07 - इकारान्तानाम् उकारान्तानां च अङ्गानांम् अजाद्यपित्सु समग्रं चिन्तनम्
इति + अस्ति → इत्यस्ति; लघु + अतः → लघ्वतः इति व्यवस्था | संस्कृतभाषायां यत्र कश्चन इक्-वर्णः अस्ति, परश्च कोऽपि अच्-वर्णः, तत्र अव्यवहित-स्थित्याम् इक्-स्थाने यण्-आदेशः भवति इति अस्माकं सामान्यनियमः | इको यणचि इति सूत्रम्; "इकः स्थाने यण् स्यादचि संहितायां विषये" इति प्रसिद्धा वृत्तिः | यण्-सन्धिः इति वदामः |
अतः इकारः प्राक्, परश्च कोऽपि स्वरः, संहितायां विषये इ-स्थाने यकारः | उकारः प्राक्, परश्च कोऽपि स्वरः, संहितायां विषये उ-स्थाने वकारः इति सामान्यम् | परन्तु धातु-विषये वार्ता भिन्ना भवति | तिङन्तपदस्य निर्माणावस्थायां सामान्यं भिन्नमिति | तत्र इको यणचि (६.१.७६) इति सूत्रं प्रबाध्य अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रेण इयङ् उवङ् च सामान्यं भवति | अनेन सूत्रेण अजादिषु प्रत्ययेषु इकारान्तधातुरूपि-अङ्गस्य इकारस्य स्थाने इयङ्-आदेशः, उकारान्तधातुरूपि-अङ्गस्य च उकारस्य स्थाने उवङ्-आदेशः भवति | अयं सामान्यनियमः—परन्तु अपवादाः सन्ति, अपि च इकारान्तानां च उकारान्तानां च सूत्राणाम् आकृतिः भिन्ना, अतः कदाचित् भ्रमात्मकः विषयः | तर्हि अत्र तस्य समग्रं चिन्तनं कुर्मः, येन विषयः पूर्णतया स्पष्टः स्यात् |
सूत्राणि
इ/ई प्रसङ्गे—
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि |
इणो यण् (६.४.८१) = इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण् प्रथमान्तं, द्विपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इणः अङ्गस्य यण् अचि |
एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) = असंयोगपूर्व-अनेकाच्-इकारान्ताङ्गस्य यण्-आदेशो भवति अचि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम् इकाररूप्यङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अल्-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्, अनेकम्, अनेके एकाचः यस्मिन् सः अनेकाच् नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्, अनेकाचः षष्ठ्यन्तम्, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | इणो यण् (६.४.८१) इत्यस्मात् यण् इत्यस्य अनुवृत्तिः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि, धातोः (विपरिणामेन षष्ठ्यन्तम्) इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि |
उ/ऊ प्रसङ्गे—
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि |
इको यणचि (६.१.७७) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे अकः सवर्णे दीर्घः (६.१.१०१) इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इकः यण् अचि संहितायाम् |
हुश्नुवोः सार्वधातुके (६.४.८७) = हु-धातुः च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्-आदेशः भवति अजादि-सार्वधातुकप्रत्यये परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; इणो यण् (६.४.८१) इत्यस्मात् यण् इत्यस्य अनुवृत्तिः; एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यस्मात् अनेकाचः, असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः; ओः सुपि (६.४.८३) इत्यस्मात् ओः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्वधातुके |
सामान्यम्
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)
अपवादः
इणो यण् (६.४.८१)
एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२)
