस्य लोपः''' (१.३.९), '''हलन्त्यम्''' (१.३.३), '''न विभक्तौ तुस्माः''' (१.३.४)) → बाल + अस् + इच्छन्ति → '''आद्गुणः''' (६.१.८७) → '''अकः सवर्णे दीर्घः''' (६.१.१०१) → '''प्रथमयोः पूर्वसवर्णः''' (६.१.१००) → बालास् + इच्छन्ति

<nowiki>**</nowiki>'''उपदेशेऽजनुनासिक इत्''' (१.३.२), '''तस्य लोपः''' (१.३.९)

'''भोभगोअघोअपूर्वस्य''' '''योशि''' (८.३.१७) = भो-भगो-अघो-अवर्ण-पूर्वस्य रु-शब्दस्य रेफस्य यकारादेशो भवति अशि परे | भो-भगो-अघो इत्येवं पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परे | प्रथमे पदे सन्ध्यभावः सौत्रप्रयोगः | भोश्च भगोश्च अघोश्च अश्च तेषामितरेतरद्वन्द्वः, भोभगोअघोआः | भोभगोअघोआः पूर्वे यस्मात् स भोभगोअघोअपूर्वः बहुव्रीहिः, तस्य भोभगोअघोअपूर्वस्य | भोभगोअघोअपूर्वस्य षष्ठ्यन्तं, यः प्रथमान्तम्, अशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''रोः''' '''सुपि''' (८.३.१६) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''भोभगोअघोअपूर्वस्य रोः यः अशि संहितायाम्''' |

'''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम् अ-वर्णः स्यात् | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''व्योलघुप्रयत्नतरः शाकटायनस्य''' (८.३.१८) इत्यस्मात् '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात् '''अपूर्वस्य''' च अशि चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |

हशि परे अपि यथा उपरि प्रदर्शितं तथैव, परञ्च अत्र यकारलोपः नित्यः | '''लोपः शाकल्यस्य''' (८.३.१९) इत्यस्य स्थाने ह'''लि सर्वेषाम्''' (८.३.२२) इत्यनेन '''हलि परे''' अयं यकार्लोपः नित्यः |

बालाः धावन्ति → बाला धावन्ति

'''हलि सर्वेषाम्''' (८.३.२२) = भो-भगो-अघो-अवर्ण-पूर्वस्य यकारलोपो भवति हलि परे | हलि सप्तम्यन्तं, सर्वेषां षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''सर्वेषाम्''' इत्यनेन सर्वेषां वैयाकरणानां मतेन, एतस्मात् लोपः नित्यः इति फलितार्थः | '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यस्मात् '''भोभगोअघोअपूर्वस्य''' इत्यस्य अनुवृत्तिः | '''व्योर्लघुप्रयत्नतरः शाकटायनस्य''' (८.३.१८) इत्यस्मात् '''व्योः''' इत्यस्य केवलं '''यकारः''' स्वीक्रियते, वचनपरिणामं कृत्वा '''यस्य''' इति अनुवर्तते | '''लोपः शाकल्यस्य''' (८.३.१९) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | पदस्य ( ८.१.१६) इत्यस्य अधिकारः; वचनपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः। अनुवृत्ति-सहितसूत्रं— '''भोभगोअघोअपूर्वस्य पदान्तस्य यस्य लोपः हलि सर्वेषाम्''' |

'''४'''. '''चतुर्थं सोपानम्'''— विसर्गात् पूर्वम् अत् (ह्रस्वः अकारः) अस्ति वा ?

चतुर्थं भाट्टसूत्रम् = '''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्''' |

* बालः अस्ति → बाल + उ + अस्ति → गुणसन्धिः → बालो + अस्ति → पूर्वरूपसन्धिः → बालोऽस्ति
* बालः धावति → बाल + उ + धावति → गुणसन्धिः → बालो धावति

बाल + सु + अस् + तिप् → बालस् + अस्ति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → बालर् + अस्ति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य अचि परे प्रसक्तिः नास्ति → '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यनेन अति परे ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः → बाल + उ + अस्ति → '''आद्गुणः''' (६.१.८७) इत्यनेन अ-वर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → बालो अस्ति → '''एङः पदान्तादति''' (६.१.१०९) इत्यनेन पदान्तात् एङ्-वर्णात् अति परे पूर्वपरयोः स्थाने पूर्वरूपः एकादेशः → बालोऽस्ति

