01 - समासपरिचयः

From Samskrita Vyakaranam
14---samAsaH/01---samAsaparicayaH
Jump to navigation Jump to search
२०२० ध्वनिमुद्राणि -
१) samAsaparichayaH_2020-03-20
२) samAsah+abhyAsah+samartha padavidhiHi_2020-03-28
३) samAsah- adhikArasutrANi+vrittiH+ vibhAShA _ 2020-04-04
४) samAsah- upsarjana-sangya +pUrvanipAtaH_ 2020-04-11
५) samAsah- Ekavibhakti chApUrvanipAtE _ 2020-04-18
६) samAsaH-upsarjana saNgyA -abhyAsaH+ samartavyAH amshAH_2020-04-25
७) samAsaH-prabhEdAH+prAdhAnyam_ 2020-05-02
८) samAsaH-prakriyA cintanam _2020-05-09
९) samAsaH-prakriyA cintanam+sUtrANi_ 2020-05-16
१०) samAsaH-prakriyA- rAjapuruShAH+ bhavaccAkShuH_ 2020-05-23
११) samAsaH-prakriyA-abhyAsaH_ 2020-05-30



समासज्ञानं विना समस्त-संस्कॄत-वाङ्ग्मय-ज्ञानं भवितुम् एव न अर्हति संस्कृतभाषायां समासस्य प्रयोगः शास्त्रेषु, काव्येषु, वाक्येषु सर्वत्र दृश्यते | संस्कृतभाषायाः सम्यगवगमनार्थं समासस्य अध्ययनम् अत्यावश्यकम् |

 

1) समासः नाम कः?

अनेकस्य पदस्य एकपदीभवनं समासः इत्युच्यते | द्वयोः अथवा बहूनां पदानां मेलनेन यदा एकं पदं निष्पन्नं भवति तदा समासः इत्युच्यते | अर्थात् द्वयोः अथवा बहूनां पदनां मेलनेन एकार्थीभावः उत्पद्यते चेत् समासः इति कथ्यते | एकार्थीभाव-रूप सामर्थ्यम् अस्ति चेत् एव समासः भवति | यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभाव-रूप-सामर्थ्यम् अस्ति इति वदामः | एकार्थी-भाव-सामार्थ्यस्य अभावे समासः न भवति, केवलं संहिता एव |

यथा– सीतायाः पतिः

सीतायाः इति षष्ठ्यन्तं पदम् अस्ति, पतिः इति प्रथमान्तं पदम् अस्ति | एतयोः पदयोः मेलनेन सीतापतिः इति समासः भवति | सीता इति पदस्य कश्चित् अर्थः अस्ति, पतिः इति पदस्य अपि कश्चित् अर्थः अस्ति | अधुना यदा अनयोः पदयोः योजनेन समासः क्रियते तदा नूतनार्थः निष्पद्यते | सीतापतिः नाम कश्चन पुरुषः यः सीतायाः पतिः अस्ति | एतदेव एकार्थीभावसामर्थ्यम् इति उच्यते | समासे क्रियमाणे पदद्वयम् एकपदी भूत्वा विशिष्टम् अर्थं बोधयति, तदेव एकार्थी-भाव-रूप सामर्थ्यम् इति कथ्यते | ऐकपद्यमैकस्वर्यं च समासस्य लक्षणं भवति |


समासः इति पदस्य विग्रहवाक्यम् अस्ति समसनम् इति समासः |  सम् +असुँ क्षेपने इति धातुतः घञ् इति प्रत्ययं योजयित्वा समासः इति पदं निष्पन्नं भवति | सम् +असुँ क्षेपणे इति धातुतः ल्युट् इति प्रत्ययं योजयित्वा समसनम् इति पदं निष्पन्नं भवति |


सुबन्तानाम् एव समासः भवति | वेदेषु तिङन्तानाम् अपि समासः भवति | परन्तु लोके सामान्यतया सुबन्तानामेव समासः भवति | समासः युगपत् द्वयोः द्वयोः सुबन्तयोः एव भवति | द्वन्द्वसमासे, बहुव्रीहिसमासे च युग्पत् बहूनां पदानाम् अपि समासः भवति | परस्परान्वितयोः सुबन्तयोः एव समासः भवति | समासे पूर्वत्र श्रूयमाणं पदं पूर्वपदमिति, उत्तरत्र श्रूयमाणं पदम् उत्तरपदमिति च व्यवह्रियते | समासे जाते पूर्वपदम् उत्तरपदं च प्रातिपदिकरूपेण स्थितं भवति | ततः समस्तात् पदात् विभक्तिः योजनीया | समासप्रक्रिया अग्रे प्रदर्श्यते |

 

समासे सर्वदा अर्थस्य प्राधान्यम् अस्ति | समासस्य अर्थं बोधयितुं विग्रहवाक्यम् उच्यते | समासस्य अर्थंम् अवलम्ब्य एव विग्रहवाक्यं वक्तव्यम् | अर्थस्य ज्ञानं विना समासं वक्तुं न शक्यते | सर्वदा प्रसङ्गम् अवलम्ब्य विग्रहः वक्तव्यः | तर्हि समासाध्ययने अस्माकं प्रथमं कार्यम् असित् समासस्य अर्थावगमनम् | अर्थं ज्ञात्वा समाससूत्राणां साहाय्येन सुलभतया विग्रहवाक्यं कथं भवति, समासः कः इति ज्ञातुं शक्नुमः |

 

2) विग्रहवाक्यं नाम किम्?

वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति उच्यते | समासे अर्थं बोधयितुं यद् वाक्यं उच्यते तद् वाक्यं विग्रहः इति व्यवह्रियते | विग्रहः द्विविधा भवति - लौकिकविग्रहः, अलौकिकविग्रहः चेति | येन वाक्येन समस्तपदस्य अर्थः अवगम्यते तद्वाक्यं लौकिकविग्रहवाक्यम् इति उच्यते | यथा – सीतापतिः इति समासे, सीतायाः पतिः इति लौकिक-विग्रहवाक्यम् अस्ति | लोके प्रयोक्तुम् अर्हाणां पदानाम् अभावे अलौकिक-विग्रहवाक्यम् इति कथयामः | सीता +ङस् + पति+सु इति अलौकिक-विग्रहवाक्यम् | यत्र प्रकृति-प्रत्ययविभागः क्रियते तत्र अलौकिक-विग्रहः अथवा शास्त्रीयविग्रहः इति कथ्यते | अलौकिक-विग्रहवाक्यं समासप्रक्रियायां प्रयुज्यते न तु लोके | लोके अलौकिक-विग्रहवाक्यस्य अर्थबोधः न जायते | व्याकरणे एव अलौकिक-विग्रहवाक्यस्य प्रयोगः क्रियते | अलौकिकविग्रहवाक्ये प्रकृति-प्रत्यय-विभागः क्रियते समस्तपदस्य रूपसाधनार्थम् |

 

विग्रहः स्वपदविग्रहः अस्वपदविग्रहः इति द्वेधा विभज्यते | स्वपदविग्रहः नाम समासस्य अर्थः समासघटकैः पदैः वर्ण्यते तदा स्वपदविग्रहः इति उच्यते | समासघटकपदसहितं वाक्यं स्वपदविग्रहः इत्यर्थः | यथा - ग्रामगतः इति समासः | ग्रामं गतः इति स्वपदविग्रहः | अस्वपदविग्रहः नाम समासस्यअर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समासघटकपदरहितं वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा उपकृष्णम् इति अव्ययीभावसमासः | कृष्णस्य समीपम् इति अस्वपदविग्रहः | अत्र समीपम् इति पदं समासघटकं पदं नास्ति | एतादृशविग्रहः अस्वपदविग्रहः इति उच्यते |

 

एतेषु समास: अस्ति वा सन्धिः अस्ति वा इति वक्तव्यम् -१) मनोरथः, २) सूर्यदर्शनम्, ३) पुस्तकं, ४) नदीप्रवाहः, ५) शुद्धता, ६) गमनम्, ७) गङ्गायमुने, ८) देवकीनन्दः, ९) जलेऽस्मिन् , १०) ममाशा,  ११) कार्यालयं, १२) लोकनाथः, १३) बहुफलः , १४) दर्शनं,  १५) बन्धुर्गच्छति, १६ ) पुनस्स्मरणं, १७) देशसेवा, १८) साधुर्श्रूयते, १९) प्रतिनिधिरस्ति, २०) रामश्जयति |

 

3) अष्टाध्याय्यां समासप्रकरणम्

समासप्रकरणस्य पाठनार्थं यानि यन्त्राणि आवश्यकानि तानि आदौ एव मातारः वदन्ति येन अस्माकं मनसि एका समग्रहदृष्टिः निर्मिता भवति | मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिध्यति | मातुः पाठ्यक्रमे सम्पूर्णसमासप्रकरणस्य एकं मानचित्रं निर्मितं भवति येन  ज्ञानं दृढं भवति | एतादृशः समग्रं समाससम्बद्धसूत्राणि अष्टाध्याय्यां यत्र कुत्रापि भवन्तु, तेषां विवरणम् अग्रे दीयते येन यत् किञ्चित् समस्तपदं भवतु तस्य प्रक्रिया सिद्ध्यति | मातुः पद्धत्यनुसारं सम्प्रति अष्टाध्याय्यां समाससम्बद्धसूत्राणां विवरणं दीयते |

 

a) समाससम्बद्धसूत्राणि

  • समास-सम्बद्धसूत्राणि (२.१.१. – २.२.३८) – अष्टाध्याय्यां द्वितीयाध्याये समास-विधायक-सूत्राणि सन्ति |
  • समास-वचननिर्णय-सम्बद्धसूत्राणि (२.४.१ – २.४.१६) – अत्र समासस्य वचनस्य निर्णयः क्रियते | द्वितीयाध्यायस्य तृतीयपादे कारक-सम्बद्धसूत्राणि सन्ति | एतस्मिन् विषये  कारकप्रकरणे पठिष्यामः |
  • समास-लिङ्गनिर्णय-सम्बद्धसूत्राणि (२.४.१७ – २.४.३४) – अत्र समासस्य लिङ्गस्य निर्णयः क्रियते |
  • उत्तरपद-अधिकारः ( ६.३.1 - ६.३.१०८) - अयम् उत्तरपदाधिकारः अस्ति | अत्र  ६.३.१ इत्यस्मात् सूत्रात् आरभ्य  ६.३.२४ इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति | उत्तरपदे इति अधिकारे सुब् -अलुक् इति एकं कार्यम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे कुत्र पूर्वपदस्य सुब्लुक् न भवति, कुत्र  पूर्वपदे अन्यत् किमपि कार्यं भवति इति उच्यते | समासे कानिचन पदानि उत्तरपदे सन्ति चेत्  कुत्रचित् पूर्वपदस्य विभक्तेः अलुक् भवति, कुत्रचित् पूर्वपदस्य परिवर्तनं भवति | एते विषयाः अस्मिन् अधिकारे उच्यन्ते | यत्र पूर्वपदस्य विभक्तेः अलुक् भवति तद् अलुक्- प्रकरणम् इति नाम्ना ज्ञायते | अस्मिन् अधिकारे यानि सूत्राणि सन्ति तेषां ज्ञानम् आवश्यकं समासस्य अध्ययनार्थम्|वयं केषाञ्चन सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले |


यथा युधिष्ठिरः इति समस्तपदे पूर्वपदस्य विभक्तेः अलुक् अभवत् | अस्मिन् अधिकारे  उत्तरपदे परे पूर्वपदस्य किं परिवर्तनं भवति इति उच्यते | किञ्चित् उत्तरपदम् अस्ति चेत् पूर्वपदे कानिचन कार्याणि भवितुम् अर्हन्ति यथा अलुक्, ह्रस्वत्वं, दीर्घत्वम् इत्यादीनि कार्याणि अस्मिन् अधिकारे पठ्यन्ते |


  • समासान्ताधिकारः (५.४.६८ – ५.४.१६०) –  अस्मिन् अधिकारे समासान्तप्रत्ययाः विधीयन्ते | समासान्तप्रत्ययाः  तद्धिताधिकारे सन्ति इत्यतः एव समासान्तप्रत्यया: अपि तद्धितप्रत्ययाः इत्येव परिगण्यन्ते | एते समासान्तप्रत्ययाः तद्धितसंज्ञकाः, समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति | अतः एव समासान्तप्रत्ययः इति नाम्ना ज्ञायते | वयं केषाञ्चन सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले |


समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति | यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति | अर्थात् तद्धितान्तपदस्य निर्माणार्थं या प्रक्रिया आश्रयणीया भवति, समासप्रक्रियायाम् अपि समासान्तप्रत्ययं योजयित्वा सा एव प्रक्रिया आश्रयणीया भवति | अनेन कारणेन एव पाणिनिना एतानि सूत्राणि तद्धिताधिकारे स्थाप्यन्ते | समासान्तप्रत्ययाः समासस्य अन्ते तिष्ठन्ति इत्यतः एव एते समासस्य अवयवाः इति स्वीक्रियन्ते |

b) सामर्थ्यम्

ययोः कयोः अपि पदयोः समासः भवति किम्?