एकाच् सामान्यशास्त्रम्
इकारान्तधातुषु ईकारान्तधातुषु च सर्वप्रथमं भागद्वयं करणीयम् अङ्गम् एकाच् अनेकाच् वा इति | अच् इति स्वरः, एक एव स्वरः यस्मिन् इति एकाच्, अनेके अचः यस्मिन् इति अनेकाच् | इकारान्तेषु एकाच्-धातुषु इयङ्-आदेशो भवति अजाद्यपिति प्रसङ्गे; अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रम् |
अदादिगणे वी + अन्ति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → व् + इय् + अन्ति → वियन्ति
एकाच् विशेषशास्त्रम्
केवलम् एक एव अपवादः—इण् गतौ | अजाद्यपिति प्रसङ्गे इण्-धातोः यण्-आदेशो भवति, इणो यण् (६.४.८१) इति सूत्रेण |
अदादिगणे इण्-गतौ → इ + अन्ति → इणो यण् (६.४.८१) इत्यनेन यण् → यन्ति
अनेकाच् सामान्यशास्त्रम्
इकारान्तधातोः अङ्गम् अनेकाच् अस्ति चेत्, सः इकारः संयोगपूर्वो वा असंयोगपूर्वो वा इति द्रष्टव्यम् | इकारः संयोगपूर्वः चेत्, अजाद्यपिति प्रसङ्गे इयङ्-आदेशो भवति | अयं सामान्यनियमः, सूत्रम् अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) | उदाहरणार्थं जुहोत्यादिगणे जिह्री, यङ्-लुकि पेप्री, शेश्रि, चेक्री च |
जुहोत्यादिगणे ह्री-धातुः → जिह्री + अति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → जिह्र् + इय् + अति → जिह्रियति
अनेकाच् विशेषशास्त्रम्
असंयोगपूर्वः इकारान्तधातुः चेत्, एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इति सूत्रेण यण् विधीयते | उदाहरणानि यथा जुहोत्यादिगणे बिभी, चिकि; यङ्-लुकि यथा नेनी इत्यादीनि अङ्गानि |
जुहोत्यादिगणे कि → चिकि + अति → एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यनेन असंयोगपूर्वे यण् → चिक् + य् + अति → चिक्यति
वस्तुतः धातोः इकारः असंयोगपूर्वः चेदपि अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्य प्रसक्तिः अस्ति | किन्तु तत्र एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इति तत् सूत्रं प्रबाध्य यण् विदधाति |
बाध्यबाधकभावः
अजादिषु कित्-ङित्-प्रत्ययेषु परेषु इवर्णान्तधातुरूपि-अङ्गे, आरम्भतः कथं कार्यं सिध्यति इति चेत् बाध्यबाधकभावः द्रष्टव्यः | यथा—
तुदादिगणे रि + अ → इको यणचि (६.१.७७) इत्यनेन यण् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः → सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) इत्याभ्यां गुणनिषेधः → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → र् + इय् + अ + ति → रियति
अदादिगणे इण्-गतौ इ + अन्ति → इको यणचि (६.१.७७) इत्यनेन यण् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः → सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) इत्याभ्यां गुणनिषेधः → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → इणो यण् (६.४.८१) इत्यनेन यण् → यन्ति
जुहोत्यादिगणे भी-धातुः बिभी + अति → इको यणचि (६.१.७७) इत्यनेन यण् → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः → सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) इत्याभ्यां गुणनिषेधः → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यनेन यण् → बिभ् + य् + अति → बिभ्यति
सामान्यम्
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)
अपवादः
हुश्नुवोः सार्वधातुके (६.४.८७)
सर्वसामान्यम्
इको यणचि (६.१.७७)
सामान्यशास्त्रम्