'''अतो रोरप्लुतादप्लुते''' (६.१.११३) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति प्लुतभिन्न-ह्रस्व-अकारे परे | न प्लुतः अप्लुतः, तस्मात् अप्लुतात् तस्मिन् अप्लुते | अतः पञ्चम्यन्तं, रोः षष्ठ्यन्तम्, अप्लुतात् पञ्चम्यन्तम्, अप्लुते सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''ऋत उत्''' (६.१.१११) इत्यस्मात् '''उत्''' इत्यस्य अनुवृत्तिः | '''एङः पदान्तादति''' (६.१.१०९) इत्यस्मात् '''अति''' इत्यस्य अनुवृत्तिः | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— '''अप्लुतात् अतः रोः उत् अप्लुते अति संहितायाम्''' |

पूर्वरूपसन्धिः (यान्तवान्तादेशसन्धि-अपवादः)—

'''एङः पदान्तादति''' (६.१.१०९) = पदान्तात् एङ्-वर्णात् अति परे पूर्वपरयोः स्थाने पूर्वरूपः एकादेशः स्यात् | पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् | एङः पञ्चम्यन्तं, पदान्तात् पञ्चम्यन्तम्, अति सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''अमि पूर्वः''' (६.१.१०७) इत्यस्मात् '''पूर्वः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— प'''दान्तात् एङः अति पूर्वपरयोः एकः पूर्वः संहितायाम् |'''

राम + सु + गम् + तिप् → रामस् + गच्छति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → रामर् + गच्छति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य हशि परे प्रसक्तिः नास्ति → '''हशि च''' (६.१.११४) इत्यनेन हशि परे ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः → राम + उ + गच्छति → रामो गच्छति

'''हशि च''' (६.१.११४) = प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यस्मात् '''अप्लुतात्, अतः, रोः''' इत्येषाम् अनुवृत्तिः | '''ऋत उत्''' (६.१.१११) इत्यस्मात् उत् इत्यस्य अनुवृत्तिः | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः अनुवृत्ति-सहितसूत्रं— '''अप्लुतात् अतः रोः उत् हशि च संहितायाम् |'''

'''५'''. पञ्चमं सोपानम्—विसर्गात् पूर्वम् अत् अस्ति चेत्, अग्रे आत् इच् वा अस्ति वा ?

पञ्चमं भाट्टसूत्रम् = '''अतः परस्य विसर्जनीयस्य आचि लोपः''' [आति इचि च] |

* बालः इच्छति → बाल इच्छति / बालयिच्छति

* रामः आगच्छति → राम आगच्छति / रामयागच्छति|

यथोक्तं, वैयाकरणाः वाक्यगतसंस्कारपक्षं पालयन्ति | अतः अत्र शास्त्रीयक्रमः अयम्—

एकवचने बाल + सु + इष् + तिप् → बालस्* + इच्छति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → बाल + रु + इच्छति → अनुबन्धलोपे* → बालर् + इच्छति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → बालय् + इच्छति → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' → बाल इच्छति / बालयिच्छति

तथैव चिन्तनीयम् अत्र— रामः आगच्छति → राम आगच्छति / रामयागच्छति | 'इच्छति' इत्यस्य इकारः अश्-प्रत्याहारे इति यथा, तद्वत् 'आगच्छति' इत्यस्य आकारः अपि अश्-प्रत्याहारस्थः अतः कार्यम् उभयत्र समानम् |

<nowiki>*</nowiki>'''उपदेशेऽजनुनासिक इत्''' (१.३.२), '''तस्य लोपः''' (१.३.९)

'''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) = भो-भगो-अघो-अवर्ण-पूर्वस्य रु-शब्दस्य रेफस्य यकारादेशो भवति अशि परे | भो-भगो-अघो इत्येवं पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परे | प्रथमे पदे सन्ध्यभावः सौत्रप्रयोगः | भोश्च भगोश्च अघोश्च अश्च तेषामितरेतरद्वन्द्वः, भोभगोअघोआः | भोभगोअघोआः पूर्वे यस्मात् स भोभगोअघोअपूर्वः बहुव्रीहिः, तस्य भोभगोअघोअपूर्वस्य | भोभगोअघोअपूर्वस्य षष्ठ्यन्तं, यः प्रथमान्तम्, अशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''रोः सुपि''' (८.३.१६) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''भोभगोअघोअपूर्वस्य रोः यः अशि संहितायाम्''' |

'''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम् अ-वर्णः स्यात् | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''व्योलघुप्रयत्नतरः शाकटायनस्य''' (८.३.१८) इत्यस्मात् '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात् '''अपूर्वस्य''' च '''अशि''' चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |

अपवादत्रयम्—

१. रेफान्तानि अव्ययानि

प्रातः, पुनः | अस्मिन् स्थले उपरि किमुक्तम् ? अव्ययस्य अन्ते विसर्गः अस्ति चेत्, तस्य अव्ययस्य प्रातिपदिकं ज्ञेयम् | यथा प्रातः इत्यस्य प्रातिपदिकं प्रातर्; पुनः इत्यस्य प्रातिपदिकं पुनर्; अन्तः इत्यस्य प्रातिपदिकम् अन्तर् | अत्रोक्तं यत् यत्र रेफान्तानि अव्ययानि सन्ति, तत्र केवलं भाट्टसूत्रेषु प्रथमसूत्रं कार्यं करोति | अन्यत्र सर्वत्र रेफः एव आदिष्टः | अतः रेफान्त-अव्ययानां कृते सूत्राणि २ -५ इत्येषां स्थाने रेफः एव भवति |

'''१. विसर्जनीयस्य सः खरि कखपफे तु विसर्गः |'''
'''२. इचः परस्य विसर्जनीयस्य रेफः अखरि |'''
'''३. आतः परस्य विसर्जनीयस्य लोपः अखरि |'''
'''४. अतः परस्य विसर्जनीयस्य अति हशि च उत्वम् |'''
'''५. अतः परस्य विसर्जनीयस्य आचि लोपः |'''

एषु पञ्चसु 'प्रातः' इत्यस्य प्रसक्तिः कुत्र कुत्र अस्ति ?

प्रथमे, चतुर्थे, पञ्चमे च | तेषु प्रथमे सोपाने भाट्टसूत्रम् अनुसृत्य कार्यं कुर्मः चेत् साधु भवति—

* प्रातः तिष्ठति → प्रातस्तिष्ठति = साधु

किन्तु चतुर्थे पञ्चमे च सोपाने भाट्टसूत्रम् अनुसृत्य कार्यं कुर्मः चेत् दोषो भवति—

* प्रातः धावति → प्रातो धावति = दोषः
* प्रातः धावति → प्रातर्धावति = साधु
* प्रातः अस्ति → प्रातोऽस्ति = दोषः
* प्रातः अस्ति → प्रातरस्ति = साधु

* प्रातः इच्छति → प्रात इच्छति = दोषः
* प्रातः इच्छति → प्रातरिच्छति = साधु
* प्रातः आगच्छति → प्रात आगच्छति = दोषः
* प्रातः आगच्छति → प्रातरागच्छति = साधु

तर्हि प्रथमे स्थले किमर्थं भाट्टसूत्रं कार्यं करोति, चतुर्थे पञ्चमे च सोपाने किमर्थं भाट्टसूत्रं कार्यं न करोति इति शास्त्रीयरीत्या परिशीलयाम | वस्तुतस्तु अत्र नूतनं किमपि नास्ति; अत्र साफल्यस्य प्राप्त्यर्थं केवलम् इदं ज्ञानम् अपेक्षितं यत् प्रक्रियायाः आरम्भे 'प्रातर्' इत्यस्ति न तु 'प्रातः' | इदं मनसि निधाय अग्रे गच्छामश्चेत्, अत्र सारल्यमेव |

प्रथमे सोपाने—

प्रातर् + तिष्ठति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि परे → प्रातः + तिष्ठति → '''विसर्जनीयस्य''' सः (८.३.३४) इत्यनेन विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे → प्रातस् + तिष्ठति → प्रातस्तिष्ठति

चतुर्थे सोपाने—

प्रातर् + धावति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य हशि परे प्रसक्तिः नास्ति → '''हशि च''' (६.१.११४) इत्यनेन हशि परे ह्रस्व-अकारोत्तरवर्तिनः रेफस्य उकारादेशः न यतोहि अयं रेफः रु-सम्बद्धो न अपि च अत् परो न → प्रातर् + धावति → प्रातर्धावति

प्रातर् अस्ति → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य अचि परे प्रसक्तिः नास्ति → '''अतो रोरप्लुतादप्लुते''' (६.१.११३) इत्यनेन अति परे ह्रस्व-अकारोत्तरवर्तिनः रेफस्य उकारादेशः न यतोहि अयं रेफः रु-सम्बद्धो न → प्रातर् + अस्ति → प्रातरस्ति

पञ्चमे सोपाने—

प्रातर् इच्छति → '''भोभगोअघोअपूर्वस्य''' '''योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य रेफस्य यकारादेशः अशि परे न यतोहि अयं रेफः रु-सम्बद्धो न → किमपि कार्यं नास्ति → प्रातरिच्छति

प्रातर् आगच्छति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य रेफस्य यकारादेशः अशि परे न यतोहि अयं रेफः रु-सम्बद्धो न → किमपि कार्यं नास्ति → प्रातरागच्छति

