02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions
02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam (view source)
Revision as of 03:07, 10 May 2021
, 3 years agoFont size
Vamsisudha (talk | contribs) No edit summary |
(Font size) |

Line 1:
{| class="

|'''2015 वर्गः'''
Line 18 ⟶ 17:
यण्-सन्धिं बहवः जानन्ति | यथा यदि + अपि → [इ → य्] → यद्यपि | अत्र इकारस्य स्थाने यकारादेशो भवति | "इकारस्य स्थाने यकारः" इति व्याकरणलोके एकं '''कार्यम्''' इति उच्यते |
व्याकरणे कार्याणि एतादृशानि भवन्ति—
आगमः = वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः | पठन् + आगच्छति → न्-आगमः → पठन्नागच्छति |
लोपः = वर्णस्य अदर्शनम् | बालकः + इच्छति → ः-लोपः → बालक इच्छति |

कस्यचित् अपि कार्यस्य निर्देशार्थं, विधानार्थं, सूत्रं भवति | यण्-सन्धिः एकं कार्यम्; अतः तस्य विधानार्थं सूत्रम् अस्ति | सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम | यण्-सन्धेः विधिसूत्रम् इदम्—
'''इको यणचि''' (६.१.७६) = इकः स्थाने यण्-आदेशः भवति अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् | इकः षष्ठ्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इकः यण् अचि संहितायाम्''' |

उपरितने सूत्रे इक्, यण्, अच् इति त्रयः प्रत्याहाराः सन्ति | प्रत्याहारः नाम वर्णानां समूहः | एषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम् [[1 - माहेश्वराणि सूत्राणि|'''अत्र''']] पश्यतु |

'<nowiki/>'''''इको यणचि'''''' (६.१.७६) इति सूत्रं यथा, तथा पाणिनेः '''अष्टाध्यायी''' इति ग्रन्थे बहूनि सूत्राणि सन्ति | तानि सूत्राणि कार्यं निर्दिशन्ति, highly codified language इत्यस्य माध्यमेन | Codified किमर्थम् इति चेत्, येन प्रत्येकं सूत्रं '''लघु''' स्यात्, अपि च येन ग्रन्थे आहत्य सूत्राणां सङ्ख्या न्यूनातिन्यूनं स्यात् | तर्हि सङ्क्षेपार्थं code निर्मितं पाणिनिना; code इत्यस्य माध्यमं किम् ? विभक्तिः | इयं विभक्ति-पद्धतिः का इति अग्रे पश्येम |
==='''1.''' पाणिनेः सूत्राणां पद्धतिः===
पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः | पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि | अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति— अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति | एषां कार्याणां सङ्केतार्थं '''विभक्तयः''' प्रयुक्ताः सन्ति | तदर्थं लोकस्य अपेक्षया, सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति | पाणिनीयसूत्रेषु विभक्ति-अर्थाः के इति अधः सूचिताः |
षष्ठीविभक्तिः = स्थाने
प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम्
सप्तमीविभक्तिः = पूर्वकार्यम्
पञ्चमीविभक्तिः = परकार्यम्
तृतीयाविभक्तिः = संयोजनम्

'''a. षष्ठीविभक्तिः''' = '''स्थाने''' | सूत्रे यस्य वर्णस्य/प्रत्याहारस्य षष्ठीविभक्तिः भवति, सः "स्थानी" भवति— इत्युक्ते तस्य स्थाने अन्यः वर्णः आयाति | कः वर्णः आयाति तस्य स्थाने ? तस्मिन् एव सूत्रे यः वर्णः/प्रत्याहारः प्रथमाविभक्त्यन्तः, सः |
उदाहरणार्थम्—
'<nowiki/>'''''इको यणचि'''''' (६.१.७६) = इकः स्थाने यण्-आदेशः भवति | इकः षष्ठ्यन्तं, यण् प्रथमान्तम् | '''इकः यण् अचि संहितायाम्''' |

'''b. प्रथमाविभक्तिः''' = '''आदेशः''', '''आगमः''', '''नामकरणम्''' | सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति, सः आयाति षष्ठीविभक्त्यन्तस्य वर्णस्य स्थाने | तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम "आदेशः" | सूत्रे तादृशः षष्ठीविभक्त्यन्तः वर्णो नास्ति चेत्, तर्हि सः प्रथमाविभक्त्यन्तः वर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न, अतः तस्य नाम "आगमः" | अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका |
आदेशः
'<nowiki/>'''''इको यणचि'''''' (६.१.७६) = इकः स्थाने यण्-आदेशः भवति | इकः षष्ठ्यन्तं, यण् प्रथमान्तम् | '''इकः यण् अचि संहितायाम्''' |
आगमः
'''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) = लुङ् लङ् लृङ् च परे चेत्, धातुरूपि-अङ्गस्य अट्-आगमो भवति | लुङ्लङ्लृङ्क्षु सप्तम्यन्तम्, अट् प्रथमान्तम्, उदात्तः प्रथमान्तम् | '''अङ्गस्य अट् उदात्तः''' '''लुङ्लङ्लृङ्क्षु''' |