पदयोः मध्ये सामर्थ्यम् अस्ति चेदेव समासः विधीयते | समर्थानां पदानाम् एव समासः भवति इति नियमः | अत्र परिभाषासूत्रम् अस्ति समर्थः पदविधिः (२.१.१) इति |

 

समर्थः पदविधिः (..)


पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् |समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | विधिः नाम कार्यम् इत्यर्थः | एतत् सूत्रं परिभाषासूत्रम् अस्ति | एतस्य सूत्रस्य विषये अयं नियमः अस्ति यत् सम्पूर्णाष्टाध्यायां  यत्र पदसम्बन्धी विधिः भवति तत्र  सर्वत्र समर्थपदानाम् आश्रये एव कार्यं भवति, असमर्थपदानाम् आश्रये कार्यं न भवति | यद्यपि एतत् सूत्रं परिभाषासूत्रम् अस्ति तथापि अधिकारसूत्रम् इव एतस्य प्रसक्तिः सर्वत्र भवति यत्र पदसम्बन्धी कार्यम् अस्ति | पद-सम्बन्द्ध-कार्यं समर्थपदानाम् आश्रये एव भवति न तु असमर्थपदानाम् | समर्थः प्रथमान्तं, पदविधिः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य विधिः, पदविधिः, षष्ठीतत्पुरुषः | सूत्रं स्वयं सम्पूर्णम् |

 

 समर्थः पदविधिः (..) इति सूत्रे समर्थः अथवा सामर्थ्यम् इत्यस्य कोर्थः?

पदार्थानां परस्परं सबन्धः एव सामर्थ्यम् इति उच्यते | यत्र द्वयोः पदयोः मध्ये कश्चन सम्बन्धः विद्यते तत्र एव तयोः मध्ये सामर्थ्यम् अस्ति इति उच्यते | समर्थयोः पदयोः एव समासः भवति | तन्नाम परस्परान्वययुक्तयोः पदयोः एव समासः भवति | यथा ‘सीतायाः पतिः’ इति उदाहरणे, सीता, पतिः च, अनयोः पदयोः मध्ये परस्परान्वयः अस्ति, सम्बन्धः अस्ति, तस्मात् ‘सीतापतिः’ इति समस्तं पदं सिद्धं भवति | वाक्ये यदि अनयोः पदयोः सम्बन्धः नास्ति तर्हि सीतापतिः इति समासः न भवति एव |

 

यदि सुवर्णस्य इति वदामः  तर्हि आकाङ्क्षा भवति सुवर्णस्य किम् इति | तर्हि तस्य उत्तरं भवति कङ्कणम् इति | सुवर्णस्य किम् इत्यस्य आकाङ्क्षा पूरिता भवति कङ्कणम् इति वदनेन | सुवर्णं, कङ्कणम्, अनयोः पदयोः मध्ये परस्परम् आकाङ्क्षा वर्तते अतः तयोः मध्ये सामर्थ्यम् अस्ति | अतः एव अनयोः पदसम्बन्धी कार्यं भवति | सुवर्णकङ्कणम् इति कर्मधारयसमासः |

 

परस्परान्वयरहितयोः पदयोः समासः न भवति | यथा - इदं पुस्तकं सीतायाः, पतिः गीतायाः गच्छति |अस्मिन् वाक्ये सीता अपि च पतिः, तयोः पदयोः मध्ये परस्परान्वयः नास्ति, अतः सीतापतिः इति समासः न भवति | यत्र परस्परान्वयो न स्यात् तत्रापि यदि समासः क्रियेत तर्हि असमर्थसमासः इति उच्यते |


असम्बद्धानां पदानां समासः न क्रियते इति ज्ञातम् | अतः सर्वत्र पदानां सम्बन्धः अस्ति वा इति दृष्ट्वा एव समासः करणीयः| सामर्थ्यं द्विप्रकारकं भवति – १) व्यपेक्षासामर्थ्यम्, २) एकार्थीभावसमार्थ्यं चेति |

सामर्थ्यं द्विप्रकारकं भवति – १) व्यपेक्षासामर्थ्यम्, २) एकार्थीभावसमार्थ्यं चेति |

१) व्यपेक्षासामर्थ्यम् - वाक्ये पदानां मध्ये विद्यमानः परस्परान्वयः एव व्यपेक्षा नाम्ना ज्ञायते | अर्थात् वाक्ये पदानि स्वस्य अर्थं प्रतिपाद्य परस्पर सम्बन्धम् अपि अपेक्षन्ते | वाक्ये पदानि न केवलं स्वस्य अर्थं बोधयन्ति, अपि च अन्यैः पदैः सह सम्बन्धम् अपि दर्शयन्ति | वाक्येषु वयं नूतनपदानि योजयितुम् अपि शक्नुमः, पदानि निष्कासयितुम् अपि शक्नुमः | प्रत्येकं पदं स्वतन्त्रं वर्तते इत्यतः अत्र न कोपि नियमः | एतादृशसामर्थ्यम् एव व्यपेक्षासामर्थ्यम् इति उच्यते | वाक्येषु एव व्यपेक्षासामर्थ्यम् उपलब्धं भवति |

यथा रामः  ग्रामं गच्छति इति वाक्ये यद्यपि प्रत्येकं पदस्य भिन्नार्थः; प्रत्येकं पदं स्वतन्त्रम् अस्ति, तथापि तयोः मध्ये सम्बन्धः अस्ति|  रामः इति भिन्नं पदं, ग्रामं इति  भिन्नं पदं, गच्छति इति भिन्नं पदं, वाक्ये तयोः मध्ये सम्बन्धः अस्ति | गच्छति इति क्रियापदम् | कः गच्छति रामः इति कर्ता गच्छति| किं फलं प्राप्तुं रामः गच्छति? गमनक्रियायाः फलं किम् | ग्रामं प्राप्तुं  एव रामः गमनक्रियां करोति |अत्र ग्रामम् इति कर्मपदम् अस्ति | अस्मिन् वाक्ये व्यपेक्षासामर्थ्यं वर्तते यतोहि पदानां मध्ये सम्बन्धः अस्ति |

 

२) एकार्थीभावसामार्थ्यं - द्वयोः पदयोः योजनेन नूतनपदस्य निर्माणं भूत्वा यत्र विशिष्टार्थस्य बोधः भवति तत्र एकार्थीभावसामर्थ्यम् अस्ति इति उच्यते | पदानां मेलनेन एकार्थस्य बोधः यत्र भवति तत्र एकार्थीभावसामर्थ्यं भवति | यत्र पदानि स्वस्य प्रधानम् अर्थं त्यक्त्वा अथवा गौणीकृत्य अन्यम् अर्थं बोधयति तत्र एकार्थीभावसामर्थ्यं भवति | यत्र एकार्थीभावसामार्थ्यं वर्तते तत्र नूतनं पदं योजयितुं न शक्नुमः | वृत्तिषु एव एकार्थीभावसामार्थ्यं वर्तते | सर्वाणि भिन्नानि पदानि मिलित्वा एकपदं भवति | वृत्तिषु एव एकार्थीभावसामार्थ्यं भवति इति उक्तम् | तर्हि वृत्तिः नाम का इति अग्रे उच्यते |

 

यथा राज्ञः पुरुषः इत्यस्मात् राजपुरुषः इति समस्तपदं निष्पन्नं भवति | राज्ञः इति पदं राजार्थं बोधयति तथा पुरुषः इति पदं पुरुष-शब्दार्थं बोधयति | किन्तु समासे कृते द्वाभ्यां पदाभ्याम् एकार्थकस्य बोधः जायते, अनेन राजपुरुषः राजसम्बन्धवान् पुरुषः इति विशिष्टः अर्थः प्रकटितः भवति | अनयोः पदयोः परस्परं सम्बन्धः अस्ति इति कारणेन एव  राजपुरुषः इति समासः भवति |

 

c) वृत्तिः

 

परार्थाभिधानं वृत्तिः इति उच्यते | यत्र अनेके शब्दाः एकीभूय विभिन्नम् अर्थं बोधयन्ति तत्र वृत्तिः अस्ति इति उच्यते | वृत्तिः इति एकं कार्यम् अस्ति व्याकरणे | वृत्तिः स्वार्थं विहाय नूतनम् अर्थं बोधयति |

यथा पच्- धातुतः ण्वुल् -प्रत्ययः क्रियते चेत् पाचकः इति कृदन्तपदं निष्पन्नं भवति | पच् -धातुः पाकक्रियां बोधयति | अधुना पच्-धातुतः ण्वुल् प्रत्ययं योजयामः चेत् पाचकः इति नूतनः अर्थः निष्पन्नः भवति | पाचकः कर्तारं बोधयति | नाम यः पाकं करोति इति | धातुभ्यः कृत् -प्रत्ययः क्रियते चेत् कश्चन नूतनः अर्थः निष्पन्नः भवति | एतदेव वृत्तेः लक्षणम् | व्याकरणे पञ्चवृत्तयः सन्ति यत्र एकार्थीभावसामर्थ्यं वर्तते – १) कृद्वृत्तिः; २) तद्धितवृत्तिः; ३) एकशेषवृत्तिः; ४) समासवृत्तिः ५) सनादिवृत्तिः चेति | यत्र वृत्तिकार्यम् अस्ति तत्र समर्थः पदविधिः (२.१.१) इति सूत्रस्य प्रसक्तिः अस्ति यतोहि सामर्थ्यम् अस्ति चेत् एव वृत्तिकार्यं भवति |

 

