परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 33:
 
 
'''<big>४)</big>''' <big>'''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः | यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति , तर्हि तादृशधातोः यः कर्मकारकः अस्ति, तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते ज्वरशब्दंज्वर् -धातुं वर्जयित्वा | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''रुजार्थानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
Line 42:
 
 
<big>'''अज्वरिसन्ताप्योरिति वाच्यम्''' इति वार्तिकम् - ज्वर्, सन्तापि इति धातुभ्यां भावार्थे कृत्प्रत्ययं योजयित्वा ज्वरः सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः | चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु ज्वरः, तथा सन्तापः इति अनयोः शब्दयोः योगे शेषत्वविवक्षायां षष्ठिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौरः इत्यस्य षष्ठीविभक्तिः जायते '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | अतः अत्र कृद्योगे षष्ठी जाता इत्यतः समासः अपि जायते | अतः चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |</big>
 
 
<big>५)</big> <big>'''आशिषि नाथः''' (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इयं प्रतिपदविधाना षष्ठी इत्यतः '''षष्ठी''' ( २.२.८) इति सूत्रेण समासः न भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''आशिषि नाथः कर्मणि शेषे षष्ठी''' '''|'''</big>
page_and_link_managers, Administrators
5,088

edits