इकारान्तेभ्यः ईकारान्तेभ्यः च उकारान्तधातुषु ऊकारान्तधातुषु च क्रमः भिन्नः; अत्र सामान्यशास्त्रे एकाच्-अनेकाच् इत्यनुसृत्य विभजनं नास्ति | किन्तु आम्, इवर्णान्तेषु इयङ् इव, उकारान्तधातोः साक्षात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः भवति चेत्, उवङः प्रसङ्गः आयाति | सामान्यशास्त्रम् अस्ति अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) | यथा अदादिगणे विकरणप्रत्ययस्य लुक् भवति अतः धातोः साक्षात् तिङ्प्रत्ययेन सह सम्पर्कः | तिङ्प्रत्ययः अजाद्यपित् चेत्, उवङ्-आदेशः—
यु + अन्ति → य् + उव् + अन्ति → युवन्ति
पुनः अपरेषु गणेषु विकरणप्रत्ययः स्वयम् अजाद्यपित् चेत्, प्रसङ्गः आयाति—यथा तुदादिगणे विकरणप्रत्ययः श; अनुबन्धलोपे "अ" इति अजाद्यपित् अस्ति |
गु + श → गु + अ → ग् + उव् + अ → गुव → गुव + ति → गुवति
तुदादिगणे अन्ये उकारान्तधातवः तथैव—
ध्रु + अ → ध्रुव
कु + अ → कुव
नू + अ → नुव
धू + अ → धुव
सू + अ → सुव
तर्हि धातुः उकारान्तः चेत्, अजाद्यपित्-प्रत्ययेन सह सम्पर्कः चेत्, अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सामान्यशास्त्रम् |
पुनः अन्यप्रसङ्गः अस्ति यत्र सामान्यं प्रवर्तते—संयोगपूर्वं श्नुप्रत्ययान्ताङ्गम् | तत्रापि अजादौ किति ङिति प्रत्यये परे उवङ्-आदेशो विहितः |
शक् + श्नु → शक्नु → शक्नु + अन्ति → शक्न् + उव् + अन्ति → शक्नुवन्ति
स्वादिगणे सर्वे हलन्तधातवः अपि तथा यतोहि धातु-श्नु इत्यनयोः मेलनेन संयोगः निष्पद्यते एव—
आप् + श्नु → आप्नु → आप्नु + अन्ति → आप् + उव् + अन्ति → आप्नुवन्ति
सघ् → सघ्नु → सघ्नुवन्ति
चम् → चम्नु → चम्नुवन्ति
अश् → अश्नुवन्ति
तृप् → तृप्नुवन्ति*
*तृप्-धातुः क्षुभ्नादिगणे अस्ति |
क्षुभ्नादिषु च (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रषाभ्यां नो णः समानपदे (८.४.१) इत्यस्मात् नः, णः इत्यनयोः अनुवृत्तिः | न भाभूपूकमिगमिप्यायीवेपाम् (८.४.३४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— क्षुभ्नादिषु च नः णः न संहितायाम् |
धेयं यत् अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रेण एकमेव विकरणप्रत्ययान्तम् अङ्गं यस्य उवङ् भवति— सुवादिगणे श्नुप्रत्ययान्तम् अङ्गम् | तदतिरिच्य सर्वे धातवः एव, इकारान्ताः उकारान्ताः च |
विशेषशास्त्रम्
अपवादभूतसूत्रम् एकमेव— हुश्नुवोः सार्वधातुके (६.४.८७) | अनेन उवङ्-स्थाने यण्-आदेशः |
१) हु-धातुः उकारान्तः अपि च जुहोत्यादिगणे सन् साक्षात् तस्य अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः भवति, किन्तु अपवादभूतः अयं धातुः | अयं धातुः साक्षात् उक्तः सूत्रे— हुश्नुवोः सार्वधातुके (६.४.८७) इत्यनेन यण् | जुहु + अति → जुह् + व् + अति → जुह्वति |
२) असंयोगपूर्वं श्नुप्रत्ययान्ताङ्गम् अस्ति चेत्, उवङ् प्रबाध्य हुश्नुवोः सार्वधातुके (६.४.८७) इति सूत्रेण यण् | स्वादिगणे यावन्तः अजन्तधातवः सन्ति, ते सर्वे अस्यां श्रेण्याम् अन्तर्भूताः |
चि + श्नु → चिनु → चिनु + अन्ति → चिन् + व् + अन्ति → चिन्वन्ति
रि + श्नु → रिणु → रिणु + अन्ति → रिण्वन्ति
सु + श्नु → सुनु → सुन्वन्ति
पृ + श्नु → पृणु → पृण्वन्ति
सर्वसामान्यशास्त्रम्
इको यणचि (६.१.७७)