वृत्तिनां प्रसङ्गे उच्यते यत् सविशेषणानां वृत्तिः न | वृत्तस्य विशेषणं योगः न | अर्थात् विशेषाणानां वृत्तिः न भवति | यदा हि वृत्तिः निष्पन्ना भवति तदा नूतनविशेषणस्य योजनं कर्तुं न शक्यते | यथा- राजपुरुषः इति समासः क्रियते चेत् तदनन्तरं वृद्धस्य इति पदं योजयितुं न शक्नुमः | किमर्थम् इति चेत् वृद्धस्य इति पदं राज्ञः इति पदस्य विशेषणम् अस्ति | यदि वृद्धराजपुरुषः इति समासः क्रियते तर्हि किं भवति ? वृद्धस्य इति पदस्य योजनेन  प्रश्नः उदेति अत्र राजा वृद्धः वा नो चेत् पुरुषः वृद्धः वा इति | अनेन कारणेन एव एकवारं यदा समासः क्रियते तदानीं नूतनविशेषणं योजयितुं न शक्यते | अत्र नियमः अस्ति यत् सविशेषणानां वृत्तिः न भवति इति | अतः एव वृद्धराजपुरुषः इति समासः न भवति |
 

 

d) समास-सम्बद्ध -अधिकारसूत्राणि

समासप्रकरणस्य आदौ  पीठिकारूपेण त्रीणि अधिकारसूत्राणि सन्ति | समर्थः पदविधिः (२.१.१) इति एकं परिभाषासूत्रम् अपि अस्ति यस्य प्रसक्तिः समासप्रकरणे सर्वत्र भवति –

१) समर्थः पदविधिः (२.१.१);  २) सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२);  ३) प्राक्कडारात्समासः (२.१.३),  ४) सह सुपा (२.१.४) चेति | एतैः सूत्रैः एव सुबन्तं पदं सुबन्तेन सह समस्यते, तस्य सामान्यसमास-संज्ञा च भवति | एतेषां विवरणम् अग्रे दीयते |

 

समर्थानां सुबन्तानां एव समासः भवति इति पूर्वमेव उक्तम् | अत्र परिभाषासूत्रम् अस्ति 'समर्थः पदविधिः (२.१.१) ' इति|

 

१) समर्थः पदविधिः (२.१.१)

पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् | समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | पदसम्बन्द्ध-कार्यं समर्थपदानाम् आश्रये एव भवति न तु असमर्थपदानाम् | एतत् परिभाषासूत्रमस्ति | यद्यपि एतत् परिभाषासूत्रम् अस्ति तथापि एतस्य प्रसक्तिः सर्वत्र भवति यत्र पदसम्बन्धी विधिः अस्ति | समर्थः प्रथमान्तं, पदविधिः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य विधिः, पदविधिः, षष्ठीतत्पुरुषः | सूत्रं स्वयं सम्पूर्णम् |

 

२) सुबामन्त्रिते पराङ्गवत्‌ स्वरे( २.१.२)

एतत् सूत्रं समासे स्वरस्य विषये उच्यते | स्वरोच्चारणविषयः अद्यत्वे वेदे एव दृश्यते न तु लोके इति कृत्वा इतोऽपि विवरणं न दीयते |

 

समाससंज्ञा विधीयते प्राक्कडारात्समासः (२.१.३) इति सूत्रेण  -

३) प्राक्कडारात्समासः (२.१.३)

  एतत् अधिकारसूत्रम् अस्ति | अस्मात् सूत्रात् आरभ्य कडाराः कर्मधारये (२.२.३८) इति सूत्रपर्यन्तं समासाधिकारः भवति | एतेन सूत्रेण समाससंज्ञा विधीयते | अग्रे यत् किमपि विधीयते तस्य नाम समासः इति | प्राक् अव्ययपदं, कडारात् पञ्चम्यन्तं, समासः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— प्राक् कडारात् समासः |

 

४) सह सुपा (२.१.४)

सुबन्तस्य समर्थसुबन्तेन सह समासः भवति | एतत् अधिकारसूत्रम् अस्ति | एतस्य अधिकारः सम्पूर्णसमासप्रकरणे अस्ति | सह अव्ययपदं, सुपा तृतीयान्तं, द्विपदमिदं सूत्रम् | प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति | अनेन सुपा इत्यनेन सुबन्तेन इत्यर्थः निष्पन्नः भवति  |  एवमेव सुप् इत्यनेन सुबन्तम् इत्यर्थः निष्पन्नः | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— सुप् सुपा सह समासः |

समाससम्बद्धसूत्रेषु सर्वत्र सुप् इत्युक्ते सुबन्तं पदं, सुपा इत्युक्ते सुबन्तेन पदेन इत्यर्थः स्वीकार्यः | सुबन्तं पदं नाम यस्य अन्ते सुप् -प्रत्ययः अस्ति तत् |

 

केवलसमासः

यः समासः विशिष्टसंज्ञाविनिर्मुक्तः सः समासः केवलसमासः इति उच्यते | व्यवहारे सुबन्तस्य समर्थसुबन्तेन सह समासः भवति चेत् तत्र केवलसमासः इति उच्यते | यत्र विशिष्ट-समास-संज्ञा ( तत्पुरुषः, द्वन्द्वः, अव्ययीभावः , बहुव्रीहिः)  न विधीयते तत्र केवलसमासः इति उच्यते |

यथा भूतपूर्वः इति समासः, तस्य विग्रहः पूर्वं भूतः इति अस्ति | अयं केवलसमासः यतोहि अत्र किमपि विशिष्टसमासविधायकं सूत्रं नास्ति येन विशिष्टसमाससंज्ञां कर्तुं शक्यते | केवलसमासः सह सुपा (२.१.४) इति सामान्यसूत्रेण विधीयते | काव्येषु अथवा शास्त्रेषु  बहवः समासाः दृश्यन्ते | एते समासाः शिष्टैः प्रयुक्ताः, अतः कथञ्चित् तेषां साधुत्वं साधनीयं भवति | परन्तु तेषां साधुत्वं प्राप्तुं समासविधायकं सूत्रं नास्ति येन विशिष्टसमाससंज्ञां कर्तुं शक्यते | अतः एव एतेषां समासानां समर्थनं सह सुपा (२.१.४) इति सामान्यसूत्रेण क्रियते, अपि च तेषां नाम केवलसमासः इति |

 

अग्रे एतैः विशिष्ट-अधिकार-सूत्रैः विशिष्टसमाससंज्ञाः विधीयन्ते | एतैः सूत्रैः कीदृशसमासः विहितः भवति, कीदृशेन पदेन सह, कस्मिन् अर्थे इत्यादीनां विषयानां विवरणं प्राप्तुं शक्यते |

  • अव्ययीभावसमासाधिकारः....२१ इति सूत्रपर्यन्तम् | अस्मिन् अधिकारे अव्ययीभावसमासः इति विशिष्टसमाससंज्ञा विधीयते |
  • तत्पुरुषसमासाधिकारः..२२..२२ इति सूत्रपर्यन्तम् | अस्मिन् अधिकारे तत्पुरुषसमासः इति विशिष्टसमाससंज्ञा विधीयते |
  • बहुव्रीहिसमासाधिकारः..२३..२८ इति सूत्रपर्यन्तम् | अस्मिन् अधिकारे बहुव्रीहिसमासः इति विशिष्टसमाससंज्ञा विधीयते |
  • द्वन्द्वसमासाधिकारः..२९ - एकमेव सूत्रम् अस्ति अस्मिन् अधिकारे | अस्मिन् अधिकारे द्वन्द्वसमासः इति विशिष्टसमाससंज्ञा विधीयते |

एकवारं समासस्य विशिष्टसंज्ञा विहिता चेत् तत्पश्चात् पूर्वनिपात– परनिपातप्रकरणे यानि सूत्राणि सन्ति तैः सूत्रैः निर्णीयते कस्य पदस्य पूर्व-परनिपातः भवति इति | एतानि पूर्व-परनिपात- सूत्राणि – २.२.३० इत्यस्मात् सूत्रात् आरभ्य २..३८ इति सूत्रपर्यन्तं वर्तन्ते | एतेषां पठनम् अग्रे भविष्यति |

 

4) विकल्पाधिकारः

 

विभाषा (..११)

एतद् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अपपरिबहिरञ्चवः पञ्चम्या (२.१.१२) इति सूत्रात् आरभ्य कडाराः कर्मधारय  (२.२.३८) इति सूत्रपर्यन्तम् अस्ति | एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति | एषा विभाषा ‘महाविभाषा’ इति उच्यते यतोहि एतेन सूत्रेण यः विकल्पाधिकारः कृतः सः बृहदस्ति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा प्रथमान्तं, एकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम् |

 

यत्र समासः नित्यः तत्र विभाषा (..११) इति सूत्रस्य प्रसक्तिः न भवति | विभाषा (..११) इत्यस्मात् सूत्रात् प्राक् यानि सूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति | अव्ययीभावाधिकारे (..) इत्यस्मात् सूत्रात् आरभ्य (..१०) इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र विभाषा (..११) इत्यस्य अधिकारः नास्ति, अतः एव तत्र समासः विकल्पेन न भवति अपि तु नित्यं भवति | अग्रेऽपि कुत्रचित्  समासः नित्यं भवति यत्र विभाषा (..११) इत्यस्य सूत्रस्य प्रसक्तिः नास्ति | सामान्यतः समासः विकल्पेन भवति इत्युक्तम् | व्यस्तप्रयोगं अपि कर्तुं शक्यते, समस्तप्रयोगं अपि कर्तुं शक्यते | परन्तु कुत्रचित् समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति | अग्रे सूत्रस्य पठानावसरे परिशीलयामः कुत्र कुत्र समासः नित्यः इति |

 

5) नित्यसमासः 

प्रायेण अविग्रहः अथवा अस्वपदविग्रहः नित्यसमासः इति उच्यते |

अविग्रहः = न विग्रहः अविग्रहः, नञ्तत्पुरुषसमासः | यस्य समासस्य विग्रहः नास्ति सः अविग्रहः इति उच्यते | नाम यस्मिन् समासे विग्रहवाक्येन समासस्य अर्थबोधः न भवति सः समासः नित्यः | तादृशसमासस्य विग्रहवाक्यं नास्ति यतोहि विग्रहवाक्यस्य प्रयोजनं नास्ति, विग्रहवाक्येन अर्थः न बुध्यते |

यथा कृष्णसर्पः इति समासस्य विग्रहः नास्ति | अयं समासः नित्यसमासः यतोहि कृष्णः च असौ सर्पः च इति विग्रहवाक्येन समासस्य अर्थबोधः न जायते | किमर्थम् इति चेत् कृष्णसर्पः यः कोपि सर्पः नास्ति | कृष्णसर्पः विशिष्टः सर्पः (Cobra), जातिविशेषः  इत्यर्थः | अस्य समासस्य विग्रहवाक्यं न भवति, व्यस्तप्रयोगः न भवति | कृष्णवर्णीयः यः सर्पः सः सर्पः भिन्नः, कृष्णसर्पः भिन्नः| कृष्णसर्पः इति समासः अविग्रहः इति कृत्वा नित्यसमासः |

 

अस्वपदविग्रहः = न  विद्यते स्वपदविग्रहः यस्य सः समासः अस्वपदविग्रहः | यस्य समासस्य अस्वपदविग्रहवाक्यम् अस्ति सः समासः नित्यसमासः | नाम समासस्य अर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समास-घटक-पद-रहित- वाक्यम् अस्वपदविग्रहः इति उच्यते |

यथा उपकृष्णम् इति अव्ययीभावसमासः अस्ति | कृष्णस्य समीपम् इति अस्वपदविग्रहवाक्यम् अस्ति | अत्र समीपम् इति पदं समासघटकं पदं नास्ति | एतादृशविग्रहः अस्वपदविग्रहः इति उच्यते | उपकृष्णम् इति समासस्य अस्वपदविग्रहः अस्ति इति कृत्वा अयं समासः नित्यसमासः |

