मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्

From Samskrita Vyakaranam
Jump to navigation Jump to search
ध्वनिमुद्रणानि
1) tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-01
2) tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-08
3) tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-15


मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः | मध्ये पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |


उदाहरणानि -


१) इणो यण् ( ६.४.८१) = इण्-धातोः यण्‌-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इणः अङ्गस्य यण्‌ अचि | यन्ति, यन्तु, आयन् इति एवं रूपाणि भवन्ति लटि, लोटि, लङि च प्रथमपुरुषे बहुवचने |


अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः इणो यण् ( ६.४.८१) इति सूत्रम् | यन्ति, यन्तु, आयन् चेत्यत्र इयङादेशं प्राबाध्य इणो यण् ( ६.४.८१) इत्यनेन यणादेशः भवति |


इदानीम् इण्-धातुतः यदा ण्वुल्प्रत्ययः अथवा ल्युट्प्रत्ययः विधीयते तदा इणो यण् ( ६.४.८१) इत्यनेन यणादेशः भवति किम् ?


ण्वुल्प्रत्यये परे अचो ञ्णिति (७.२.११५) इति सूत्रमपि प्रसक्तम् अस्ति | ल्युट्प्रत्यये परे सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रमपि प्रसक्तम् अस्ति | एतत् सूत्रद्वयमपि इणो यण् ( ६.४.८१) इत्यस्य अपेक्षया परसूत्रम् अस्ति | यथा इणो यण् ( ६.४.८१) इति सूत्रम् अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः तथा अचो ञ्णिति (७.२.११५), सार्वधातुकार्धधातुकयोः (७.३.८४) चेत्यनयोः अपि अपवादः अस्ति वा इति प्रश्नः जायते |


यदि एवमुच्यते यत् इणो यण् ( ६.४.८१) अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) अचो ञ्णिति (७.२.११५),तथा च सार्वधातुकार्धधातुकयोः (७.३.८४) चेत्येतेषां सर्वेषां सूत्राणाम् अन्यत्रान्यत्रलब्धकाशः अस्ति इत्यतः विप्रतिषेधे परं कार्यम् (१.४.१) इत्यनेन परसूत्रस्य कार्यं स्यात् इति | तर्हि सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः एव स्यात् , किन्तु अचो ञ्णिति (७.२.११५) इति सूत्रं तु सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य अपवादः इति कृत्वा तस्यैव कार्यं प्रथमतया स्यात् इति |


एवमुच्यते चेत् मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषायाः आवश्यकता नास्ति इति वक्तुं शक्यते खलु इति प्रश्नः उदेति | अस्य समाधानम् अस्ति यत् लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्‌ इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत्‌ | अस्याः परिभाषायाः अर्थः अस्ति यत् लक्षणस्य (सूत्रस्य) अपेक्षया प्रतिपदोक्तस्य ग्रहणं, नाम बलवत्वम्‌ | लक्षणप्रतिपदोक्तयोः मध्ये साक्षादुच्चारितत्त्वेन प्रतिपदोक्तत्वस्य एव शीघ्रोपस्थितिः भवति, अतः इणो यण् ( ६.४.८१) इति सूत्रे इण् -धातोः प्रतिपदोक्तत्त्वात् तस्य बलवत्त्वं स्यात् अन्येषां सूत्राणाम् अपेक्षया | एवं चेत् समस्या जायेत, अतः मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषायाः बलेन निर्णयः शक्यते यत् प्रतिपदोक्तत्वं चेदपि पूर्वस्य विधिन् एव बाधते न तु उत्तरस्य इति |



मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषायाः अवगमनार्थं सूत्रक्रमः ज्ञातव्यः -

सूत्रक्रमः
इको यणचि ( ६.१.७७)
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७)
इणो यण् ( ६.४.८१) - मध्ये अपवादः पठितः
अचो ञ्णिति (७.२.११५)
सार्वधातुकार्धधातुकयोः (७.३.८४)


मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन इणो यण् ( ६.४.८१) इति अपवादभूतसूत्रं यत् मध्ये वर्तते, तत् पूर्वान् विधीन् एव बाधन्ते इति कृत्वा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) इति सूत्रस्य इयङादेशमेव बाधते न तु परसूत्राणां कार्यम् | इति कृत्वा इणो यण् ( ६.४.८१) इति विधिः परयोः गुणवृद्ध्योः न बाध्यते | अर्थात् इणो यण् ( ६.४.८१) इति विधिः अचो ञ्णिति (७.२.११५), सार्वधातुकार्धधातुकयोः (७.३.८४) चेत्यनयोः अपवादः नास्ति अतः एव अयनम्, आयकः इति रूपं लभ्यते |



अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अचः अङ्गस्य नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस् अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इक्‌ स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


२) स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) = स्वाङ्गं यदुपसर्जनमसंयोगोपधं तददन्तात् प्रातिपदिकात् स्त्रियां विकल्पेन ङीष् प्रत्ययो भवति | यस्य उपसर्जनसंज्ञकस्य स्वाङ्गवाचिनः शब्दस्य उपधायां संयोगः न स्यात्, सः शब्दः अदन्तः च स्यात्, तादृशशब्दात् स्त्रीत्वविवक्षायां विकल्पेन ङीष् इति प्रत्ययः विधीयते | स्वम् अङ्गं स्वाङ्गं, तस्मात् | संयोगः उपधा यस्य सः संयोगोपधः, न संयोगोपधः असंयोगोपधस्तस्मात् | स्वाङ्गात् पञ्चम्यन्तं, च अव्ययपदं, उपसर्जनात् पञ्चम्यन्तम्, असंयोगोपधात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | अन्यतो ङीष् (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | अजाद्यतष्टाप् (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | अस्वाङ्गपूर्वपदाद्वा (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | ङ्याप्प्रातिपदिकात् (४.१.१), प्रत्ययः (३.१.१), परश्च (३.१.२), स्त्रियाम् (४.१.३) इत्येतेषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— उपसर्जनात् असंयोगोपधात् स्वाङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् वा |


यथा - १) चन्द्रः इव मुखं यस्याः सा= चन्द्रमुखी, चन्द्रमुखा | मुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति, अतः सः शब्दः असंयोगोपधः | मुखम् इति शब्दः स्वाङ्गवाची शब्दः अस्ति | अत्र च प्रथमानिर्दिष्टम् उपसरजनम् ( १.२.४३ ) इत्यनेन मुखशब्दस्योपसर्जनसंज्ञा | समासः अदन्तः च अस्ति | अतः स्वाङ्गं यदुपसर्जनमसंयोगोपधं तददन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | अतः चन्द्रमुख इति प्रातिपदिकात् ङीष् इति प्रत्ययः विकल्पेन विधीयते, अपक्षे टाप् इति प्रत्ययः भवति | चन्द्रमुख + ङीष् = चन्द्रमुखी, चन्द्रमुख + टाप् = चन्द्रमुखा ( अजाद्यतष्टाप् ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति) |

२) अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला |



नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) = नासिकाद्यन्तात् (नासिक-उदर-ओष्ठ-जङ्घा (thigh)-दन्त-कर्ण-शृङ्गात्( horn) ) प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | ङ्याप्प्रातिपदिकात् (४.१.१), प्रत्ययः (३.१.१), परश्च (३.१.२), स्त्रियाम् (४.१.३) इत्येतेषाम् अधिकारः | अन्यतो ङीष् (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | अजाद्यतष्टाप् (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | अस्वाङ्गपूर्वपदाद्वा (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्वाङ्गाच्चोपसर्जनात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् वा |

आद्ययोः नासिकोदरयोः बह्वज्लक्षणो निषेधो बाध्यते पुरस्तादपवादन्यायात् |


स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रेण नासिकोदरयोः ङीष्- प्रत्ययः विकल्पेन प्राप्तः अस्ति | नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रेण पुनः विकल्पेन नासिकोदरयोः ङीष् इति प्रत्ययस्य विधानं क्रियते | अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषया नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति विधिः अव्यवहितं पूर्वविधिमेव, स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रमेव बाधते, अतः नासिकोदरयोः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इत्यनेन एव विकल्पेन ङीष् -प्रत्ययस्य विधानं क्रियते |