अ + पठ् +अ +त् → अपठत्

नामकरणम्
'''सुप्तिङन्तं पदम्''' (१.४.१४) = सुबन्तं च तिङन्तं च पदसज्ञकौ भवतः, इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | सुप्तिङन्तं प्रथमान्तं, पदम् प्रथमान्तम् |

राम + सु → रामः | 'रामः' इत्यस्य अन्ते सु इति सुप्-प्रत्ययः अस्ति; सुप् अन्ते यस्य सः सुबन्तं; सुबन्तम् अतः अनेन सूत्रेण तस्य पद-संज्ञा भवति |

वद् + अ + ति → वदति | 'वदति' इत्यस्य अन्ते ति इति तिङ्-प्रत्ययः अस्ति; तिङ् अन्ते यस्य सः तिङन्तं; तिङन्तम् अतः अनेन सूत्रेण तस्य पद-संज्ञा भवति |

'''c. सप्तमीविभक्तिः''' = '''पूर्वकार्यम्''' | सूत्रे यस्य वर्णस्य सप्तमीविभक्तिः भवति, सः निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः | नाम निर्दिष्टं कार्यं तस्मात् पूर्वम् अस्ति |

'<nowiki/>'''''इको यणचि'''''' (६.१.७६) = इकः स्थाने यण्-आदेशः भवति अचि परे | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तम् | '''इकः यण् अचि संहितायाम्''' |

'''d. पञ्चमीविभक्तिः''' = '''परकार्यम्''' | सूत्रे यस्य वर्णस्य पञ्चमीविभक्तिः भवति, सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः | नाम निर्दिष्टं कार्यं तस्मात् परम् अस्ति |

'''रषाभ्यां नो णः समानपदे''' (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः | रषाभ्यां पञ्चम्यन्तं, नः षष्ठ्यन्तं, णः प्रथमान्तम् |
वर्ण | पूर्ण |

वर्न → '''रषाभ्यां नो णः समानपदे''' (८.४.१) → वर्ण

'''e. तृतीयाविभक्तिः''' = '''संयोजनम्''' | सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति, सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः | तत्र निर्दिष्टं कार्यं तस्मात् पूर्वम् अपि परम् अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् |

'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम् | '''स्तोः श्चुना श्चुः संहितायाम्''' |

पूर्वकार्यम् =अन्यत् + च → अन्यच्च
परकार्यम् =यज् + नः → यज् + ञ् + अः → यज्ञः

अतः निर्दिष्टं कार्यं निमित्तात् पूर्वम् अपि परम् अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् |
==='''2.''' व्याख्यानस्य आकृतिः===

यदा सूत्रस्य विवरणं दीयते अस्माकं 'संस्कृतव्याकरणम्' इति जालस्थाने, तदा व्याख्याने कश्चन क्रमो वर्तते | स च क्रमः सदा समानो भवति—

१. सूत्रस्य अर्थः = एकस्मिन् वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम् |
२. समासानां विग्रहवाक्यम् = बहुषु सूत्रेषु समासाः सन्ति | सन्ति चेत्, तेषां विवरणं दीयते |
३. सूत्रे पदानां विभक्तयः = सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते |
४. सूत्रे अनुवृत्तिः = आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूरणार्थम् | पाणिनिः सूत्रस्य लघुत्वम् इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतानि भवन्ति | अनेन, एकस्मिन् स्थले (इत्युक्ते एकस्मिन् प्रकरणे) प्रथमे सूत्रे किञ्चन पदम् अस्ति, तत् पदं पुनः द्वितीये सूत्रे न दीयते | अस्माभिः मनसि तत् पदम् आनेतव्यम् | यथा रामः वदति "अहम् आपणं गच्छामि" | श्यामः वदति "अहम् अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः "अहम् अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम् "अहम् अपि" इत्यवदत्, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम् अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अस्माभिः आनेतव्यानि | तादृशपदस्य 'अनुवृत्तिः' अस्ति इत्युच्यते | व्याख्यानस्य अस्मिन् भागे इमानि पदानि दीयन्ते |
५. सूत्रे अधिकारः = केषाञ्चित् विशिष्ट-सूत्राणां पूर्णरीत्या 'अनुवृत्तिः' भवति बहुषु अग्रिमसूत्रेषु | अधिकारसूत्रे यावन्ति पदानि सन्ति, तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम् उपविशन्ति | अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम् अपेक्ष्यते चेत्, अत्र दीयते |
६. अनुवृत्ति-सहित-सूत्रम् = सूत्रं वाक्यरूपेण दीयते | याः अनुवृत्तयः सन्ति, अपि च यानि अधिकारसूत्राणि सन्ति, तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते |
==='''3.''' उदाहरणम्— यण् सन्धिः===