 

6) उपसर्जनसंज्ञा -

समासे सामान्यतया द्वयोः पदयोः मेलनं भवति इति ज्ञातमेव | तर्हि समासे द्वयोः पदयोः मध्ये किं पदं पूर्वं स्यात्, किं पदं परं स्यात् इति कथं निर्णीयते?  तदर्थं पाणिनिना एका सुन्दरव्यवस्था कृता  येन वयं सुलभतया ज्ञातुं शक्नुमः किं पदं पूर्वं स्यात् किं पदं परं स्यात् इति | समासे उपसर्जनम् इति काचित्संज्ञा वर्तते | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं प्रयोक्तव्यम् | अतः समासे उपसर्जनस्य अभिज्ञानम् अत्यावश्यकम् | समासे कस्य उपसर्जनसंज्ञा भवति इति विवरणम् अग्रे दीयते | अष्टाध्याय्याम् उपसर्जनसंज्ञा सूत्रद्वयेन विधीयते- १) प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३)  २) एकविभक्ति चापूर्वनिपाते (१.२.४४) चेति | सूत्रस्य विवरणम् अधः लिखितम् अस्ति |

अष्टाध्याय्याम् उपसर्जनसंज्ञा सूत्रद्वयेन विधीयते- १) प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३)  २) एकविभक्ति चापूर्वनिपाते (१.२.४४) चेति | सूत्रस्य विवरणम् अधः लिखितम् अस्ति |

 

प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३)

समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति, तत् पदम् उपसर्जन-संज्ञकं स्यात् | इदं संज्ञा-सूत्रम् अस्ति | प्रथमानिर्दिष्टं प्रथमान्तं, उपसर्जनं प्रथमान्तं, समासे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्‌— प्रथमानिर्दिष्टं समास उपसर्जनम् |

 

समासविधायकसूत्रेषु यत् पदं प्रथमाविभक्तौ निर्दिष्टम् अस्ति, तत् पदम् उपसर्जनसंज्ञकं भवति |

 

यथा- पञ्चमी भयेन ( २.१.३७)  इति पञ्चमी-तत्पुरुष-समास-विधायकसूत्रम् अस्ति | एतत् सूत्रं वदति पञ्चम्यन्तं सुबन्तं समर्थेन भयशब्देन सह समस्यते, तत्पुरुषश्च समासो भवति इति | अस्मिन् सूत्रे पञ्चमी इत्यनेन पञ्चम्यन्तं सुबन्तम् इति अर्थः अस्ति | पञ्चमी प्रथमान्तं, भयेन इति तृतीयान्तं पदम् | अस्मिन् सूत्रे किं पदं प्रथमाविभक्तौ अस्ति ?

पञ्चमी इति पदम् एव प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टं समास उपसर्जनम्   ( १.२.४३) इति सूत्रेण |

 

पञ्चमी भयेन (२.१.३७)

पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति | पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः| सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— पञ्चमी सुप् भयेन सुपा सह विभाषा तत्परुषः समासः |

 

यथा - चोरात् भयम् | अनयोः पदयोः समासं कर्तुम् इच्छामः | अनयोः पदयोः मध्ये भयम् इति एकं पदम् अस्ति, अतः पञ्चमी भयेन ( २.१.३७) इति सूत्रेण पञ्चमीतत्पुरुषसमासः विधीयते | अधुना अनयोः पदयोः मध्ये कस्य पदस्य उपसर्जनसंज्ञा भवति?  पञ्चमी भयेन ( २.१.३७) इति सूत्रे पञ्चमी इति पदस्यैव उपसर्जनसंज्ञा आसीत् अतः चोरात् भयम् इति उदाहरणे अपि अनयोः पदयोः मध्ये किं पदं पञ्चम्यन्तं पदम् अस्ति इति द्रष्टव्यम् | अस्माकम् उदाहरणे  तु चोरात् इति पदम् एव पञ्चम्यन्तं पदम् अस्ति, अतः चोरात् इति पदस्य एव उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण|चोरात् इति पदस्य एव उपसर्जनसंज्ञा यतोहि पञ्चमी भयेन ( २.१.३७) इति सूत्रे पञ्चमी इति पदमेव प्रथमाविभक्त्यां निर्दिष्टम् अस्ति | अतः उदाहरणे अपि यत् पदं पञ्चम्याम् अस्ति तस्यैव उपसर्जनसंज्ञा भवति |

 

उपसर्जनसंज्ञायाः फलं किम् ? उपसर्जनसंज्ञायाः फलं यत् यस्य उपसर्जनसंज्ञा भवति तस्य प्रयोगः समासे पूर्वं भवति | अर्थात् उपसर्जनसंज्ञकस्य पदस्य समासे पूर्वनिपातः (पूर्वप्रयोगः) भवति | अत्र सूत्रम् अस्ति उपसर्जनं पूर्वम् ( २.२.३०) इति | समासे उपसर्जनसंज्ञकस्य पदस्य पूर्वनिपातः भवति |

 

उपसर्जनं पूर्वम्‌ (२.२.३०)

समासे उपसर्जनसंज्ञकः पूर्वं प्रयोक्तव्यः | अनेन सूत्रेण यत् कार्यं भवति तस्य नाम पूर्वनिपातः अथवा पूर्वप्रयोगः इति कथ्यते | उपसर्जनं प्रथमान्तं, पूर्वं प्रथमान्तं, द्विपदमिदं सूत्रम् | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अनुवृत्तिः भवति | अत्र समासः इति शब्दस्य विभक्तिपरिणामं कृत्वा सप्तमीविभक्तौ भवति  | अनुवृत्ति-सहित-सूत्रम्‌— समासे उपसर्जनं पूर्वम् |

 

समासविधायकसूत्रे यत् पदं  प्रथमाविभक्तौ अस्ति तस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३)  इति सूत्रेण | तत्पश्चात् उपसर्जनसंज्ञकस्य पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |

 

चोरात् भयम्  इति उदाहरणे यथा पूर्वोक्तं चोरात् इति पदस्य उपसर्जनसंज्ञा भवति|तत्पश्चात् समासे चोरात् इति उपसर्जनसंज्ञकस्य पदस्य पूर्वप्रयोगः भवति 'उपसर्जनं पूर्वम्‌ (२.२.३०) ' इति सूत्रेण | अतः एव चोरभयम् इति समासः निर्मितः भवति  |

 

अन्यत् उदाहरणम् -

षष्ठी (२.२.८) इति षष्ठी-तत्पुरुष-विधायाकसूत्रम् अस्ति | सूत्रं वदति षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण | तदनन्तरम् उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण तस्य पूर्वनिपातः भवति | नाम षष्ठ्यन्तस्य पदस्य पूर्वप्रयोगः भवति समासे इत्यर्थः |

 

षष्ठी (२.२.८)

षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | सह सुपा (२.१.४) इत्यस्य अधिकारः | विभाषा (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रं— षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः |

 

सीतायाः पतिः इति विग्रहे, सीता इति पदस्य षष्ठी विभक्तिः अस्ति अतः तस्य उपसर्जनसंज्ञा भवति प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण | तदनन्तरम् उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण तस्य पदस्य पूर्वनिपातः भवति | अतः एव समासे सीता इति पदस्य प्रयोगः पूर्वं भवति | समासः तु सीतापतिः इति भवति  | एतदेव उपसर्जनसंज्ञायाः प्रयोजनम् | यस्य उपसर्जनसंज्ञा भवति समासविधायकसूत्रे तस्य एव पूर्वप्रयोगः भवति | यदि एतादृशनियमः नास्ति तर्हि पतिसीता इत्यपि समासः भवितुम् अर्हति | तथा मा भूत् इति कृत्वा एव पाणिना उपसर्जनसंज्ञा कृता |

 

प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३), उपसर्जनं पूर्वम्‌ (२.२.३०) इति द्वाभ्यां सूत्राभ्यां समासे किं पदं पूर्वं स्यात् इति ज्ञातुं शक्नुमः | समासे आदौ उपसर्जनस्य ज्ञानम् आवश्यकम् अस्ति |

 

अभ्यासः


एतेषु सूत्रेषु उपसर्जनं किम् अपि च कस्य पदस्य पूर्वनिपातः भवति इति वक्तव्यम् |

1) द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ( २.१. २४)

2) तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०)

3) चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६)

4) पञ्चमी भयेन (२.१.३७)

5) अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद् -यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्यान्तवचनेषु (२.१.६)

 

उपसर्जनस्य विषये अन्यत् सूत्रम् अस्ति एकविभक्ति चापूर्वनिपाते (१.२.४४) इति |


एकविभक्ति चापूर्वनिपाते (..४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | विग्रहे यत् नियतविभक्तिकं तद् उपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः | विग्रहवाक्यस्य दशायां यस्य पदस्य विभक्तिः निश्चिता अस्ति तस्य पदस्य उपसर्जनसंज्ञा भवति यदा तत्र पूर्वनिपातनं विहाय अन्यकार्यं भवति | इदं संज्ञा-सूत्रम् अस्ति | एका विभक्तिः यस्य तद् एकविभक्तिः, बहुव्रीहिः | पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातः अपूर्वनिपातः, तस्मिन्, अपपूर्वनिपाते, नञ्तत्पुरुषः | एकविभक्तिः प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् | प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |

 

एका इति यत् पदं सूत्रे अस्ति तत् पदं निश्चितार्थे स्वीक्रियते | एकविभक्तिः इत्युक्ते नियतविभक्तिमत् पदम् इति | यस्य पदस्य विभक्तिः निश्चिता भवति तत् पदमेव एकविभक्तिमत् पदम् इति कथ्यते | यदा समासे द्वयोः पदयोः मध्ये एकं पदं नियतविभक्त्याम् अस्ति, तस्य विभक्तेः परिवर्तनं न भवति परन्तु अन्यपदस्य विभक्तेः परिवर्तनं भवितुम् अर्हति, अस्यां स्थित्यां यस्य पदस्य विभक्तेः परिवर्तनं न भवति तत् पदमेव नियतविभक्त्याम् अस्ति |


एकविभक्ति चापूर्वनिपाते (..४४) इति सूत्रेण यत् पदं नियतविभक्त्याम् अस्ति तस्य उपसर्जनसंज्ञा भवति परन्तु पूर्वनिपातः न भवति, तर्हि उपसर्जनस्य का आवश्यकता, तस्य प्रयोजनं किम् ?