इदानीं नासिकोदरयोः न क्रोडादिबह्वचः (४.१.५६) इत्यनेन ङीष्-प्रत्ययस्य विधानं निषिद्धः अस्ति यतोहि नासिकोदरयोः बहवः अच्वर्णाः सन्ति | न क्रोडादिबह्वचः (४.१.५६) इत्यनेन क्रोडादेः बह्वचः च स्वाङ्गात् ङीष् न भवति | न क्रोडादिबह्वचः (४.१.५६) इति सूत्रस्य अपवादः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं यतोहि न क्रोडादिबह्वचः (४.१.५६) इति सूत्रेण यः निषेधः उक्तः तस्य बाधकः अस्ति नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रम् | अत्र पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन शास्त्रक्रमे पूर्वपठितेन नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (४.१.५६) इति अपवादसूत्रेण यत् वैकल्पिकं ङीष्- विधानं कृतं तत् अनन्तरविधिं बाधते न तु उत्तरान् | अर्थात् न क्रोडादिबह्वचः (४.१.५६) इति अनन्तरविधिः, तस्य ङीष्-निषेधस्य बाधकं भवति प्रकृतभूतम् अपवादसूत्रं यत् पूर्वोक्तं शास्त्रक्रमे | अत्र उत्तरविधिः अस्ति सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रम् | नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (४.१.५६) इति अपवादसूत्रेण सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति उत्तरविधिं न बाध्यते, केवलं न क्रोडादिबह्वचः (४.१.५६) इति अनन्तरविधिं बाधते |



ओष्ठादीनां ( ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग च) पञ्चानां तु असंयोगोपधात् इति पर्युदासे प्राप्ते वचनं, मध्येऽपवादन्यायात् | ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग चेति स्वाङ्गवाचिनः शब्दाः सन्ति | तदन्तप्रातिपादिकात् स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यनेन स्त्रियां विकल्पेन ङीष् अप्राप्तः यतोहि एते संयोगोपधाः सन्ति, अतः पर्युदासात्मकनिषेधः प्राप्तः | अर्थात् ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति संयोगोपधाः शब्दाः, अतः एतेषां ङीष् अप्राप्तः अस्ति स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यनेन | एतेषां पञ्चानां शब्दानां ङीष् विधानम् अस्ति नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (४.१.५६) इति प्रकृतभूतसूत्रेण | अत्र मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः आधारेण प्रकृतसूत्रम् अपवादसूत्रं मध्ये पठितं वर्तते इत्यतः स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति उत्तरसूत्रम् | सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यनेन सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | सहनञ्लक्षणः तु प्रतिषेधः परत्वात् अस्य प्रकृतसूत्रस्य बाधकः अस्ति | अर्थात् प्रकृतसूत्रस्य अपेक्षया अग्रे आगम्यमानं सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रं परशास्त्रम् अस्ति इत्यतः तत् प्रकृतसूत्रस्य बाधकम् अस्ति | सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रं परत्वात् स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यस्यापि बाधकं भवति |


यथा -

१) तुङ्गे ( elevated) नासिके यस्याः सा = तुङ्गनासिकी, तुङ्गनासिका,

२) तिलम् उदरे यस्याः सा = तिलोदरी, तिलोदरा,

३) बिम्बम्( Red colored Bimba fruit ) इव ओष्ठौ यस्याः सा = बिम्बोष्ठी, बिम्बोष्ठा,

४) दीर्घे जङ्घे यस्याः सा = दीर्घजङ्घी, दीर्घजङ्घा,

५) समाः दन्ताः यस्याः सा = समदन्ती, समदन्ता,

६) शोभनौ कर्णौ यस्याः सा = सुकर्णी, सुकर्णा,

७) तीक्ष्णे शृङ्गे यस्याः सा = तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा |

पुच्छाच्चेति वक्तव्यम् |

८) कल्याणपुच्छी, कल्याणपुच्छा |


कबर -मणि -विष -शरेभ्यो नित्यम् |

९) कबरं (चित्रं) पुच्छं यस्याः सा = कबरपुच्छी( a peahen) | १०) मणिपुच्छी ( Having lumps on the tail) ,११) विषपुच्छी ( scorpion) , १२) शरपुच्छी ( tail like a reed, grass) |

