9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2: Difference between revisions

edited the page and carried out the formatting as suggested. Trust now it is ok
No edit summary
(edited the page and carried out the formatting as suggested. Trust now it is ok)
Line 22:

पाणिनेः सूत्राणां पद्धतिः

Line 28:

जिज्ञासा— "सँस्कृतिः/संस्कृतिः" परन्तु "संशयः" एव

Line 36:

'''A.''' अनुस्वारः

अनुस्वारः आदेशो वा आगमो भवति | कुत्र आदेशो भवति इति सन्धिविषये दृश्यते—

अनुस्वारसन्धिः

'''मोऽनुस्वारः''' (८.३.२३, लघु० ७७) = हलि परे पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलि सर्वेषाम्'''‌ इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' इत्यस्य अधिकारः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' इति |

यानम्‌ गच्छति → यानं गच्छति

'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''झलि अपदान्तस्य मः नः च अनुस्वारः''' इति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः |
Line 51 ⟶ 53:

रम् + स्यते → रंस्यते

कुत्र अनुस्वारः आगमो भवति इति अग्रे पश्यामः, रुत्वप्रकरणे |

'''B.''' अनुनासिकः

नित्यानुनासिकाः = ङ्‌, ञ्‌, ण्‌, न्‌, म्‌

अनित्यानुनासिकाः = सर्वे स्वराः, य्‌, व्‌, ल्‌

परसवर्णसन्धिः

'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८, लघु० ७८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' इति |
Line 98 ⟶ 102:

'''C.''' जिज्ञासा— "सँस्कृतिः/संस्कृतिः" परन्तु "संशयः" एव

अत्र कश्चन प्रमुखविषयो वर्तते—कुत्र विकल्पेन अनुनासिकः अनुस्वरश्च विहितौ भवतः, व्यतिरेके कुत्र केवलम्‌ अनुस्वारः विहितः |

उभयम्‌—उभयम्‌— रुत्वप्रकरणम्‌ | १. संस्कारः/सँस्कारः, संस्कृतिः/सँस्कृतिः, संस्कृतम्‌/सँस्कृतम्‌, संस्कर्ता/सँस्कर्ता, संस्कर्तुम्‌/सँस्कर्तुम्‌, संस्कर्तव्यम्‌/सँस्कर्तव्यम्‌

२. सत्वसन्धिः - कांश्चित्‌, काँश्चित्‌

अनुस्वार एव—एव— अनुस्वारसन्धिः यत्र परे परसवर्णसन्धिः न प्रसक्तः | संशयः |

'''१.''' रुत्वप्रकरणम्‌

रुत्वम्‌ एकं प्रकरणम्‌ | प्रकरणं नाम यत्र एकस्मिन्‌ स्थले वारं वारं एकप्रकारकं कार्यं सिध्यति | रुत्व-प्रकरणे १२ सूत्राणि सन्ति | अस्मिन्‌ प्रकरणे वारं वारं "रु" विहितं भवति | रु इति कश्चन आदेशः | अस्य प्रकरणस्य द्वितीयसूत्रात्‌ आरभ्य यत्र यत्र रु आदिष्टो भवति तत्र तत्र तस्य रेफात्‌ प्राक्‌ यः स्वरः अस्ति, तस्य स्थाने विकल्पेन अनुनासिकादेशो भवति | तदा रु-स्थाने विसर्गः; अपि च विसर्गस्य स्थाने सकारः |
Line 119 ⟶ 125:
सम्‌ + स्कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → अनुबन्धलोपे → सर्‍ + स्कृति → विकल्पेन अँ-आदेशः / तदभावे अनुस्वारागमः → सँर्‍ स्कृति / संर्‌ स्कृति → पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |

रुत्वप्रकरण-सूत्राणि

'''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१)
Line 158 ⟶ 165:

'''२.''' सँस्कृतिः/संस्कृतिः

Line 188 ⟶ 195:

संस्कृति-शब्दः— प्रक्रिया

Line 216 ⟶ 223:

'''३.''' सत्वसन्धिः - काँश्चित्‌/कांश्चित्‌

सत्वसन्धि-विधायकं सूत्रमपि रुत्वप्रकरणे स्थितम्‌ अतः प्रक्रिया तथा भवति यथा कृ-धातु-प्रसङ्गे आसीत्‌ |
Line 235 ⟶ 242:

'''४.''' संशयः एव

Line 248 ⟶ 255:
अस्यां दशायां परसवर्णसन्धिः भवति न वा इति चिन्तनीयम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन परसवर्णसन्धिः भवति, ययि परे | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | शकारः ययि नास्ति, अतः परसवर्णसन्धिः न भवति; अनुस्वारः एव तिष्ठति | सं + शयः → संशयः |

Swarup – June 2014

Ċ

[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjI4MWI2MzNiOTE4OWRjM2Q अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २.pdf (75k)]

Swarup – June 2014

50

edits