यदि + अपि → [इ → य्] → यद्यपि |
'<nowiki/>'''''इको यणचि'''''' (६.१.७६) = इकः स्थाने यण्-आदेशः भवति अचि परे संहितायां विषये | इकः षष्ठ्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''इकः यण् अचि संहितायाम्''' |
उपरितने व्याख्याने, क्रमेण सूत्रार्थः अस्ति, समासस्य अभावात् समासविवरणं नास्ति, पदानां विभक्तयः दत्ताः, सूत्रे अनुवृत्तिः नास्ति, अधिकारः अस्ति, अनुवृत्ति-सहित-सूत्रम् अन्ते वर्तते | अत्र अनुवृत्तिः नास्ति, परन्तु अधिकारः अस्ति अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः |
यदि + अपि → [इ → य्] → यद्यपि | अत्र इकारः इक्-प्रत्याहारे अस्ति; यकारः यण्-प्रत्याहारे अस्ति | सूत्रे इक् षष्ठीविभक्तौ अस्ति अतः तस्य स्थाने कार्यं भवति; यण् प्रथमाविभक्तौ अस्ति अतः सः (यकारः) आदेश-रूपेण इकारस्य स्थाने आयाति; अच् सप्तमीविभक्तौ अस्ति अतः "अपि”-शब्दस्य अकारात् पूर्वं कार्यं भवति | कार्यं किम् ? इ-स्थाने य्-आदेशः |

सूत्रार्थः अवगतः खलु !
==='''4)''' पाणिनीय-सूत्राणि षड् विधानि===
संज्ञा च परिभाषा च विधिर्नियम एव च |
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ||

१) संज्ञासूत्रम् = येन नामकरणं क्रियते | '''सुप्तिङन्तं पदम्''' (१.४.१४)
२) परिभाषासूत्रम् = यत्र नियमः नास्ति, एतादृशं सूत्रम् आगत्य नियमयति | '''स्थानेऽन्तरतमः''' (१.१.५०)
३) विधिसूत्रम् = येन कार्यं विधीयते | '''इको यणचि''' (६.१.७६)
४) नियमसूत्रम् = येन पूर्वात् विद्यमानः नियमः सीमितो भवेत् | '''रात्सस्य''' (८.२.२४)*
५) अतिदेशसूत्रम् = येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तेत | '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण यः ङित् नास्ति, सः ङिद्वत् स्यात् |
६) अधिकारसूत्रम् = यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु | '''संहितायाम्''' (६.१.७१)
Line 172 ⟶ 156:
= परिशिष्टम् =
नियमसूत्रम् ['''रात्सस्य''' (८.२.२४)]

पदान्ते संयोगः
1. पदस्य अन्ते संयोगोऽस्ति चेत्, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |

'''संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत् संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''संयोगान्तस्य पदस्य लोपः''' |

यथा— बन्ध् इति औपदेशिकधातुः | तस्य यङ्लुगन्तधातुः बाबन्ध् |

अबाबन्ध् + त् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्-लोपः → अबाबन्ध् इति तिङन्तं संयोगान्तं पदम् → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदस्य अन्तिमवर्णस्य लोपः → अबाबन्

2. संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |
'''रात्सस्य''' (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात् पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''रात् संयोगान्तस्य पदस्य सस्य लोपः''' |

वस्तुतः इदं सूत्रं केवलं वदति यत् पदान्ते संयोगः अस्ति चेत्, संयोगस्य प्रथमसदस्यः रेफः चेत्, रेफात् परस्य सकारस्य लोपो भवति | अयं च सकार-लोपः '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन एव सिद्धं खलु | तर्हि पुनः '''रात्सस्य''' इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सकार-लोपः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम् | अस्य सकारलोपस्य पुनः कथनेन ''केवलं सकारलोपः, अपरवर्णस्य न'' इति फलितार्थः |
अमृज् + त् → अमृज् → '''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन वृद्धिः → अमार्ज् → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन ज्-लोपः प्राप्तः, '''रात्सस्य''' (८.२.२४) इत्यनेन ज्-लोपः बाधितः → अमार्ज्
[अग्रे द्रक्ष्यामः यत्— अमार्ज् → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन ज्-स्थाने षकारादेशः → अमार्ष् → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते जश्त्वम् → अमार्ड् → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम् → अमार्ट्]
यदाकदा प्रश्नः आयाति, सकारलोपस्य उदाहरणं किम् ? एतादृशः धातुः प्रायः न स्यात् यस्य अन्ते रेफसकारयोः संयोगः विद्यते | परन्तु सुबन्तेषु दृष्टान्तः लभ्यते | ऋकारान्त-सुबन्तानां पञ्चम्यन्तं रूपं षष्ठ्यन्तं रूपं च अनेन सिध्यति | यथा—
पितृ + ङस् → अनुबन्धलोपे → पितृ + अस् → '''ऋत उत्''' (६.१.१११) इत्यनेन ऋकारान्तात् उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित् + उ + स् → '''उरण् रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्, सः रपरः भवति → पित् +उर् + स् → '''रात्सस्य''' (८.२.२४) इत्यनेन स्-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने रेफस्य स्थाने विसर्गादेशः → पितुः
<nowiki>---------------------------------</nowiki>