परन्तु प्रातिपदिकं रेफान्तं नास्ति चेत्, सामान्यैः सूत्रैः क्रमः प्रवर्तते | यथा 'अतः' रेफान्तं नास्ति अपि तु सकारान्तम् |

* अतः इच्छति → "अतरिच्छति" = दोषः

अतस् इच्छति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशः → अत + रु + इच्छति → अनुबन्धलोपे → अतर् + इच्छति → '''भोभगोअघोअपूर्वस्य योशि''' (८.३.१७) इत्यनेन अवर्णोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → अतय् + इच्छति → '''लोपः शाकल्यस्य ('''८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' → अत इच्छति / अतयिच्छति

२. एषः सः

एषः सः इति द्वि पदे विशेषे | तयोः कृते चतुर्थसूत्रेण अति उत्वं भवति | अन्यत्र सर्वत्र लोप एव, इति उपरि उक्तम् |

पञ्चसु भाट्टसूत्रेषु एषः सः इत्यनयोः प्रसक्तिः कुत्र कुत्र अस्ति ?
प्रथमे, चतुर्थे, पञ्चमे च | तेषु प्रथमे सोपाने भाट्टसूत्रम् अनुसृत्य कार्यं कुर्मः चेत् असाधु भवति—

* सः तिष्ठति → सस्तिष्ठति = दोषः
* सः तिष्ठति → स तिष्ठति = साधु

चतुर्थे सोपाने भाट्टसूत्रम् ('''अतः परस्य विसर्जनीयस्य अति हशि च उत्वम्''' इति सूत्रम्) अनुसृत्य कार्यं कुर्मः चेत् अति साधु, हशि दोषो भवति—

अति परे उत्वं भवति—

* सः अपि → सोऽपि = साधु

हशि परे किन्तु उत्वं न भवति अपि तु विसर्गलोप एव—

* सः गच्छति → सो गच्छति = दोषः
* सः गच्छति → स गच्छति = साधु

पञ्चमे सोपाने यथा बालः इत्यादयः लघु-अकारान्तशब्दाः, एषः-सः इति द्वयोरपि अत्र विसर्गलोपः |

* एषः इच्छति → एष इच्छति / एषयिच्छति*
* एषः आगच्छति → एष आगच्छति / एषयागच्छति*

<nowiki>*</nowiki>पञ्चमे सोपाने, अत्रापि अयम् अन्यः विकल्पः अस्ति |

अधुना एषु त्रिषु सोपानेषु शास्त्रीयप्रक्रिया का इति पश्येम—

'''एतत्तदोः सुलोपोऽकोरनञ्समासे हलि''' (६.१.१३२) = एतद्, तद् चेति शब्दात् सु-प्रत्ययस्य लोपो भवति हलि परे, अनयोः द्वयोः शब्दयोः मध्ये अकच्-प्रत्ययः नास्ति चेत् अपि च नञ्समासस्य विषयो नास्ति चेत् | एतच्च तच्च एतत्तदौ इतरेतरद्वन्द्वः, तयोः एतत्तदोः | सोर्लोपः, सुलोपः षष्ठीतत्पुरुषः | न नञ्समासः अनञ्समासः नञ्तत्पुरुषः, तस्मिन् अनञ्समासे | अविद्यमानः ककारो ययोस्तौ अकौ बहुव्रीहिः, तयोः अकोः | एतत्तदोः षष्ठ्यन्तं, सुलोपः प्रथमान्तम्, अकोः षष्ठ्यन्तम्, अनञ्समासे सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''एतत्तदोः सुलोपः हलि संहितायाम् अकोः अनञ्समासे''' |

'''अव्ययसर्वनाम्नामकच् प्राक् टेः''' (५.३.७१) इति सूत्रेण एतत्, तद् इति शब्दयोः अकच्-प्रत्ययो भवति | अकच् नास्ति चेत् 'एष कृष्णः' 'स श्यामः' इति भवतः; अकच्-प्रत्यय-सहित-रूपे 'एषकः कृष्णः', 'सकः श्यामः' इति | नञ्तत्पुरुष-प्रसङ्गे चेत् 'न सः' → असः; अत्रापि सु-लोपो न भवति |

एष + सु + स्था + ति → एष + सु + तिष्ठति → अनुबन्धलोपे → एषस् + तिष्ठति → '''एतत्तदोः सुलोपोऽकोरनञ्समासे हलि''' (६.१.१३२) इत्यनेन हलि परे सुलोपः → एष तिष्ठति