उपमानात् पक्षात् च पुच्छात् च |

१३) उलूकपक्षौ इव पक्षौ यस्याः सा = उलूकपक्षी सेना

१४) उलूकस्य पुच्छम् इव पुच्छं यस्याः सा = उलूकपुच्छी (having the shape of the tail of an owl) शाला |


न क्रोडादिबह्वचः (४.१.५६) = क्रोडादेः बह्वचः च स्वाङ्गात् न ङीष् | क्रोडादिगणे पठिताः स्वाङ्गावाचिनः तथा बह्वचः स्वाङ्गवाचिनः प्रातिपदिकेभ्यः स्त्रित्वविवक्षायां ङीष् -प्रत्ययः न भवति | क्रोडा आदिः येषां ते , क्रोडादयः | बह्वोच् यस्य सः बह्वच् | क्रोडादयश्च बह्वच् च तेषां समाहारद्वन्द्वः, क्रोडादिबह्वच्, तस्मात् | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यनेन प्राप्तस्य ङीष् इत्यस्य प्रतिषेधः क्रियते | न अव्ययपदं, क्रोडादिबह्वचः पञ्चम्यन्तं, द्विपदं सूत्रम् | ङ्याप्प्रातिपदिकात् (४.१.१), प्रत्ययः (३.१.१), परश्च (३.१.२), स्त्रियाम् (४.१.३) इत्येतेषाम् अधिकारः | अन्यतो ङीष् (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्वाङ्गात् उपसर्जनात् क्रोडादिबह्वचः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् |

क्रोडा, खुरा, ऊखा, बाला, शफा , गुदा, घोणा, नखा, मुखा, सुभगा, सुगला इति शब्दाः क्रोडादिगणे सन्ति | क्रोडादिगणः आकृतिगणः अस्ति |


यथा -

कल्याणी ( good) क्रोडा ( chest) यस्याः सा = कल्याणक्रोडा |

शोभने जघने ( hip) यस्याः सा = सुजघना |



सहनञ्विद्यमानपूर्वाच्च (४.१.५७) = सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४), नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते | सह, नञ्, तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाची शब्दः उत्तरपदे चेत्, तदन्तात् प्रातिपदिकात् ङीष् इति प्रत्ययः न भवति स्त्रीत्वस्य विवक्षायाम् | अस्मिन् सूत्रे सह इत्यस्य अर्थः विद्यमानः इति | ङीष् इति प्रत्ययस्य अभावे अजाद्यतष्टाप् ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति | सहश्च नञ्च विद्यमानं च तेषाम् इतरेतरयोगद्वन्द्वः सहनञ्विद्यमानानि, तानि पूर्वे यस्य तत् सहनञ्विद्यमानपूर्वं, तस्मात् | सहनञ्विद्यमानपूर्वात् पञ्चम्यन्तं, चाव्ययम् | अजाद्यतष्टाप् (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यस्मात् उपसर्जनात्, स्वाङ्गात् इत्यनयोः अनुवृत्तिः | न क्रोडादिबह्वचः ( ४.१.५६) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— सहनञ्विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् |


यथा -

१) सह केशा यस्याः सा = सकेशा

२) अविद्यमानाः केशाः यस्याः सा = अकेशा

३) विद्यमाना नासिका यस्याः सा) = विद्यमाननासिका

४) सह नासिका यस्याः सा) = सनासिका

५) (अविद्यमाना नासिका यस्याः सा = अनासिका |

अत्र सूत्रक्रमः एवम् अस्ति -

सूत्रक्रमः
स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४)
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) मध्ये अपवादः पठितः
न क्रोडादिबह्वचः ( ४.१.५६)
सहनञ्विद्यमानपूर्वाच्च (४.१.५७)



स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४), नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५),न क्रोडादिबह्वचः ( ४.१.५६), सहनञ्विद्यमानपूर्वाच्च (४.१.५७) चेत्येतेषु नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रम् अपवादसूत्रं मध्ये पठितम् अस्ति |


मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः आधारेण नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति अपवादसूत्रं स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति उत्तरसूत्रम् | मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधते नोत्तरान् | अतः एव सहनासिका ( सह नासिका यस्याः सा ) इति उदाहरणे नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रस्य प्रवृत्तिः चेदपि परत्वात् सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यस्यैव प्रवृत्तिः भवति | अर्थात् सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति परत्वात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं बाधते यतोहि नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रस्य अपवादः नास्ति |

नासिका इति शब्दः उपसर्जनसंज्ञकः, स्वाङ्गवाची तथा च असंयोगोपधः | अतः तदन्तात् सहनासिका इत्यस्मात् स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यनेन विकल्पेन ङीष् इति प्रत्ययः प्राप्तः अस्ति | परन्तु सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यनेन सूत्रेण ङीष् इति प्रत्ययस्य निषेधः कृतम् अस्ति | नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति प्रकृतसूत्रम् अस्य निषेधस्य बाधकं न भवितुम् अर्हति यतोहि मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रम् उत्तरविधेः बाधकं न भवितुम् अर्हति |


नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं न क्रोडादिबह्वचः ( ४.१.५६) इति सूत्रस्य बाधकं भवितुम अर्हति यथा पूर्वचर्चितं पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन | परन्तु सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यस्य बाधकं न भवति | अतः पाक्षिकः ङीष् इति प्रत्ययः न भवितुम् अर्हति, अदन्तलक्षणात् टाप् इति प्रत्ययः एव भवति | सहनासिका इति प्रातिपदिकात् टाप् इति प्रत्ययं योजयित्वा सहनासिका इति रूपं लभ्यते | एवमेव अविद्यमाना नासिका यस्याः सा इति विग्रहे सति अनासिका इति समासः लभ्यते |



मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः स्वीकारेण ओष्ठादिषु पञ्चसु शब्देषु स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रेण प्राप्तनिषेधः हि नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रेण बाध्यते | ओष्ठादीनां पञ्चानां तु असंयोगोपधाद् इति पर्युदासे प्राप्ते नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति वचनम् उक्तं, मध्येऽपवादन्यायात् |


ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रस्थानि पदानि स्वाङ्गानि सन्ति | तदन्तात् प्रातिपादिकात् स्त्रियाम् इत्यस्मिन् अधिकारे ङीष् प्राप्तः परन्तु स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रे असंयोगापधात् इति पर्युदासात्मकस्य निषेधस्य कारेण ङीष् इति प्रत्ययस्य प्राप्तिः न भवति यतोहि पूर्वोक्ताः ओष्ठादयः शब्दाः संयोगपधाः सन्ति | एतेषां पञ्चानां शब्दानां विषये स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रे उक्तस्य निषेधस्य बाधा अस्ति नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रेण | अत्र मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः प्रवृत्तिः अस्ति |


सहनञ्लक्षणस्तु प्रतिषेधः परत्वात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इत्यस्य बाधकः | सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रं नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इत्यस्य अपेक्षया परसूत्रमस्ति | द्वयोः सूत्रयोः अन्यत्रालब्धावकाशः अस्ति इति कृत्वा सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रं बलवद्भवति | सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रे यः निषेधः अस्ति, तस्य नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रेण न बाध्यते | अपि तु सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रमेव परत्वात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं बाध्यते येन सहनासिका इति रूपं लभ्यते |


मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः अपेक्षया अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषा प्रबला अस्ति | अस्य प्रमाणमस्ति अष्टाभ्यः औश् ( ७.१.२९) इति सूत्रभाष्ये स्पष्टम् उक्तम् | यत्र अनयोः परिभाषायाः प्रयोगः अस्ति तत्र अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषायाः प्राबाल्यम् अस्ति | किमर्थं चेत् मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः प्रयोगे पूर्वसूत्रम् उत्तरसूत्रं च व्यवहितं भवितुम् अर्हति | समीपवर्तिनः भवेत् इति नियमः नास्ति इत्यतः पूर्वसूत्रम् उत्तरसूत्रं च भिन्ने अध्याये भवितुम् अर्हति | अतः इयं परिभाषा महायत्नेन साध्या अस्ति | अस्याः परिभाषायाः अपेक्षया अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषायां समीपवर्तिनः उपस्थितिः स्मृतौ झटिति भवति इत्यतः अस्याः प्राबाल्यं वर्तते |