अस्माभिः दृष्टं यत् यत्र कुत्रापि इकारान्तधातुरूपि-अङ्गात्, उकारान्तधातुरूपि-अङ्गात्, अथवा उकारान्ताविकरणप्रत्ययान्तात् अङ्गात् अजादि-कित्-ङित्-प्रत्ययः भवति, तत्र सदा इको यणचि (६.१.७७) आगत्य यण् विदधाति | किन्तु एतावता सर्वत्र इको यणचि इति सूत्रस्य कार्यं बाध्यते | सार्वधातुकलकारेषु एकस्मिन् एव स्थले एतादृश्यां स्थित्यां इको यणचि इत्यनेन यणः प्राप्तिः | तनादिगणे उ इति विकरणप्रत्ययः | अनेन प्रत्ययसहितम् उकारान्तम अङ्गं निष्पद्यते किन्तु श्नुप्रत्ययान्तम् अङ्गम नास्ति इति कारणतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्य प्रसक्तिः नास्त्येव | अतः तनादिगणे सर्वसामान्यशास्त्रेण यण्—
तन् + उ → तनु → तनु + अन्ति → तन् + व् + अन्ति → तन्वन्ति
क्षण् + उ → क्षणु → क्षण्वन्ति
सन् + उ → सनु → सन्वन्ति
मन् + उ → मनु → मन्वन्ति
वन् + उ → वनु → वन्वन्ति
सर्वसामान्यनियमः तु इको यणचि (६.१.७७) अस्ति इति स्मर्यताम् | इदं सूत्रं प्रबाध्य एव अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) कार्यं करोति | उवङ् विधीयते उकारान्तधातुः अस्ति चेत् अथवा श्नुप्रत्ययान्तम् अङ्गम् अस्ति चेत् | तन्-धातुः न उकारान्तधातुः, न वा तस्य अङ्गं श्नुप्रत्ययान्तम् | इको यणचि इत्यस्य प्रसक्तिः अस्ति यथा सर्वत्र अजादि-प्रत्यये परे; अत्र अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति सूत्रं न बाधते; अतः इको यणचि इत्यनेन एव यण्-आदेशो विहितः |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति ?
तुदादिगणे—
रि + अ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → र् + इय् + अ + ति → रियति
गु + श → गु + अ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ् → ग् + उव् + अ → गुव + ति → गुवति
अदादिगणे—
इङ् अध्ययने अधि + इ + अते → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → अधि + इय् + अते → अधीयते
यु + अन्ति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ् → य् + उव् + अन्ति → युवन्ति
स्वादिगणे—
शक् + श्नु → शक्नु → शक्नु + अन्ति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ् → शक्न् + उव् + अन्ति → शक्नुवन्ति
जुहोत्यादिगणे—
ह्री-धातुः → जिह्री + अति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → जिह्र् + इय् + अति → जिह्रियति
एकः अन्तिमप्रश्नः उदेति— केचन उकारन्तधातवः सन्ति येषाम् उवङ्-आदेशो न दृश्यते एव सार्वधातुकलकारेषु | तत् किमर्थम् ? यथा भू-धातुः भ्वादिगणे, तस्य उवङ् प्रसङ्गः नैव आयाति सार्वधातुकलकारेषु | एतावता कारणं प्रायः जानन्ति—अत्र विकरणप्रत्ययः शप् पित् अस्ति; सार्वधातुकलकारेषु शप् सर्वदा आयाति, अतः धातोः साक्षात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः न कदापि भवति |
भू + शप् → भू + अ → भो + अ → भ् + अव् + अ → भव + अन्ति → भवन्ति |
अत्र भू, अन्ति इत्यनयोः साक्षात् सम्पर्कः नास्ति अतः उवङ्-आदेशस्य अवसरः न प्राप्यते | एवमेव भ्वादिगणे २६ अन्ये इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः च धातवः सन्ति | भू-धातुरिव तेषाम् इगन्तस्य गुणः भवति, यस्मात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः न कदापि भवति |
परन्तु आर्धधातुकलकारेषु च आर्धधातुककृत्-प्रत्ययेषु च एषाम् इयङ् उवङ् इत्यनयोः अवसरः अर्हः | अग्रे गत्वा यदा आर्धधातुकप्रकरणं कृत्-प्रकरणं च कुर्मः, तदा द्रक्ष्यामः |
इति इकारान्तानाम् उकारान्तानां च धातूनाम् अङ्गानां च अजाद्यपित्सु समग्रं चिन्तनम् समाप्तम् |
७ - इकारान्तानाम् उकारान्तानां च अङ्गानाम् अजाद्यपित्सु समग्रं चिन्तनम्.pdf (66k) Swarup Bhai, Mar 31, 2019, 6:02 AM v.1
Swarup – August 2013 (updated May 2016)