समाधानम् अस्ति यत् उपसर्जनसंज्ञायाः अन्यप्रयोजनम् अस्ति | गोस्त्रियोरुपसर्जनस्य (..४८) इति एकं सूत्रम् अस्ति, तेन सूत्रेण गो-शब्दः अथवा स्त्रीलिङ्गशब्दः उपसर्जनसंज्ञकः चेत् तदन्तस्य प्रातिपदिकस्य ह्रस्वत्वं भवति इति | अनेन ज्ञायते यत् उपसर्जनस्य प्रयोजनं ह्रस्वत्वम् इति | अग्रे सूत्रस्य उदाहरणं पश्यामः |

 

 7) समासप्रक्रियायां स्मर्तव्याः अंशाः

i) समासः सर्वदा समर्थानां सुबन्तानाम् एव भवतिः | सुबन्तयोः एव समासो भवति |

 

ii) समासे लौकिकविग्रहवाक्यम्, अलौकिकविग्रहवाक्यं च चिन्तनीयम् | अर्थम् अवलम्ब्य एव समासस्य विग्रहवाक्यं चिन्तनीयम् | समासविधायकं सूत्रम् अवलम्ब्य एव समासः क्रियते |

 

a) लौकिकविग्रहवाक्येन समस्तपदस्य अर्थः अवगमयते | यथा 'भवच्चक्षुः' समस्तपदस्य कृते 'भवतः चक्षुः' इति लौकिकविग्रहवाक्यं भवति |

 

b) अलौकिकविग्रहवाक्येन समासनिर्माणं सिद्ध्यति  | यथा 'भवच्चक्षुः' समस्तपदस्य कृते 'भवत्‌ + ङस्‌ + चक्षु + सु' इति भवति | समासप्रक्रिया आराब्धा भवति अलौकिकविग्रहवाक्यात् | अतः प्रक्रियाकाले सर्वप्रथमम् अलौकिकविग्रहवाक्यं चिन्तनीयम् |

 

iii)  आदौ समाससंज्ञा विधीयते प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | तदनन्तरं विशिष्टसमाससंज्ञा विधीयते विशिष्टसमासविधायकसूत्रेण, यथा तत्पुरुषसंज्ञा, द्वन्द्वसंज्ञा, बहुव्रीहिसंज्ञा, अव्ययीभावसंज्ञा इत्यादयः |

 

iv)  समस्तपदस्य निर्माणार्थं विधायकसूत्रस्य आवश्यकता अस्ति | समासस्य विधायकसूत्राणि द्वितीयाध्यायस्य प्रथमपादे, द्वितीयपादे च सन्ति |

 

v)   समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (..४६) इत्यनेन सूत्रेण |

 

vi)  तत्पश्चात् विभक्त्तेः लोपश्च भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सूत्रेण | कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन समासस्य प्रातिपदिकसंज्ञा अस्ति इति कारणेन प्रातिपदिकस्य अवयवरूपेण विद्यमानानां सुप्-प्रत्ययानां लुक् भवति  सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन सूत्रेण |

 

vii) यदा हि सुप् प्रत्ययानां लोपः जायते तदा प्रश्नः उदेति यत् सुप् प्रत्ययानां लोपानन्तरम् अपि पूर्वपदस्य पदसंज्ञा अस्ति वा प्रातिपदिकसंज्ञा अस्ति वा इति?   प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन प्रत्ययस्य लोपानन्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पूर्वपदस्य प्रातिपदिकसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्त्येव  | अतः एव अष्टमाध्याये द्वितीयपादे यानि पदसम्बद्धसूत्राणि सन्ति, तेषां प्रसक्तिः भवति, कार्यञ्च भवति बहुत्र |

 

viii) समासे उपसर्जनस्य अभिज्ञानम् अत्यावश्यकम् | उपसर्जनस्य अभिज्ञानं भवति प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति संज्ञासूत्रेण | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |

 

प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रं वदति – समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति |

 

-  उपसर्जनं पूर्वम्‌ (..३०) इति सूत्रं वदति यस्य पदस्य उपसर्जन-संज्ञा भवति तस्य पूर्वनिपातः भवति |

 

ix) समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते | समासान्तप्रत्ययः समासस्य अवयवः भवति | समासान्तप्रत्ययस्य विधानान्तरं सम्पूर्णस्य समासस्य प्रातिपदिकसंज्ञा भवति |

 

x)  समासे  कुत्रचित् उत्तरपदस्य प्रभावेन पूर्वपदस्य परिवर्तनं भवति | उत्तरपदे इति अधिकारे यानि सूत्राणि पठितानि, तेषां ज्ञानम् आवश्यकम् |

 
xi) समासे संहिता नित्या | अतः समासप्रक्रियायां यत्र सन्धिकार्यस्य प्रसक्तिः अस्ति तत्र सन्धिकार्यं करणीयमेव | यथा भवत्+चक्षु → अत्र सन्धिकार्यस्य अवसरः अस्ति अतः सन्धिकार्यं करणीयम् एव | अधः प्रक्रिया प्रदर्शिता -


यथा 'भवच्चक्षुः' इत्यस्य 'भवत्‌ +ङस्‌ + चक्षु सु' इति भवति |


समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | तदनन्तरं तत्पुरुषः (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते | षष्ठी (२.२.८) इति विधायकसूत्रेण भवतः इति षष्ठ्यन्तं सुबन्तं, चक्षुः इति समर्थेन सुबन्तेन सह समस्यते |


समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |


तदा सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | 'भवत्‌ ङस्‌ + चक्षु सु' इत्यस्मिन्‌ ङस्‌, सु इत्यनयोः लुक्‌ → भवत्‌ + चक्षु | सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'भवत्‌' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | इत्थञ्च पर्यवसितं यत्‌— सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति | एतदाधारेण—


भवत्‌ + चक्षु → झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वसन्धिः भवति → भवद्‌ चक्षु → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन चकारस्य प्रभावेन दकारस्य स्थाने जकारादेशः भवति → भवज्‌ चक्षु → खरि च (८.४.५५) इत्यनेन जकारस्य स्थाने चकारादेशः भवति खरि परे→ भवच्‌ + चक्षु → वर्णमेलने → भवच्चक्षु इति | एतानि सन्धि-सम्बद्ध-सूत्राणि त्रिपाद्यां सन्ति यत्र पूर्वत्रासिद्धम् ( ८.२.१) इत्यस्य अधिकारः अस्ति अतः सूत्राणि क्रमेण एव प्रवर्तनीयानि |

 

xii) तत्पश्चात् समासस्य लिङ्गं, वचनं च निर्णीयेते | अग्रिमेषु पाठेषु अनयोः विषये सूत्राणां पठनं भविष्यति |


xiii) समासस्य प्रातिपदिकसंज्ञा तिष्ठति इति कारणेन प्रातिपादिकात् पुनः सुबादयः विधीयन्ते स्वौजसमौट्छष् ..(४.१.२) इति सूत्रेण | तत्र वयं सुबन्तप्रकरणं प्रविशामः, अतः सुबन्तप्रकरणस्य सामान्यज्ञानम् अत्यावश्यकम् |


भवच्चक्षु +सु  → अत्र भवच्चक्षु  इति प्रातिपदिकात् सु प्रत्ययः विधीयते | सु इति प्रत्यये उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन | अतः भवच्चक्षु +स् इति भवति | अधुना ससजुषो रुः (८.२.६६) ' इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | भवच्चक्षुरु इति भवति | उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन | भवच्चक्षुर् इति भवति | अधुना खरवसानयोर्विसर्जनीयः (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् |अतः  भवच्चक्षुः इति समस्तपदं सिद्धम् | प्रथमाविभक्तौ एकवचने भवच्चक्षुः इति रूपम् |  एवमेव अन्यान् सुप्-प्रत्ययान् योजयित्वा सर्वेषु विभक्तिषु रूपाणि साधयितुं शक्यन्ते | रूपाणि गुरु-शब्दवत् भवन्ति |


 xiv) यथा पूर्वं चर्चितं यदा समासः निष्पद्यते तदा समासे नूतनानां विशेषणानां योजनं न अर्हति |


 

झलां जशोऽन्ते (८.२.३९)

पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | स्थानेऽन्तरतमः (..५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | पदस्य (..१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य अन्ते झलां जशः |

 

स्तोः श्चुना श्चुः (८.४.४०)

सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | यथासंख्यमनुदेशः समानाम्‌ (..१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | तयोर्य्वावचि संहितायाम्‌ (..१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— स्तोः श्चुना श्चुः संहितायाम् |

 

खरि च (८.४.५५)

झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्‌ इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर्‌ खरि च संहितायाम् ‌|

 

8) समासभेदाः


समासः प्राधान्येन पञ्चधा विभक्तः वर्तते |


अ) अव्ययीभावसमासः;

आ) तत्पुरुषसमासः;

इ) बहुव्रीहिसमासः;

ई) द्वन्द्वसमास:

उ) केवलसमासश्च |

 

समासे पूर्वपदम् उत्तरपदञ्च भवतः इत्युक्तम् | समासे पूर्वपदस्य, उत्तरपदस्य च अर्थः अस्ति  | कदाचित् पूर्वपदार्थस्य, कदाचित् उत्तरपदार्थस्य, कदाचित् अन्यपदार्थस्य , कदाचित् उभयपदार्थस्य च प्राधान्यं भवति | यस्य पदस्य अर्थः प्रायः क्रियया नो चेत् गुणेन वा अन्वितो भवति सः अर्थः प्रधानः इति उच्यते | यद्यपि अष्टाध्याय्यां प्राधान्यम् इति विषयः न उक्तः तथापि व्याकरणग्रन्थेषु प्राधान्यम् इति विषयः प्रसिद्धः एव | समस्तपदे किं पदं प्रधानम् इति द्रष्टुं किञ्चित् क्रियापदम् उच्चारणीयम् नो चेत् कश्चित् गुणः उच्चारणीयः | ततः पूर्वोत्तरपदार्थयोः मध्ये किं पदं क्रियया अन्वितं भवति इति परिशील्य प्रधान-अप्रधानयोः निर्णयः कर्तव्यः |

 

प्राधान्यं नाम किम्?

समासे प्राधान्यस्य निर्ण्यार्थं क्रियायाः गुणस्य च अन्वयं यदा कुर्मः, तदा यः पदार्थः क्रियया, गुणेन सह वा अन्वयं प्राप्नोति, सः पदार्थः प्रधानः इति कथ्यते | समासे पदद्वयं भवति | द्वयोर्मध्ये यस्य पदस्य क्रियया, गुणेन सह अन्वयः भवति , सः पदार्थः एव प्रधानः भवति | एतत्  एव प्राधान्यम् इति उच्यते | भिन्नेषु समासेषु प्राधान्यं कथं भवति इति अग्रे पश्यामः |

 

यथा -

राज्ञः दूतः = राजदूतः इति समासः | अस्मिन् समासे पदद्वयम् अस्ति | पूर्वपदं राजा, उत्तरपदं दूतः इति | राजा इति पूर्वपदस्य अर्थः नृपः इति | दूतः इत्युक्ते सेवकः इति अर्थः | राजदूतः इति समासे किं पदं प्रधानम्?