स + सु + धाव् + ति → स + सु + धावति → अनुबन्धलोपे → सस् + धावति → '''एतत्तदोः सुलोपोऽकोरनञ्समासे हलि''' (६.१.१३२) इत्यनेन हलि परे सुलोपः → स धावति

'सः एषः' इति यथा, तथा 'यः' नास्ति | 'यः' इति शब्दस्य यथासामान्यं भाट्टसूत्रेषु सूत्र-१,४,५ इत्येषां साधारणरूपाणि | यस्तिष्ठति | यो गच्छति | य इच्छति |

३. रेफः + रेफः = पूर्वदीर्घत्वं रेफलोपः च

* हरिः रमते → हरिर्रमते = दोषः

रेफस्य रेफे परे पूर्वदीर्घत्वं रेफलोपः च | अस्मिन् उदाहरणे, पूर्वं यः इकारः अस्ति, तस्य दीर्घत्वं भवति | इ → ई इति |

* हरिः रमते → '''इचः परस्य विसर्जनीयस्य रेफः अखरि''' इत्यनेन → हरिर् + रमते → रेफस्य लोपः, पूर्वदीर्घत्वम् → हरी + रमते → हरीरमते |

'पुनः' रेफान्तम् अव्ययम् अतः अत्रापि रेफो भवति; रेफस्य रेफे परे रेफलोपः पूर्वदीर्घत्वं च इति धेयम् |

* तथैव पुनः रमते → रेफान्तम् अव्ययम् अतः विसर्गसन्धौ रेफादेशः → पुनर् + रमते → पुना + रमते → पुनारमते |

शास्त्रीयप्रक्रिया—

प्रथमाविभक्तौ एकवचने हरि + सु + रम् + ते → इत्-संज्ञक-उकारस्य लोपः → हरिस् + रमते → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य रु-आदेशः → हरि + रु + रमते → इत्-संज्ञक-उकारस्य लोपः → हरिर् + रमते → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत् तिष्ठति → हरिर् + रमते → '''रो रि ('''८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → हरि + रमते → रेफः रेफलोपस्य निमित्तम् अतः '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यनेन रेफलोपनिमित्तकरेफात् प्राक् अण्-प्रत्याहारे स्थितस्य अकारस्य दीर्घत्वम् → हरीरमते

एवमेव—

पुनर् + रमते → अवसाने नास्ति, खरि नास्ति अतः '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशो न भवति → यथावत् तिष्ठति → पुनर् + रमते → '''रो रि ('''८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → रेफः रेफलोपस्य निमित्तम् अतः '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यनेन रेफलोपनिमित्तकरेफात् प्राक् अण्-प्रत्याहारे स्थितस्य अकारस्य दीर्घत्वम् → पुनारमते

'''रो रि''' (८.३.१४) = रेफस्य लोपः रेफे परे | रः षष्ठ्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''ढो ढे लोपः ('''८.३.१३) इत्यस्मात् '''लोपः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''रः लोपः रि संहितायाम्''' |

'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ् च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन् ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्, अणः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''ढ्रलोपे पूर्वस्य अणः दीर्घः''' |

अत्र कश्चन प्रश्नः उदेति यत् '''रो रि''' (८.३.१४) त्रिपादिसूत्रं, '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) च सपादसप्ताध्याय्याम् इति कारणतः '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यनेन '''रो रि''' (८.३.१४) इत्यस्य कार्यम् असिद्धं न भवति किम् ? अत्र सिद्धान्तः कार्यं करोति '''आश्रयात् सिद्धत्वम्''' | यावत् पर्यन्तं '''रो रि ('''८.३.१४) न स्यात्, तावत् पर्यन्तं '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य रेफनिमित्तकप्रसक्तिर्न भविष्यति एव | '''रो रि''' (८.३.१४) इत्यस्य आश्रयेण '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य कार्यं सिध्यति | '''रो रि''' (८.३.१४) नास्ति चेत् '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) निरवकाशं भवति | '''रो रि''' (८.३.१४) इति सूत्रं त्यक्त्वा '''<nowiki/>'ढ्रलोपे'''' इत्यस्य रेफनिमित्तकत्वं निरर्थकम् | किमर्थं न '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इति सूत्रं '''रो रि''' (८.३.१४) इत्यस्य अनन्तरंम् अष्टाध्याय्यां स्थाप्येत इति चेत्, '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य 'दीर्घ'-शब्दस्य अनुवृत्तिः आवश्यकी ६.३.११२ इत्यस्मात् आरभ्य ६.४.१८ इति यावत् |
'''<nowiki/>'''
इति विसर्गसन्धेः समग्रं चिन्तनम् समाप्तम् |