मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
(4 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् </span>}}
 
 
 
Line 11 ⟶ 12:
|-
|3) [https://archive.org/download/samAsaH-pANini-dvArA/194_tatpuruShasamAsaH-%20madhyE%20apavAdhaH%20pUrvAn%20vidhin%20bAdhantE%20nOttarAn_2024-06-15.mp4 tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-15]
|-
|4) [https://archive.org/download/samAsaH-pANini-dvArA/195_tatpuruShasamAsaH-%20madhyE%20apavAdhaH%20pUrvAn%20vidhin%20bAdhantE%20nOttarAn_%202024-06-22.mp4 tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_ 2024-06-22]
|}
 
Line 83 ⟶ 86:
 
 
<big>'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) = नासिकाद्यन्तात् (नासिक-उदर-ओष्ठ-जङ्घा (thigh)-दन्त-कर्ण-शृङ्गात्( horn) ) प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''अस्वाङ्गपूर्वपदाद्वा''' (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वाङ्गाच्चोपसर्जनात्''' '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''वा''' |</big>
 
 
Line 95 ⟶ 98:
 
<big>ओष्ठादीनां ( ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग च) पञ्चानां तु असंयोगोपधात् इति पर्युदासे प्राप्ते वचनम् इदं मध्येऽपवादन्यायात् | ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग चेति स्वाङ्गवाचिनः शब्दाः सन्ति | तदन्तप्रातिपादिकात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन स्त्रियां विकल्पेन ङीष् अप्राप्तः यतोहि एते संयोगोपधाः सन्ति, अतः पर्युदासात्मकनिषेधः प्राप्तः | अर्थात् ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति संयोगोपधाः शब्दाः, अतः एतेषां ङीष् अप्राप्तः अस्ति '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन | एतेषां पञ्चानां शब्दानां ङीष् विधानम् अस्ति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५६) इति प्रकृतभूतसूत्रेण | एतेषु पञ्चसु शब्देषु बहवः अच्वर्णाः न सन्ति इत्यतः '''न क्रोडादिबह्वचः''' (४.१.५६) इत्यस्य प्रसङ्गः एव नास्ति | अत्र '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण प्रकृतसूत्रम् अपवादसूत्रं सामान्यसूत्राणां मध्ये पठितं वर्तते इत्यतः '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् | '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | सहनञ्लक्षणः तु प्रतिषेधः परत्वात् अस्य प्रकृतसूत्रस्य बाधकः अस्ति | अर्थात् प्रकृतसूत्रस्य अपेक्षया अग्रे आगम्यमानं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रं परशास्त्रम् अस्ति इत्यतः तत् प्रकृतसूत्रस्य बाधकम् अस्ति | '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रं परत्वात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्यापि बाधकं भवति |</big>
 
 
Line 139 ⟶ 142:
 
 
<big>'''न क्रोडादिबह्वचः''' (४.१.५६) = क्रोडादेः बह्वचः च स्वाङ्गात् न ङीष् | क्रोडादिगणे पठिताः स्वाङ्गावाचिनः तथा बह्वचः स्वाङ्गवाचिनः प्रातिपदिकेभ्यः स्त्रित्वविवक्षायां ङीष् -प्रत्ययः न भवति | बह्वचः इत्युक्ते यस्मिन् त्रयः वा अधिकाः अचः सन्ति | क्रोडा आदिः येषां ते , क्रोडादयः | बह्वोच् यस्य सः बह्वच् | क्रोडादयश्च बह्वच् च तेषां समाहारद्वन्द्वः, क्रोडादिबह्वच्, तस्मात् क्रोडादिबह्वचः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन विक्लपेन प्राप्तस्य ङीष् इत्यस्य प्रतिषेधः क्रियते | न अव्ययपदं, क्रोडादिबह्वचः पञ्चम्यन्तं, द्विपदं सूत्रम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वाङ्गात् उपसर्जनात् क्रोडादिबह्वचः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''न''' |</big>
 
 
Line 153 ⟶ 156:
 
 
'''<big>सहनञ्विद्यमानपूर्वाच्च</big>''' <big>(४.१.५७) = सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४)''', नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते | सह, नञ्, तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाची शब्दः उत्तरपदे चेत्, तदन्तात् प्रातिपदिकात् ङीष् इति प्रत्ययः न भवति स्त्रीत्वस्य विवक्षायाम् | अस्मिन् सूत्रे सह इत्यस्य अर्थः ''विद्यमानः'' इति | ङीष् इति प्रत्ययस्य अभावे '''अजाद्यतष्टाप्''' ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति | सहश्च नञ्च विद्यमानं च तेषाम् इतरेतरयोगद्वन्द्वः सहनञ्विद्यमानानि, तानि पूर्वे यस्य तत् सहनञ्विद्यमानपूर्वं, तस्मात् | सहनञ्विद्यमानपूर्वात् पञ्चम्यन्तं, चाव्ययम् | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् उपसर्जनात्, स्वाङ्गात् इत्यनयोः अनुवृत्तिः | '''न क्रोडादिबह्वचः''' ( ४.१.५६) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—सहितसूत्रम्‌ — '''सहनञ्विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''न''' |</big>
 
 
Line 210 ⟶ 213:
 
<big>अत्र स्पष्टं प्रतीयते  यद् अपवादसूत्रं '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं मध्ये पठितमस्ति | अतः अयमपवादः स्वस्मात् पूर्ववर्तिनः अर्थात् असंयोगोपधात् इत्यस्य बाधकः भवति | स्वस्माद् उत्तरवर्तिनः '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य बाधकः न भवति | '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७)  इति सूत्रं परं भवति, अतः परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्य बाधकं भवति |</big>
 
<big>वर्गे यथा अस्माभिः चर्चितं तदाधारीकृत्य श्रीराममहोदयेन अतीव सुन्दररीत्या सर्वं मानचित्ररूपेण चित्रितं वर्तते —</big>
 
[[File:मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् .jpg|border|center|frameless|572x572px|मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् ]]
 
 
 
page_and_link_managers, Administrators
5,243

edits