राजा प्रधानः वा, दूतः प्रधानः वा? लोके राजा एव प्रधानः | परन्तु व्याकरणे तथा प्राधान्यं न स्वीक्रियते | तर्हि प्राधान्यनिर्णयः कथं क्रियते?  कश्चित् गुणः अथवा काचित् क्रिया स्वीकर्तव्या प्राधान्यस्य निर्णयार्थम् |

 

क्रियाम् आश्रित्य प्राधान्यनिर्णयः


समासे प्राधान्यस्य निर्णयार्थं समस्तपदेन सह क्रियावाचकस्य योजनं कुर्मः | यथा राजदूतः इति पदेन सह गच्छति इति क्रियापदं योजयामः | गच्छति इति पदं गमनक्रियां सूचयति |  इदानीं राजदूतः गच्छति इति वदामः चेत्, अत्र कः गच्छति, राजा गच्छति वा दूतः गच्छति वा ? दूतः एव गच्छति न तु राजा इति अवगम्यते | दूतस्य एव गमनं विवक्ष्यते | अतः राजदूतः इति समासे दूतः इत्यस्य एव प्राधान्यं न तु राजा इति पदस्य | तर्हि अत्र समासे उत्तरपदस्य प्राधान्यम् अस्ति इति ज्ञायते |

 

गुणम् आश्रित्य प्राधान्यनिर्णयः


समासे प्राधान्यस्य निर्णयार्थं समस्तपदेन सह गुणवाचकस्य योजनं कुर्मः | यथा राजदूतः इति पदेन सह सुन्दरः इति गुणं योजयामः | सौन्दर्यम् इति गुणः अस्ति | इदानीं राजदूतः सुन्दरः इति वदामः चेत् अत्र राजा सुन्दरः वा दूतः सुन्दरः वा?  दूतः एव सुन्दरः | दूतस्य एव सौन्दर्यं विवक्ष्यते | अतः दूतः इत्यस्य एव प्राधान्यं वर्तते न तु राजा इति पदस्य | तर्हि अत्र समासे उत्तरपदस्य प्राधान्यम् अस्ति इति ज्ञायते |

 

अधुना समासस्य प्रभेदान् पश्यामः, भिन्नेषु समासेषु प्राधान्यं कथं भवति इति पश्यामः | स्मर्तव्यं यत् सर्वेषु प्रभेदेषु प्राधान्यस्य विषये प्रायेण इति उक्तं यतोहि सर्वत्र अपवादाः सन्ति एव | अपवादानां चर्चा अग्रे भविष्यति |

 

अ) अव्ययीभावसमासः = अस्मिन् समासे पूर्वपदम् अव्ययम् भवति, उत्तरपदं किमपि सुबन्तं पदं भवति | अव्ययीभावः (२.१.५) इति सूत्रस्य अधिकारे अव्ययीभावसमास-विधानं क्रियते | अनव्ययम् अव्ययं भवति इति अव्ययीभावसमासः | अव्ययीभावसमास-संज्ञायाः विधानानन्तरं संपूर्णं समस्तपदम् अव्ययं भवति | नाम अव्ययीभावसमासेन निर्मितस्य शब्दस्य ‘अव्ययम्’ इति संज्ञा भवति अव्ययीभावश्च (१.१.४१) इति सूत्रेण | अस्मिन् समासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् अस्ति |

 

यथा- वृक्षस्य समीपम् = उपवृक्षम् इति अव्ययीभावसमासः | सः उपवृक्षं वसति | सः वृक्षस्य समीपं वसति | अत्र ‘उप’ इति पूर्वपदस्य प्राधान्यम् अस्ति | अतः अव्ययीभावसमासः इति उच्यते | अव्ययीभावसमासः नपुंसकलिङ्गे भवति  इत्यतः उपवृक्षम् इति अव्ययं नपुंसकलिङ्गे भवति | अव्ययीभावसमास-सम्बद्धसूत्राणि (२.१.५ – २.१.२१) सन्ति |

 

आ) तत्पुरुषसमासः = तत्पुरुषसमासे प्रायः उत्तरपदार्थस्य प्राधान्यं भवति | तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— सामान्यतत्पुरुषसमासः, कर्मधारयः, द्विगुः, नञ्प्रभृतयः चेति |

 

सामन्यतत्पुरुषसमासे पूर्वपदे षड् विभक्तयः भवितुम् अर्हन्ति | तदनुसृत्य समान्यतत्पुरुषसमासः षड्विधः — द्वितीयातत्पुरुषसमासः, तृतीयातत्पुरुषसमासः, चतुर्थीतत्पुरुषसमासः पञ्चमीतत्पुरुषसमासः, षष्ठीतत्पुरुषसमासः, सप्तमीतत्पुरुषसमासः चेति | अष्टाध्याय्यां प्रथमातत्पुरुषसमासः नास्ति यद्यपि तादृशव्यवहारः लोके दृश्यते | लोके यः प्रथमातत्पुरुषसमासः इति उच्यते सः वस्तुतः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | एतेषां विवरणं तत्तपाठे वक्ष्यते |

 

कर्मधारयसमासः तत्पुरुषसमासस्य एव भेदः अस्ति | कर्मधारयसमासे पूर्वपदम् उत्तरपदं चापि प्रथमाविभक्त्यन्तं भवति | तत्पुरुषसमासे यदा द्वयोः पदयोः समानाधिकरण्यं वर्तते तदा तस्य कर्मधारयसंज्ञा क्रियते | यथा सुन्दरः पुरुषः | अस्मिन्‌ उदाहरणे समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति | नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समान-विभक्तिकत्वम्‌ | तथा च द्वयोः अपि अर्थः सः पुरुषः — अतः एकार्थबोधकत्वम्‌ अपि अस्ति | समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति— अतः सामानाधिकरण्यम्‌ अस्ति |

 

वस्तुतः कर्मधारयसमासः नवविधः — १) विशेषणपूर्वपदः कर्मधारयः, २) विशेषणोत्तरपदः कर्मधारयः, ३) विशेषणोभयपदः कर्मधारयः,  ४) उपमानपूर्वपदः कर्मधारयः, ५) उपमानोत्तरपदः कर्मधारयः, ६) अवधारणापूर्वपदः कर्मधारयः ७) सम्भावनापूर्वपदः कर्मधारयः, ८) मध्यमपदलोपी कर्मधारयः, ९) मयूरव्यंसकादिः  चेति | एतेषां विवरणम् अग्रे सूत्रसहितं वक्ष्यते |

 

द्विगुसमासः अपि तत्पुरुषसमासस्य एव भेदः | यदा कर्मधारयसमासे पूर्वपदं संख्यावाचकं भवति तदा तस्य द्विगुसंज्ञा भवति | द्विगुसमासस्य तिस्रः संज्ञाः भवन्ति — तत्पुरुषसंज्ञा, कर्मधारयसंज्ञा, द्विगुसंज्ञा चेति | यथा त्रिलोकी = त्रयाणां लोकानां समाहारः इति |

 

नञ्प्रभृतयः इति प्रभेदे एते समासाः अन्तर्भवन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः ५) उपपदसमासः चेति |

 

तत्पुरुषसमासस्य कानिचन उदाहरणानि दीयन्ते —

 

१) राज्ञः पुरुषः = राजपुरुषः इति षष्ठीतत्पुरुषसमासः | राजपुरुषः गच्छति इत्यत्र पुरुषः इति उत्तरपदस्य प्राधान्यम् अस्ति |

 

२) नीलः मेघः = नीलमेघः इति कर्मधारयसमासः| नीलमेघः वर्षति | नीलम् इति विशेषणं, मेघः इति विशेष्यम् | मेघः एव वर्षति , अतः मेघस्य प्राधान्यम् अस्ति | पुनः अत्र उत्तरपदस्यैव प्राधान्यम् |

 

३) अष्टानाम् अध्यायानां समाहारः = अष्टाध्यायी इति द्विगुसमासः | द्विगुसमासः तत्पुरुषसमासस्य एव प्रभेदः अस्ति | सः अष्टाध्यायीं पठति इति वाक्ये सः अध्यायान् एव पठति इत्यतः अत्र अध्यायानाम् एव प्राधान्यम् अस्ति | अत्रापि उत्तरपदस्यैव प्राधान्यम् |

 

अग्रे सूत्रसहितं विवरणं द्रक्ष्यामः | तत्पुरुषसमास-सम्बद्धसूत्राणि (२.१.२२– २.२.२२) सन्ति

 

इ) बहुव्रीहिसमासः = बहुव्रीहिसमासे प्रायः अन्यपदस्य प्राधान्यं भवति |अन्यत् पदं समासाघटकं पदम्|समासाघटकपदस्य अर्थः यदि क्रियया अन्वितः भवति तर्हि बहुव्रीहिसमासः इति उच्यते|

 

यथा - पीतं क्षीरं येन सः = पीतक्षीरः | पीतक्षीरः बालः गच्छति इति वाक्ये पीतपदस्य क्षीरपदस्य वा अर्थः क्रियया सह न अन्वेति किन्तु समासाघटकस्य बालपदस्य अर्थः क्रियया सह अन्वेति | अतः ‘पीतक्षीर: इत्यत्र बहुव्रीहिसमासः भवति | बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यम् अस्ति | अत्र अन्यपदार्थः बालः इत्यस्य प्राधान्यम् अतः बहुव्रीहिसमासः |  बहुव्रीहिसमास-सम्बद्धसूत्राणि (२.२.२३ – २.२.२८ ) सन्ति |

 

ई) द्वन्द्वसमासः = द्वन्द्वसमासे प्रायः उभयपदार्थस्य प्राधान्यं भवति | उभयोः पदयोः अर्थस्य अपि यदि क्रियया अन्वयो भवति तर्हि द्वन्द्वसमासः इति उच्यते |

 

यथा रामश्च लक्ष्मणश्च = रामलक्ष्मणौ | रामलक्ष्मणौ कार्यं कुरुतः इति वाक्ये रामपदस्य लक्ष्मणपदस्य च क्रियायाम् अन्वयः वर्तते | अतः अत्र उभयपदार्थस्य प्राधान्यं भवति | तस्मात् द्वन्द्वः इति उच्यते | समस्तपदस्य लिङ्गं प्रायः उत्तरपदस्य लिङ्गं भवति | द्वन्द्वसमास-सम्बद्धसूत्राणि (२.२.२९ – २.२.२९) सन्ति ) |

 

उ) केवलसमासः –  केवलसमासः विशेषसंज्ञाविनिर्मुक्तः | व्यवहारे सुबन्तस्य समर्थसुबन्तेन सह समासः भवति चेत् तत्र केवलसमासः इति उच्यते | समासः भवति परन्तु विशिष्टसमास-संज्ञा न दीयते | अतः एव अत्र केवलं सामान्यसमास-संज्ञा एव विधीयते न तु विशिष्टा समाससंज्ञा यथा तत्पुरुषः, द्वन्द्वः, अव्ययीभावः इत्यादयः |

यथा पूर्वं भूतः = भूतपूर्वः | अयं केवलसमासः इति उच्यते यतोहि अत्र विशिष्ट-समास-विधायक-सूत्रं नास्ति | अतः भूतपूर्वः इति समासः केवलसमासः |

 

इवेन सह समासः विभक्त्यलोपश्च इति वार्तिकम् | अनेन वार्तिकेन सुबन्तपदस्य इव इति अव्ययेन सह समासः भवति अपि च पूर्वपदात् विभक्तिप्रत्ययस्य लोपः न भवति | एतत् वार्तिकं महाभाष्ये सह सुपा ( २.१.४) इति सूत्रे उक्तम् अस्ति |  इवेन तृतीयान्तं, समासः प्रथमान्तं, विभक्त्यलोपः प्रथमान्तं | न लोपः, अलोपः, नञ्तत्पुरुषः | विभक्तेः अलोपः, विभक्त्यलोपः, षष्ठीतत्पुरुषः | अस्मिन् वार्तिके अपि सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः स्वीक्रियते |

अत्र स्मर्तव्यं यत् इवेन इति पदं तृतीयान्तम् अस्ति, सुप् इति यत् पदम् अनुवृत्तम् अस्ति तत् पदं प्रथमान्तम् अस्ति, अतः सुबन्तपदस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति संज्ञासूत्रेण उपसर्जनसंज्ञा भवति, तत्पश्चात् उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण तस्य पूर्वनिपातः भवति | इव इति शब्दस्य परनिपातः भवति इति फलितार्थः |

यथा - वागर्थौ इव इति लौकिकविग्रहवाक्यं, तस्य समासः वागर्थाविव इति भवति | वागर्थौ इति सुबन्तं इवेन सह समस्यते | विग्रहस्य, समासस्य च भेदः न ज्ञायते यतोहि विभक्तेः लोपः नास्ति | एतदपि केवलसमासस्य उदाहरणम् | अस्मिन् उदाहरणे इव इति पदेन सह समासः अस्ति, पूर्वपदस्य विभक्तेः लोपः न जातः | वाक् च अर्थः च इति वागर्थौ इति द्वन्द्वसमासः, तदनन्तरं वागर्थौ+इव इति केवलसमासः | अत्र वागर्थौ इति पूर्वपदस्य विभक्तेः लोपः न भवति इवेन सह समासः विभक्त्यलोपश्च इति वार्तिकेन | केवलसमासस्य प्रयोगः प्रायेण काव्येषु एव दृश्यते |

