11 - भाषावर्ग-ध्वनिमुद्रणानि
11 - भाषावर्ग-ध्वनिमुद्रणानि
ये जनाः संस्कृतभारत्याः भाषावर्ग-पुस्तकानि पठितुम् इच्छन्ति, तेभ्यः अस्मिन् अध्याये त्रयाणां वर्गाणां ध्वनिमुद्रणानि स्थापितानि | अत्र अमेरिकादेशस्य मेरिलैण्ड-प्रदेशे अस्माकं भाषावर्गत्रयं प्रतिसप्ताहं प्रवर्तते | SSVT-संस्कृतम् इति प्रगततमो वर्गः; UMD-संस्कृतं माध्यमिकस्तरीयवर्गः; संस्कृतं-2103 प्रारम्भिकस्तरीयवर्गश्च | त्रयोऽपि वर्गाः अभिमुखत्वेन पाठ्यन्ते | एषां ध्वनिमुद्रणानि प्रतिसप्ताहं निर्मीयन्ते | यावन्ति ध्वनिमुद्रणानि सृष्टानि, तानि सर्वाणि अस्मिन् भागे स्थापितानि येन अपरे जनाः अपि श्रोतुं शक्नुयुः | येषां नगरे भाषावर्गः नास्त्येव, अथवा ये किञ्चित् इतोऽपि श्रवणाभ्यासम् इच्छन्ति, तेषां सर्वेषां स्वागतम् | पुस्तके ये पाठाः सन्ति, ते क्रमेण अस्माभिः क्रियन्ते | अपि च मध्ये-मध्ये अन्ये विषयाः अपि आयान्ति; filename इतियस्य पठनेन कः विषयः चर्चितः कस्मिंश्चित् वर्गे इति प्रायेण अवगम्येत | तर्हि अग्रे अग्रे सरन्तु, संस्कृतस्य आनन्दम् आस्वादयन्तु !
01 - SSVT संस्कृतम् |
02 - UMD संस्कृतम् |
03 - संस्कृतम् 2013 |
04 - भाषापाकः 2011-2013 |
05 - भाषावर्गः - लक्ष्मी शर्मा भगिनी |
06 - भाषावर्गः -2019 |
------------------------