 

इति समासस्य पञ्चप्रभेदाः के इति ज्ञातवन्तः | अग्रे समासस्य प्रक्रिया पठ्यते |

 

 

9) समासप्रक्रियाचिन्तनम्

 

अत्र समासप्रक्रिया सारांशरूपेण उच्यते -

 

१) विग्रहवाक्यं =  सर्वदा प्रसङ्गम् अवलम्ब्य विग्रहः वक्तव्यः | समासस्य अर्थावगमनम् एव अस्माकं प्रथमं कार्यम् | अर्थम् आश्रित्य विग्रहवाक्यं चिन्तयन्तु | समासस्य प्रक्रिया अलौकिकविग्रहवाक्यात् आरभ्यते | समासविधायकं सूत्रम् अवलम्ब्य एव अलौकिकविग्रहः चिन्तनीयः |


२) समासविधानम् =  समासस्य विधानार्थं विधायकं सूत्रं अस्ति वा इति दृश्यताम् | समासविधायकं सूत्रं नास्ति चेत् अस्माभिः समासः न करणीयः | परन्तु काव्येषु  तादृशः समासः अस्ति चेत् सह सुपा (२.१.४) इति सूत्रेण समर्थनीयः | अष्टाध्याय्यां चत्वारः अधिकाराः सन्ति - अव्ययीभाव-अधिकारः, तत्पुरुष-अधिकारः, बहुव्रीहि-अधिकारः, द्वन्द्व-अधिकारः चेति | प्रत्येकस्मिन् अधिकारे समासविधायकसूत्राणि सन्ति | समाससम्बद्धसूत्रे सुप् इत्युक्ते सुबन्तं पदं, सुपा इत्युक्ते सुबन्तेन पदेन इत्यर्थः |

 

३) आदौ समाससंज्ञा विधीयते प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | तदनन्तरं विशिष्टसमाससंज्ञा विधीयते विशिष्टसूत्रेण, यथा तत्पुरुषसंज्ञा, द्वन्द्वसंज्ञा, बहुव्रीहिसंज्ञा, अव्ययीभावसंज्ञा इत्यादयः |


४) समासकृते कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण समासस्य प्रातिपदिकसंज्ञा विधीयते|


५) पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण | प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन सुप् -प्रत्ययस्य लोपानन्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पूर्वपदस्य प्रातिपदिकसंज्ञा, पदसंज्ञा  च तिष्ठति |


६) पूर्वनिपातः = प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण |


७) समासान्तप्रत्ययाः = समासे कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् |


८) पूर्व-उत्तरपदयोः विशिष्टकार्याणि = कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेन पूर्वपदे किञ्चित् कार्यं भवितुम् अर्हति|


९) सन्धिः = समासे सन्धिः करणीयः एव |


१०) समासस्य लिङ्गस्य,वचनस्य च निर्णयं कुर्मः |


११) समस्तपदात् सुबुत्पत्तिः = समासस्य प्रातिपदिकात् सुबुत्पत्तिः भवति | सामान्यतः प्रथमाविभक्तौ एकवचनप्रत्ययः सु इत्येव योजयामः यतोहि तादृशी शैली अस्ति |

 

 

 

उदाहरणम्


अधुना एकं सरलम् उदाहरणं स्वीकृत्य समासप्रक्रिया कथं भवति इति परिशीलयामः-


यथा- राजपुरुषः इति षष्ठी-तत्पुरुषसमासस्य उदाहरणम् -


राज्ञः पुरुषः इति लौकिकविग्रहवाक्यम् | प्रथमे सोपाने अलौकिकविग्रहवाक्यं चिन्त्यते |


'पुरुष + सु+राजन् + ङस्‌ '   इति अलौकिकविग्रहवाक्यम् |


'पुरुष + सु+राजन् + ङस्‌ '  → समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | तदनन्तरं तत्पुरुषः (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते | षष्ठी (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते | 'पुरुष + सु+राजन् + ङस्‌ '  → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

'पुरुष + सु+राजन् + ङस्‌ '  → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

'पुरुष + सु+राजन् + ङस्‌ '  → इदानीं सुप्‌-प्रत्ययौ लुकौ (लोपौ) भवतः सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | अतः ङस्‌, सु इत्यनयोः लुक्‌ भवति |


पुरुष + राजन् →सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति | अत्र च 'राजन्' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा? उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन प्रत्ययस्य लोपानन्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति अतः पदसंज्ञा अस्त्येव  | राजन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा एव अग्रे राजन् इत्यस्य नकारस्य लोपः भवति |


पुरुष + राजन् → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति षष्ठी (२.२.८) इति  | अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति | अस्माकम् उदाहरणे राजन् इति पदं षष्ठयन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति |


राजन् + पुरुष → न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | राजन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति | अत्र संज्ञाद्वयं तिष्ठति न कोपि क्लेशः, अतः राजन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति न लोपः प्रातिपदिकान्तस्य (८.२.७) इति सूत्रेण→ राजपुरुष |


राजपुरुष → इदानीं लिङ्गस्य, वचनस्य च निर्णयः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इत्यनेन  समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः | उत्तरपदम् अस्ति  पुरुष- इति, तस्य लिङ्गं अस्ति पुल्लिङ्गम्, अतः राजपुरुष इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम् | सामान्यतया समासः प्रथमपुरुषे एकवचने एव उच्यते | अतः  राजपुरुषः इत्यस्य वचनं भवति एकवचनम् | तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः |


राजपुरुष  → समासस्य प्रातिपदिकसंज्ञा अस्ति इति कृत्वा   ङ्याप्प्रातिपदिकात्‌  ( ४.१.१) स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति द्वाभ्यां सूत्राभ्यां प्रातिपदिकात् सुबुत्पत्तिः भवति |


राजपुरुष +सु '→ राजपुरुषसु इति भवति | अधुना उकारस्य इत् संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन | तस्य लोपः (१.३.९) इत्यनेन उकारस्य लोपः भवति | अधुना ससजुषो रुः (८.२.६६) ' इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | राजपुरुषरु इति भवति | उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन | राजपुरुषर् इति भवति|अधुना खरवसानयोर्विसर्जनीयः (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् | अतः  राजपुरुषः इति समस्तपदं सिद्धम् | सामान्यतया समासः प्रथमाविभक्तौ एकवचने एव क्रियते | तदनन्तरं विवक्षानुगुणं विभक्तेः परिवर्तनं कृत्वा वाक्ये प्रयुज्यते | सर्वासु विभक्तिषु राम-शब्दवत् रूपाणि भवन्ति |

 

अन्यत् उदाहरणम्


भवच्चक्षुः इति षष्ठीतत्पुरुषसमासः, लौकिकविग्रहः भवतः चक्षुः इति |


अलौकिकविग्रहः → 'भवत्‌ +ङस्‌ + चक्षु + सु' इति |


'भवत्‌ +ङस्‌ + चक्षु + सु' → समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | तदनन्तरं तत्पुरुषः (२.१.२२) इति सूत्रेण विशिष्ट - तत्पुरुषसंज्ञा अपि विधीयते | षष्ठी (२.२.८) इति विधायकसूत्रेण भवतः इति षष्ठ्यन्तं सुबन्तं, चक्षुः इति समर्थेन सुबन्तेन सह समस्यते | 'भवत्‌ +ङस्‌ + चक्षु + सु' → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

'भवत्‌ +ङस्‌ + चक्षु + सु' → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण |

'भवत्‌ +ङस्‌ + चक्षु + सु' →  सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | 'भवत्‌ ङस्‌ + चक्षु सु' इत्यस्मिन्‌ ङस्‌, सु इत्यनयोः लुक्‌ → भवत्‌ + चक्षु | 'भवत्‌ + चक्षु  → सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'भवत्‌' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | इत्थञ्च पर्यवसितं यत्‌— सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति |

'भवत्‌ + चक्षु  → सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'भवत्‌' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | इत्थञ्च पर्यवसितं यत्‌— सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति |


'भवत्‌ + चक्षु → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति षष्ठी (२.२.८) इति  | अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति | अधुना उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति | अस्माकम् उदाहरणे भवत् इति पदं षष्ठयन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति |


भवत्‌ + चक्षु → झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वसन्धिः भवति → भवद्‌ चक्षु → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन चकारस्य प्रभावेन दकारस्य स्थाने जकारादेशः भवति → भवज्‌ चक्षु → खरि च (८.४.५५) इत्यनेन जकारस्य स्थाने चकारादेशः भवति खरि परे→ भवच्‌ + चक्षु → वर्णमेलने → भवच्चक्षु इति | एतानि सन्धि-सम्बद्ध-सूत्राणि त्रिपाद्यां सन्ति यत्र पूर्वत्रासिद्धम् ( ८.२.१) इत्यस्य अधिकारः अस्ति अतः सूत्राणि क्रमेण एव प्रवर्तनीयानि |


भवच्चक्षु → इदानीं लिङ्गस्य, वचनस्य च निर्णयः भवति | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इत्यनेन  समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः | उत्तरपदम् अस्ति  चक्षु- इति, तस्य लिङ्गं अस्ति पुल्लिङ्गम्, अतः भवच्चक्षु इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम् | सामान्यतया समासः प्रथमपुरुषे एकवचने एव उच्यते | अतः  भवच्चक्षु इत्यस्य वचनं भवति एकवचनम् | तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः |


भवच्चक्षु +सु  → अत्र भवच्चक्षु  इति प्रातिपदिकात् सु प्रत्ययः विधीयते  ङ्याप्प्रातिपदिकात्‌  ( ४.१.१) स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) इति द्वाभ्यां सूत्राभ्याम् | सु इति प्रत्यये उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन |अतः भवच्चक्षु +स् इति भवति | अधुना ससजुषो रुः (८.२.६६) ' इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | भवच्चक्षुरु इति भवति | उकारस्य इत्संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति तस्य लोपः (१.३.९) इत्यनेन | भवच्चक्षुर् इति भवति | अधुना खरवसानयोर्विसर्जनीयः (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् | अतः  भवच्चक्षुः इति समस्तपदं सिद्धम् | प्रथमाविभक्तौ एकवचने भवच्चक्षुः इति रूपम् |  एवमेव अन्यान् सुप्-प्रत्ययान् योजयित्वा सर्वासु विभक्तिषु रूपाणि साधयामः | रूपाणि गुरु-शब्दवत् भवन्ति |

 

 प्रथमा  भवच्चक्षुः  भवच्चक्षू  भवच्चक्षवः
 सम्बो. प्रथमा  हे भवच्चक्षो  हे भवच्चक्षू हे भवच्चक्षवः
 द्वितीया  भवच्चक्षुम् भवच्चक्षू  भवच्चक्षून्
 तृतीया  भवच्चक्षुणा  भवच्चक्षुभ्याम्  भवच्चक्षुभिः
 चतुर्थी  भवच्चक्षवे भवच्चक्षुभ्याम्  भवच्चक्षुभ्यः
 पञ्चमी  भवच्चक्षोः भवच्चक्षुभ्याम्   भवच्चक्षुभ्यः
 षष्ठी   भवच्चक्षोः  भवच्चक्ष्वोः  भवच्चक्षूणाम्
 सप्तमी  भवच्चक्षौ   भवच्चक्ष्वोः  भवच्चक्षुषु

 

 

कृत्तद्धितसमासाश्च (१.२.४६)

कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |


अनेन सूत्रेण—

१) धातुतः कृत्‌-प्रत्ययस्य विधानेन यत्‌ रूपं निष्पन्नं तत्‌ प्रातिपदिकम्‌ (कृदन्तम्‌) |

२) धातुभिन्न-प्रकृतितः प्रत्ययस्य विधानेन यत्‌ रूपं निष्पन्नं तत्‌ प्रातिपदिकम्‌ (तद्धितान्तम्‌) |

३) पदानि यत्र समस्यन्ते तत्र नूतनतया निष्पन्नरूपं प्रातिपदिकम्‌ (समासः) |

धेयं यत्‌ यद्यपि अस्मिन्‌ सूत्रे "कृत्‌" “तद्धित" इत्युक्तम्‌, तथापि कृत्‌-प्रत्ययः तद्धित-प्रत्ययः इत्यर्थः न अपि तु येषां रूपाणाम्‌ अन्ते इमे प्रत्ययाः सन्ति | वैयाकरणैः उक्तं यत्‌ अर्थवत्‌ इत्यस्य अनुवृत्तिः अस्ति— कृत्‌-प्रत्ययाः तद्धित-प्रत्ययाः स्वयं नार्थवन्तः; यदा प्रकृतेः विहिताः तदा व्युत्पन्नं रूपम्‌ अर्थवत्‌ अतः अस्मिन्‌ सूत्रे कृत्‌ इत्युक्ते कृदन्तम्‌, अपि च तद्धित इत्युत्क्ते तद्धितान्तम्‌ |

 

सुपो धातुप्रातिपदिकयोः (२.४.७१)

धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः | सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम् | ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ( २.४.५८) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— धातुप्रातिपदिकयोः सुपः लुक् |

 

अदर्शनं लोपः (१.१.६०)

लोप-संज्ञया अदर्शनं विहितम्‌ |

प्रत्ययस्य लुक्श्लुलुपः (१.१.६१)

लुक्‌, श्लु, लुप्‌ इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितम्‌ |

न लोपः प्रातिपदिकान्तस्य (८.२.७)

प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तं, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | ' पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः |

 


समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनं किम् ? '

समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनद्वयं वर्तते | प्रातिपदिकसंज्ञा अस्ति चेत् एव सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण समस्तपदस्य अवयवभूतानां सुप् -प्रत्ययानां  लुक् भवति | एतत् प्रातिपदिकसंज्ञायाः प्रथमं प्रयोजनम् | समासस्य प्रातिपदिकसंज्ञा अस्ति चेत् एव सुप् -प्रत्ययाः विधीयन्ते ङ्याप्प्रातिपदिकात्‌  ( ४.१.१) इति सूत्रेण | यदा सुप्- प्रत्ययाः विधीयन्ते तदा  एव पदत्वं सिद्ध्यति सुप्तिङन्तं पदम् (१.४.४१) इति सूत्रेण | अपदं न प्रयुञ्जीत इति नियमात् लोके पदम् एव प्रयोक्तव्यम् |

 

सुप्तिङन्तं पदम्‌ (१.४.१४)

सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | तर्हि यस्य पदस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तत्‌ सुबन्तं; यस्य पदस्य अन्ते तिङ्‌-प्रत्ययः अस्ति, तत्‌ तिङन्तम्‌ | एकविंशतिः सुप्‌-प्रत्ययाः सन्ति; अष्टादश तिङ्‌-प्रत्ययाः सन्ति |

 

तिङन्तपदम्‌

धातुभ्यः तिङ्‌-प्रत्ययानां योजनेन तिङन्तपदं— नाम क्रियापदं— निष्पन्नम्‌ |

 

सुप्‌-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ (४.१.२) =

स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्‌


सानुबन्धाः सुप्प्रत्ययाः

 प्रथमा  सु    जस्
 द्वितीया अम् औट्  शस्
 तृतीया  टा  भ्याम्  भिस्
 चतुर्थी  ङे  भ्याम्  भ्यस्
 पञ्चमी  ङसि  भ्याम्  भ्यस्
 षष्ठी  ङस् ओस् आम्
 सप्तमी  ङि  ओस्  सुप्

 

 

निरनुबन्धाः सुप्प्रत्ययाः

 प्रथमा  स्  अस्
 द्वितीया अम्  अस्
 तृतीया  भ्याम्  भिस्
 चतुर्थी  ए  भ्याम्  भ्यस्
 पञ्चमी अस्  भ्याम्  भ्यस्
 षष्ठी अस् ओस् आम्
 सप्तमी  ओस्  सु

 

 

१) सु इति प्रत्यये उकारस्य इत् संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन |

२) औ इति प्रत्यये कोपि इत्संज्ञकः वर्णः नास्ति |

३) जस् इति प्रत्यये जकारस्य इत्संज्ञा भवति चुटू ( १.३.७) इति सूत्रेण |

४) अम् इति प्रत्यये, मकारस्य इत्संज्ञा भवति स्म हलन्त्यम् ( १.३.३) इति सूत्रेण परन्तु न विभक्तौ तुस्माः (१.३.४) इति सूत्रेण तस्य निषेधः क्रियते अतः मकारस्य इत्संज्ञा न भवति | अम् इति एव अवशिष्यते |

५) औट् इति प्रत्यये टकारस्य इत्संज्ञा भवति हलन्त्यम् ( १.३.३) इति सूत्रेण | औ इति अवशिष्यते |

६) टा इति प्रत्यये टकारस्य इत्संज्ञा भवति चुटू ( १.३.७ इति सूत्रेण, आ इति अवशिष्यते |

७) भ्याम्, भिस्, भ्यस् - अत्र अन्तिमस्य मकारस्य, सकारस्य च इत्संज्ञा भवति स्म हलन्त्यम् ( १.३.३) इति सूत्रेण परन्तु न विभक्तौ तुस्माः (१.३.४) इति सूत्रेण  निषेधः क्रियते अतः मकारस्य, सकारस्य च इत्संज्ञा न भवति | अतः भ्याम्, भिस्, भ्यस् इति एव अवशिष्यन्ते |


८) ङे, ङि इत्यनयोः प्रत्यययोः लश्क्वतद्धिते (१.३.८) इति सूत्रेण ङकारस्य इत्संज्ञा भवति | अतः एकारः, इकारः च अवशिष्येते |


९) ङसि, ङस् इत्यनयोः प्रत्यययोः लश्क्वतद्धिते (१.३.८) इति सूत्रेण ङकारस्य इत्संज्ञा भवति | इकारस्य इत् संज्ञा भवति उपदेशेऽजनुनासिक इत् ( १.३.२) इत्यनेन | ङस् इत्यत्र सकारस्य इत्संज्ञा भवति स्म हलन्त्यम् ( १.३.३) इति सूत्रेण परन्तु न विभक्तौ तुस्माः (१.३.४) इति सूत्रेण तस्य निषेधः क्रियते अतः सकारस्य इत्संज्ञा न भवति|उभयत्र अस् इति एव अवशिष्यते |


१०) ओस्, आम् इत्यनयोः प्रत्यययोः सकारस्य, मकारस्य च इत्संज्ञा भवति स्म हलन्त्यम् ( १.३.३) इति सूत्रेण परन्तु न विभक्तौ तुस्माः (१.३.४) इति सूत्रेण तस्य निषेधः क्रियते अतः सकारस्य, मकारस्य च इत्संज्ञा न भवति | ओस्, आम् च अवशिष्येते |

११) सुप् इति प्रत्यये पकारस्य इत्संज्ञा भवति हलन्त्यम् ( १.३.३) इति सूत्रेण, सु इति अवशिष्यते |



तस्य लोपः (१.३.९)

इत्यनेन सर्वत्र इत्संज्ञकवर्णस्य लोपः भवति |

ङ्याप्प्रातिपदिकात्‌ (४.१.१) [अधिकारः ४.१.१ – ५.४.१६०]

चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्यायाः विहिताः, ते सर्वे प्रातिपदिकेभ्यः, ङ्यन्तेभ्यः, आबन्तेभ्यः वा आयान्ति | ङ्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति | तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वाणि सुबन्तविधायकसूत्राणि सन्ति; तेषु सर्वेषु यत्‌ किमपि विहितं, प्रत्ययः इत्यनेन यः विहितः, तस्य नाम प्रत्ययः | अपि च यः विहितः, सः सर्वत्र प्रातिपदिकात्‌, ङ्यन्तात्‌, आबन्तात्‌ वा विहितः भवति |

 

पूर्वत्रासिद्धम्‌ (८.२.१)

सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | इदम्‌ अधिकारसूत्रम्‌; तस्य प्रभावः भवति ग्रन्थस्य अन्तपर्यन्तम्‌ | पूर्वस्मिन्‌ इति पूर्वत्र | न सिद्धम्‌ असिद्धम्‌ | पूर्वत्र अव्ययम्‌, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— पूर्वत्र असिद्धम्‌ |

 

स्वमोर्नपुंसकात्‌ (७.१.२३)

नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः) | सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः | स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | षड्भ्यो लुक्‌ (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक् |

 

अतोऽम् ( ७.१.२४)

अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति | अतः पञ्चम्यन्तं, अम् प्रथमान्तं, द्विपदमिदं सूत्रम् | अङ्गस्य ( ६.४.१) इत्यस्य अधिकारः | स्वमोर्नपुंसकात्‌ (७.१.२३) इति सूत्रस्य पूर्णानुवृत्तिः अस्ति | अनुवृत्ति-सहितसूत्रम्‌—  नपुंसकात् अतः अङ्गात्  स्वमोः अम् |

 

 

अमि पूर्वः (६.१.१०७)

अक् वर्णात्  अम् सम्बन्धी अच् परः चेत् पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | अकः सवर्णे दीर्घः ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | इको यणचि ( ६.१.७७) इत्यस्मात् सूत्रात् अचि इत्यस्य अनुवृत्तिः | अनुवृत्ति सहितसूत्रम् — अकः अमि अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |

 

ससजुषो रुः (८.२.६६)

पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |

 

विरामोऽवसानम्‌ (१.४.११०)

वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | ' सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम्‌ |

 

खरवसानयोर्विसर्जनीयः (८.३.१५)

पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |

 

झलां जशोऽन्ते (८.२.३९)

पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य अन्ते झलां जशः |

 

खरि च (८.४.५५)

झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् ‌|

 

वाऽवसाने (८.४.५६)

अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अवसाने झलां चरो वा |

 

स्तोः श्चुना श्चुः (८.४.४०)

सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— स्तोः श्चुना श्चुः संहितायाम् |

 

अग्रे प्रत्येकं समासस्य विषये सूत्रसहिता दृष्टिः परिशील्यते |

 

अभ्यासः


अधो दत्तेषु उदाहरणेषु प्रक्रिया चिन्तनीया -

१) चोरात् भयम् = चोरभयम्

२) योगस्य ईश्वरः = योगेश्वरः

३) गणानाम् ईशः = गणेशः

४) जगतः गुरुः = जगद्गुरुः

५) देवस्य आलयः = देवालयः |

 

इत्यनेन समासपरिचयः इति विषयः समाप्तः |

उपरि गम्यताम्
 

Vidhya - March 2020